रोगानशेषानपहंसि तुष्टा रुष्टा तु कामान् सकलानभीष्टान् ।
त्वामाश्रितानां न विपन्नराणां त्वामाश्रिता ह्याश्रयतां प्रयान्ति ॥ ११-२८
हे देवि ! त्वं तुष्टा सती त्वाम् आश्रितानाम् अशेषान् रोगान् उपद्रवान् अपहंसि नाशयसि। रुष्टा सती सकलान् कामान् सकलान् अभीष्टान् अर्थान् अपहंसि। त्वाम् आश्रितानां नराणां न विपत्, आपत् न विद्यते। विशेषतः ये त्वाम् आश्रिताः, ते अन्येषाम् आश्रयतां प्रयान्ति।