प्रायशः सर्वेषां संस्कृतज्ञानां वेदान्ते रुचिः भवति, अल्पीयसीम् अपि। प्रसिद्धं प्रस्थानत्रयम् -- उपनिषदः, ब्रह्मसूत्रं, भगवद्गीता -- चेति। किन्तु तत्र तत्र सूत्रता मृग्या अनुपलभ्या वा सामान्यैः गुरुविहीनैः अस्माभिः। अतः काचित् टीकाऽपि आश्रयणीया भवति। अद्यत्वे सर्वेषां ग्रन्थानाम् अनुवादः क्रियते। तादृशी भाषान्तरटीका संगृह्यते सर्वविधच्छात्रैः। कुतः संस्कृतस्य आवश्यकता ?
भूतकाले संस्कृतलोकविदुषां स्थितिः दृढतरा अवर्तत। नाम, षड् दर्शनेषु (विशेषतया तर्कशास्त्रे) कुशलता आसीत्। अद्य, सर्वं शिथिलायते। उदाह्रियते -- क्वचित् पुरस्कृतवैयाकरणः परिपृष्टः -- कालिदासकृत्यवगमाय कुतः मल्लिनाथस्यैव आश्रयः इति।
तदा भणितम् -- निर्दोषवचनं तस्य। अन्याः टीकाः वर्त्तन्ते यासां गुणाः अवश्यं स्युः, किन्तु क्वचित् क्वचित् दोषाः अपि स्फुटाः स्युः। मा तादृशीं टीकाम् आहृत्य अहं दोषप्रदर्शनाय प्रार्थनीयः, यतो हि तदन्वेषणाय महान् प्रयासो विधेयो भवति -- इति।
एवं, बहवः गुणवन्तः अनुवादाः सन्ति, किन्तु तेऽपि दोषवन्तः स्युः। परम्परागतानां कृतीनां तु परिशीलनं सूक्ष्मतया कृतम्। नाम, कालाग्निपरीक्षिताः ताः। अतः तासाम् उपादेयत्वम्।
प्रस्थानत्रयपठनात् पूर्वं द्वित्राः प्रकरणग्रन्थाः पठनीयाः। किन्तु तत्र चिन्ता उदेति। उक्तं महेशानन्दगिरिवर्येण -- ग्रन्थानामभावे कथं पठनं पाठनं वा सिद्ध्येदिति भृशं चिन्तयन्तः खिन्नाः वयं भगवन्तं भूतभावनं शङ्करं प्रार्थितवन्तः -- इति। प्रयासः अयं सफलतां गतश्च। तैः प्रकरणद्वादशी, प्रकरणाष्टकं नामकौ ग्रन्थौ प्रकाशितौ यत्र अद्वैतवेदान्तस्य प्रकरणकुसुमगुच्छं संग्रहीतं, सर्वं टीकोपेतं च। http://books.arshavidya.org द्वारा उपलभ्यते। तत्र "prakaranadvadashi" अन्वेष्टव्यम्।
प्रकरणाष्टके आदिमग्रन्थः अपरोक्षानुभूतिः। सरलभाषा अस्याः। कदाचित् कस्यचन आचार्यस्य प्रवचनं श्रुत्वा, मुदितोऽभवं, यतो हि कृतौ अनुक्ताः नैके अंशाः अनेन आचार्येन वर्णिताः। अतीते च काले, प्राप्तायां च टीकायां, ज्ञातं यत् सर्वोऽपि अनुक्तांशः टीकायामपि स्फुटं गतः इति। नात्र कार्या विचारणा, ननु् ?
टीकायाः गुणमात्रसूचना अस्मल्लक्ष्यम्।