गते प्रेमावेशे प्रणयबहुमाने विगलिते
निवृत्ते सद्भावे जन इव जने गच्छति पुरः ।
तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतांस्तांश्च दिवसान्
न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥
– अमरुकशतकम् ३८

काचित् युवतिः भूतपूर्वकान्तेन परिभूतायां सत्यां, कतिपयेभ्यः वर्षेभ्यः परं तमेव कान्तं पुरोगामिनं वीक्ष्य प्रियसखीं वदति – क्रमशः तीव्रप्रेम कान्तेऽस्मिन् कथञ्चित् अपगतम् – इति। आदौ गतः प्रेमावेशः। ततः अपगतः बहुमानः। ततः सद्भावोऽपि निवृत्तः। अन्ते सामान्योऽयं जनः सञ्जातः। सद्यस्तु तं पुरोगामिनं दृष्ट्वा गतान् तान् दिवसान् स्मृत्वा स्मृत्वा मम हृदयं न शतधा दलति।

अयं भावः – पूर्वं कौचित् दम्पती रमेते। कालेन सः सम्पर्कः विनाशं गतः। तदा तया युवत्या तीव्रपीडा अनुभूता। तत्पश्चात् कालस्रावः। पुनः कदाचित् सा युवतिः अकस्मात् तं भूतपूर्वकान्तं पुरोगामिनं पश्यति। किन्तु तदा न कापि महती पीडा। तदा सा चिन्तयति – आदौ तस्य दर्शनमात्रेण यत् प्रेम जायते, तत् इदानीं न अनुभूयते। तं सद्यः पुरोगामिनं पौनःपुन्येन दृष्ट्वाऽपि पूर्ववृत्तं स्मृत्वाऽपि मम हृदयेन शतखण्डकृतेन न विदार्यते – इति।