कुट्टनीमतकाव्ये वाराणसीवर्णने त्रीणि दीर्घसमस्तपदानि विद्यन्ते । तत्र सर्वत्र नैरन्तर्यं ध्वनितम् । एकैकं तानि पद्यानि अवलोकयामः ।

अतितुङ्ग-सुरनिकेतन-शिखर-समुत्क्षिप्त-पवन-चलिताभिः ।
मञ्जरितमिव विराजति यत्र नभो वैजयन्तीभिः ॥६॥

उन्नताः देवालयाः, तदूर्ध्वभागेषु वायुना कम्पिताः वैजन्त्यः (पताकाः) । तैः मञ्जरितम् इव सञ्जातपुष्पगुच्छम् इव नभः विराजति यत्र (वाराणस्याम्) । अनेन दीर्घसमासेन साधु ध्वनितं प्रासादौन्नत्यम् ।