प्रख्यातेन स्वामिना शिवानन्देन उच्यते यत् साधना च अभ्यासश्च पर्यायपदे इति। नाम, साधना = अभ्यासः। तां साधनां विना, तम् अभ्यासं विना न किञ्चित् फलति। सर्वक्षेत्रतथ्यम् इदम्। पदं एकैकम् अग्रे संस्थाप्य चलनाभ्यासः शैशवे। तदेव सातत्येन क्रियमाणं धावनाभ्यासः बाल्ये। स्वामिना उच्यते यत् वेदान्तक्षेत्रे बहवः कुतूहलिनः सन्ति, किन्तु कृताभ्यासाः आत्मविचारवन्तः अङ्गुलीगणनीयाः इति। संस्कृतक्षेत्रेऽपि कृताभ्यासाः अभ्यस्तचतुर्विधसोपानाः न्यूनाः। चत्वारि सोपानानि -- श्रवणं, भाषणं, पठनं, लेखनम् -- चेति। यस्मिन् कस्मिन् सर्वस्मिन् अपि क्षेत्रे कृताभ्यासाः साधनावन्तः अग्रेसराः भवेम। न केवलं कुतूहलं प्रत्युत अभ्यासश्च क्रियताम्। प्रयोगः करणीयः। इदम् एव सार्वकालिकन्यायः श्रीकृष्णशास्त्रिणा "ज्ञाने धर्मः उत प्रयोगे" नामके ग्रन्थेऽपि सरलसंस्कृतभाषया अङ्कितः। संस्कृतभारत्या एव प्रकाशितोऽयं ग्रन्थः।