धन्यानां नवपूगपूरितमुखश्यामाङ्गनालिङ्गन-
प्राप्तानेकसुखप्रमोदवपुषां रम्यस्तुषारागमः ।
अस्माकं तु विदीर्णदण्डितपटीप्रच्छादितोद्घाटित-
क्रोडस्वीकृतजानुवेपथुमतां चेतः परं सीदति ॥
(सुभाषितरत्नकोषः ३१२)

धन्याः धनवन्तः शिशिरम् ऋतुं स्वागतीकुर्वन्ति। अकिञ्चित्कराः वराकाः वयं न तथा इति अस्य पद्यस्य भावः।

तुषारागमः शिशिरस्य ऋतोः आगमः रम्यः चारुः इति केषाञ्चन धन्यानां धनवतां मतम्। कथंभूतां तेषाम्? नवपूगैः खाद्यविशेषैः पूरितानि मुखानि येषां, श्यामाभिः यौवनमध्यस्थाभिः युवतीभिः आलिङ्गनं प्राप्तवतां येषां, अनेकैः नानाविधैः सुखैः प्रमोदवपुषां हृष्टशरीराणां येषां तेषाम्।

अन्येषाम् अस्माकं का वा स्थितिः? विदीर्णाभिः विच्छिन्नाभिः तथा दण्डिताभिः निन्दिताभिः पटीभिः वस्त्रप्रान्तैः उद्घाटितक्रोडे अनाच्छादितोदरे स्वीकृतजानूनां शैत्येन पुटीकृतशरीराणां वेपथुमतां कम्पमानानां चेतः हृदयं परं सीदति दुःख्यस्य परां काष्ठां गतम् इति भावः।

उभयत्रापि दीर्घसमासाभ्याम् अविच्छिन्नहर्षपरम्परा तथा अविच्छिन्नदुःखपरम्परा साधु वर्णिता कविना।