अमरकोषस्य विश्वप्रशस्तस्य प्रस्तावना अनावश्यकी । भारतरत्नेषु इदमपि अन्यतमम् । तथापि कथञ्चित् इमे अमूल्यग्रन्थाः केवलं पूज्यन्ते । अद्यत्वे कण्ठस्थीकरणपरम्परा नष्टा इव । अतः शतकेऽस्मिन् कैश्चन विद्वद्भिः अमरकोषस्य नूतनं संक्षिप्तं संस्करणं प्रकाशितम् । यत्र अमरसिंहस्यैव पद्धतिम् अनु श्लोकाः केचन विरचिताः, अन्ये अनूदिताश्च ।

  1. अमरकोषः -- १५०० श्लोकाः
  2. अमरकोषसंग्रहः -- ६६६ श्लोकाः
  3. अमरसारः -- ५३० श्लोकाः

कथं वा संक्षेपीकरणम् ? इन्द्रम् उद्दिश्य कश्चन उदाहारः --

इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः
जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः
सुत्रामा गोत्रभिद्वज्री वासवो वृत्रहा वृषा
वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः
जन्मभेदी हरिहयः स्वाराण्नमुचिसूदनः
संक्रन्दनो दुश्च्यवनस्तुराषाण्मेघवाहनः
आखण्डलः सहस्राक्षः  ॥   अमरः

इन्द्रो मरुत्वान् मघवा विडौजाः पाकशासनः
वृद्धश्रवाः सुनासीरः पुरुहूतः पुरन्दरः ॥ संग्रहः

इन्द्रो मरुत्वान् मघवा बिडौजाः पाकशासनः
शक्रः पुरन्दरो वज्री वासवो वृत्रहा वृषा
आखण्डलः सहस्राक्षस्तुराषाण्मेघवाहनः
पुरुहूतः सुरपतिर्बलारातिः शचीपतिः ॥ सारः

एवं, संग्रहकारेण बहुत्र अमरकोषस्य एव श्लोकाः चिताः । किन्तु, अमरसारकारेण पूजाभावनामात्रं त्यक्त्वा, नूतनश्लोकाः बहुत्र विरचिताः ।