अस्मदाचार्यबोधः यत् सर्वोऽपि लोकः गुरुः इति। नाम, सर्वस्याम् अपि व्यक्त्यां गुणाः सन्ति। सर्वस्याः अपि व्यक्त्याः परिशीलनात् स्वपरिष्कारः स्वोद्धारश्च शक्यः, सः तस्मात् आचरणीयः। सर्वशास्त्रोक्तिः यत् आदौ साधकेन प्रयासः करणीयः, तदनु स्वयं प्रकृतिः गुरुं प्रेषयति, पठनावसरो वा कल्पयति चेति। उपनिषद्सु अपि बहुचित्रितम् इदम्। छान्दोग्योपनिषदि सत्यकामः गुरुम् उपससार। तदा गुरुसेवार्थं गोवृन्दवृद्धौ नियुक्तः असौ। वर्षगणः अतीतः। तदनु स्वयम् अग्निना अयं वटुः बोधितः। अग्रे मानवेतरेभ्यः केभ्यश्चित् पुनः अयं वटुः बोधितः। एवमेव सज्जनैः सर्वत्र दॄष्टिः प्रसार्यते। दोषान्वेषने नैव, प्रत्युत आदर्शगुणान्वीक्षणे, यस्मात् स्वजीवने प्रयोगः विधेयः। प्रकृतिः एव प्रधानगुरुः।