कवयित्र्याः गङ्गादेव्याः मधुराविजयनामकं काव्यं मनःप्रीतिनदीकमलिनीचन्द्रिका इत्यत्र नास्ति अतिशयोक्तिः । प्रथमसर्गे कविपरम्परावर्णने --
वाणी-पाणि-परामृष्ट-वीणा-निक्वाण-हारिणीम् ।
भावयन्ति कथं वान्ये भट्टबाणस्य भारतीम् ॥१-८॥
पूर्वेषु श्लोकेषु आदिकविं वाल्मीकिं, तथा व्यासं कालिदासं च प्रणम्य सद्यः बाणभट्टं स्तोतुम् उद्युक्ता कवयित्री । बाणस्य वाक् (भारती) कीदृशी ? सरस्वत्याः (वाण्या) हस्तेन (पाणिना) स्पृष्टा (परामृष्टा) सती, सा वाक् सरस्वत्याः वीणाशब्दम् (वीणानिक्वाणम्) अनुकरोति (अनुहरति) इति भावः । तत्र अवधेयम् । पूर्वार्धे बाणभट्टम् अनुकुर्वन् अखण्डसमासः । अन्येषां कवीनाम् अन्तरं ज्ञापयितुम् उत्तरार्धे खण्डं खण्डं समासाभावः ।