अङ्कं केऽपि शशङ्किरे, जलनिधेः पङ्कं परे मेनिरे
सारङ्गं कतिचिच्च संजगदिरे,भूच्छायमैच्छन् परे।
इन्दौ यद्दलितेन्द्रनीलशकलश्यामं दरीदृश्यते
तत्सान्द्रं निशि पीतमन्धतमन्धतमसं कुक्षिस्थमाचक्ष्महे॥
– अप्पय्यदीक्षितस्य कुवलयानन्दे
नक्तं यो धवलेन्दुमण्डलगतः संलक्ष्यते कालिमा
तं पङ्कं शशकं घनान्धतमसं मूढाः समाचक्षते।
एतन्मन्त्रिवणिक्जनैः सुकृतिभिश्चन्द्रस्य लोकं गतैः
साकं नीतमिहार्जितं भुवि पुरा कृष्णं धनं मन्महे॥
– कण्ठकाञ्जलौ
सुहासस्य लेखेषु अन्यतमे इमौ श्लोकौ उद्धृतौ प्रकाशितौ च। प्रथमस्तु सर्वच्छात्रविदिते अलङ्कारशास्त्रबोधग्रन्थे कुवलयानन्दे उदाहृतः। सारांशस्तु सुहासेन साधु प्रतिपादितः। विशिष्य कुतः कविना जलनिधिपङ्कः योजितः इति तत्र द्रष्टव्यम्।
द्वितीयस्तु मे रोचते। तत्र कुवलयानन्दस्थितश्लोकमपि मनसि निधाय विरचितोऽयं श्लोकः इति सुस्पष्टम्। कथं खलु आधुनिकेषु प्रसङ्गेष्वपि कविसमयप्रयोगः सुष्ठु प्रयुक्तः।