कश्चित् श्लोकः श्रुतः, तद्यथा –
दीर्घीकुर्वन् पटु मदकलं कूजितं सारसानाम्
प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः।
यत्र स्त्रीणां हरति सुरतग्लानमङ्गानुकूलः
शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः॥
इति काव्यमीमांसायां मेघदूतात् समुद्धृतम्
श्लोकस्य अयं भावः यत् शिप्रावातः शिप्रानद्याः वातः वायुः स्त्रीणां अङ्गग्लानिं देहश्रान्तिं हरति। इतोऽपि अर्थं ज्ञातुकामैः अवश्यं मल्लिनाथस्य व्याख्या द्रष्टव्या। शिप्रावातः स्फुटितकमलामोदमैत्रीकषायः इत्यत्र कषायस्य कोऽर्थः? आदौ अमरकोषे विद्यमानम् –
- तुवरस्तु कषायोऽस्त्री …
- निर्यासेऽपि कषायोऽस्त्री …
अमरकोषे द्विः पठितः कषायशब्दः। लिङ्गानुशासनं स्पष्टं … पुंसि इदं पदं प्रयुज्यते इति। प्रथमार्थः रसः (यः प्रादेषभाषासु प्रचुरतां गतः)। द्वितीयार्थस्तु निर्यासार्थः। कथं युज्यते अत्र? आमोदमैत्री नाम आमोदसंसर्गः आमोदस्पर्शः। तस्मात् संसर्गात् उभौ अपि अर्थौ अस्थाने। अमरकोषव्याख्यात्रा वाक्यसुधाकारेण भानुजिदीक्षितेन अन्येभ्यः कोषेभ्यः उद्धृतं तद्यथा –
कषायो रसभेदे स्यादङ्गरागे विलेपने।
निर्यासेऽथ कषायोऽथ सुरभौ लोहितेऽन्यवत् ॥ इति
मल्लिनाथस्तु सौरभार्थे व्याख्याति –
स्फुटितानां विकसितानां कमलानाम् आमोदेन परिमलेन सह या मैत्री संसर्गः, तेन कषायः सुरभिः।
बहुधा प्राधीतैः अस्माभिः पठितपूर्वानां शब्दानां एकार्थता गम्यते। यद्यथा – मैत्री नाम मित्रता, कषायो नाम रसः – इति। किन्तु तेन अर्थः न सिद्ध्यति। केचित् कषायरसार्थं स्वीकुर्वन्ति एव –
प्रभातेषु स्फुटितानि विकसितानि यानि कमलानि, तेषाम् आमोदः सौरभं, तस्य मैत्र्या संपर्केन कषायः कषायरसयुक्तो भवति इत्यर्थः। इति वल्लभदेवविरचितविवृतिः
तथापि अत्र उपमापूर्त्यै मल्लिनाथस्य मार्गं शरणं मन्ये। प्रार्थनाचाटु मधुरं स्यात्, न तु कषायरसयुक्तम्, यद्यपि औषधसेवनेन ग्लानरोगः नश्वरं गच्छेत्!