अवेक्ष्य स्वात्मानं विगुणमपरानिच्छति तथा
फलत्येतन्नो चेद् विलपति न सन्तीह गुणिनः ।
निमार्ष्टुं शप्तुं वा परिभवितुमुद्यच्छति ततो
ऽप्यहो नीचे रम्या सगुणविजिगीषा विधिकृता ॥
– इति वल्लभदेवस्य (सुभाषितावलिः ४५२)
कश्चित् दुष्टः स्वम् आत्मानं विगुणं गुणहीनम् अवेक्ष्य ज्ञात्वा, अन्यान् गुणिनः विगुणं यथा तथा कर्तुम् इच्छति। सोऽयं प्रयासः कदाचित् फलति। नो चेत्, दुष्टः विलपति – इह न सन्ति गुणिनः – इति। ततश्च गुणिनः निमार्ष्टुं विनाशयितुं शप्तुं धिक्कर्तुं परिभवितुं च उद्यच्छति प्रयतते। सगुणं गुणवन्तं जेतुम् इच्छा सगुणविजिगीषा। अहो नीचेऽपि जने विधिकृता ब्रह्मसृष्टा रम्या काचित सगुणविजिगीषा वर्त्तते इति।
अयं भावः – दुष्टास्तु सज्जनान् दृष्ट्वा न मोदन्ते। प्रत्युत तान् स्खलयितुम् इच्छन्ति। आदौ इह लोके न सन्ति गुणिनः इति उद्घोषयन्ति। ततः अन्येषां सज्जनानां मार्गनाशं कुर्वन्ति, तान् च धिक्कुर्वन्ति, कथञ्चित् तेषां परिभावं कर्तुं कारयितुं च प्रवर्तन्ते। एतत् कुकार्यं दृष्ट्वा जनाः चिन्तयेयुः – चतुर्मुखब्रह्मणा ईदृशानां दुष्टानां सृष्टिः किमर्थं कृता – इति। रसिकाः तु न तथा मन्यते। इयं दुष्टानां क्रिया अपि रम्या इत्येव चिन्तयन्ति।