विदितं सर्वैर्यत् सप्तसु विभक्तिषु कारकाणि षट् इति । तद्यथा श्लोकेन स्मर्यते --
कर्ता कर्म च करणं संप्रदानं तथैव च ।
उपादानाधिकरणे चेत्याहुः कारकाणि षट् ॥
सप्ताहान्ते प्राथमिकवर्गे कस्मिंश्चित्, विभक्त्यर्थः प्राकाश्यत । तत्र यदा कारकसंज्ञाः उक्ताः, प्रतिपदार्थः बोधनीयः अभवत् । तद्यथा -- किमिदं संप्रदानत्वं, किमिदम् उपादानत्वम्, इत्यादयः प्रश्नाः पृष्टाः । संज्ञया संज्ञीबोधः सहसा न सञ्जातः ।
तैरेव प्रश्नकर्तृभिस्तु -- रामाय नमः, वृक्षात् पत्रं पतति -- इत्यादीनां वाक्यार्थः सुष्ठु अवगम्यते । तस्मात् आदौ श्लोकान्तरं सतात्पर्यं बोधनीयम् इति भाति यद्यथा --
रामो राजमणिः सदा विजयते, रामं रमेशं भजे ।
रामेणाभिहिता निशाचरचमू, रामाय तस्मै नमः ।
रामान्नास्ति परायणं परतरं, रामस्य दासोस्म्यहम् ।
रामे चित्तलयः सदा भवतु मे , हे राम मामुद्धर ॥
अत्रापि, यद्यपि ते प्रश्नान्तराणि पृच्छेयुः, तथापि भावावगमः भवेत् ।