रचयिता -- वैद्यः रामस्वरूपशास्त्री
एकः शृगालः आसीत् । स वनेऽवसत् । एकदा स जलं पातुं वापीम् अगच्छत् । स जलेऽपतत् । तस्मिन्नेव क्षणे कश्चित् छागः तत्रागच्छत् । स अपि पिपासितः आसीत् । स तम् अपृच्छत् -- "अहो मित्र ! अपि वर्तते मधुरं जलम् ?" शृगालः अवदत् -- "मधुरमिति किं कथयामि, केवलं पीयूषमेव । वारं वारं पीत्वापि तृप्तो न भवामि । न कामये हातुं जलमिदम् " ।
छागः सरलहृदयः आसीत् । स दुर्जनस्य तस्य मधुराणि वचनानि श्रुत्वा जलं पातुं तां वापिकां अवातरत् । शृगालस्तु तस्य पृष्ठे पादं निधाय वाप्याः बहिः निरगच्छत् । छागस्तु तत्रैव जले मज्जनानि च पुनः पुनः अनुभूय दुःखेन प्राणान् अत्यजत् । अत उच्यते --
दुर्जनः प्रियवादी च नैतद्विश्वासकारणम् ।
मधु तिष्ठति जिह्वाग्रे हृदि हालाहलं विषम् ॥ (हितोपदेशः १.८२)