ज्ञानिनामपि चेतांसि देवी भगवती हि सा ।
बलादाकृष्य मोहाय महामाया प्रयच्छति ॥ १-४२

न हि केवलं प्रवृत्तिमार्गाणाम् असौ मोहिका भवति, किन्तु ज्ञानिनाम् अपि। सा देवी भगवती महामाया ज्ञानिनां चेतांसि अन्तःकरणानि बलात् आकृष्य विवेकात् व्यावर्त्य मोहाय प्रयच्छति मोहवन्ति करोति। भवद्विधानां का कथा इति भावः॥

[ दुर्गासप्तशती गूढार्थमयी। प्रकाशितार्थः अत्र अन्वयमात्रप्रायः ]