आबालवृद्धं सर्वमपि विविधाभिः कथाभिः कालं नयति । अतः तत्रैव ऋषिभिः इहलोकतथ्यानि परलोकतथ्यानि च सूत्रितानि । अयं च कथोपायः इति कथ्यते । महर्षिवाल्मीकिना रामायणं, तथैव चतुर्मुखब्रह्मणः पुनर्चोदनात् योगवासिष्ठं च ग्रथिते । तत्रैव उत्तरग्रन्थे उच्यते -- “कथोपायान् विचार्यादौ मोक्षोपायान् इमान् अथ । यो विचारयति प्राज्ञो न स भूयोऽभिजायते” -- इति । टीकाकारः उपबृंहति -- कथा एव धर्मतत्त्वज्ञानानुष्ठानेश्वरप्रपत्तिषु ज्ञानाधिकारप्रापकेषु उपायो यस्मिन् ग्रन्थे स पूर्वरामायणग्रन्थः कथोपायः -- इति ।
महर्षिवचनं श्रुत्वा, संशयानाः वयं -- कुतः कथोपायपठनावश्यकता यत्र स्वयं मोक्षोपायो प्रदीप्यते -- इति । शङ्कामिमां निवारयितुं स्वयमुच्यते -- “शिष्यायास्मै विनीताय भरद्वाजाय धीमते । एकाग्रो दत्तवांस्तस्मै मणिमब्धिरिवार्थिने” -- इति । यथा समुद्रः काङ्क्षिणे मणिं वज्रादिकम् अर्पयति, तथैव श्रीवाल्मीकिः स्वशिष्याय रामायणमणिं दत्तवान् इत्यर्थः । नेदं सामान्यं धनं प्रत्युत महर्षिधनम् । अपि तु न स शिष्यवृन्दभावेन अर्पितवान्, प्रत्युत एकाग्रो भूत्वा । इदमेव एकाग्रत्वं गुरुशिष्यसंप्रदायमहत्त्वम् ।
अलं पल्लवितेन । रामायणपठितॄणां पुण्यम् एव । कथं वा पूर्वजन्मसंपादितपुण्यपुञ्जरहिताः वयं महर्षिप्रणीतग्रन्थम् इमं पठेम ? कथञ्चित् महर्षिकृपाभ्रान्त्या प्राप्तावसराः वयम् । एहि, सफलीकुर्मः ।