सवितुः सर्वजगतः प्रसवितुः जगत्कारणस्य देवस्य द्योतनस्वभावस्य स्वयं प्रकाशचिदेकरसस्य वरेण्यं वरणीयं सर्वैः प्रार्थनीयं सुखैकतानरूपं सर्वैः सुखस्यैव प्रार्थनीयत्वात्। भर्गः भ्रस्जदाहे प्रकृतिप्राकृतलक्षणसंसारस्य दाहकं यः धियः धी-वृत्तीः प्रचोदयात् सदा प्रेरयति। तस्य बुध्यादि-प्रेरकस्य सवितुः देवस्य वरेण्यं परमानन्दैकरसं भर्गः सकारान्तः संसारदाहकं निर्गुणं धीमहि ध्यायामः इति।