बहुशः, सर्वेषामपि पठितॄणां न केवलं संस्कृते रुचिः, परन्तु वेदान्ते साहित्ये वा रुचिरपि स्यात्। बाल्ये संस्कृतम् अधीतं चेत्, पितॄणामपि संस्कृतश्रद्धा स्यात्। प्रौढावस्थायाम् अधीतं चेत्, स्वस्यैव संस्कृतश्रद्धा स्यात्। गतदशके, ततः प्राक् च, बहुभिः हितैषिभिः महती संस्कृतसेवा आचरिता। ततः संस्कृतपरम्परा कणशः आश्वासिता।
संस्कृताध्ययनं बहुत्र क्रियते। अन्तर्जालस्य महान् लाभः, यतो हि, दूरे स्थितेऽपि बहवः परिचिताः जाताः। क्वचित् वार्षिकशिबिराणि मेलनानि च आचर्यन्ते, यैः प्रत्यक्षतया वास्तविकपरिचयोऽपि जायते। विश्वविद्यालयेषु पाश्चात्येषु केषुचित् मेलनानि आयोज्यन्ते यत्र भाषणानि संस्कृतेन अपि क्रियन्ते।
वेदान्तक्षेत्रे, क्वचित् द्विवर्षात्मकं त्रिवर्षात्मकं वा आवासीयशिबिरं प्रवत्त्यते, यस्मिन् प्रस्थानत्रयं परिचर्यते। आचार्यभाष्यं मुख्यम् अंशं मत्त्वा, संस्कृतज्ञानम् अपि प्रतिपाद्यते। किन्तु, संस्कृतभाषा अङ्गुलीयकमात्रं मत्त्वा, केषुचन सत्रेषु एव "भाषापाठनम्"। तेषु अपि सत्रेषु अङ्गुलीयकं नैव धार्यते, प्रत्युत केवलं प्रदर्श्यते। यदि मासाभ्यन्तरे व्यवहारः संस्कृतभाषया क्रियते, तर्हि कियान् अमाप्यः लाभः स्यात्? पुनश्च यदा भाष्यं पठ्यते, गतिवेगः भवत्येव। त्रिः वर्षं, ततः कियती कुशलता स्यात् भागवाहिनाम्? सुन्दरः स्वप्नः ननु?
गुरुकुलं गुरुकुलीकर्तुं, संस्कृतभाषा अपि आश्रयणीया इति भाति।