किं कूर्मस्य भरव्यथा न वपुषि क्ष्मां न क्षिपत्येष यत्
किं वा नास्ति परिश्रमो दिनकरस्यास्ते न यन्निश्चलः ।
किं त्वङ्गीकृतमुत्सृजन् कृपणवच्छ्लाघ्यो जनो लज्जते
निर्व्यूधिः प्रतिपन्नवस्तुषु सतामेकं बताहो व्रतम् ॥
(सुभाषितरत्नकोषः १३४८)
कूर्मः सकलमपि जगत् निर्वहति। किं तस्य कूर्मस्य भरव्यथा विश्वभरणपीडा वपुषि शरीरे नास्ति? तथापि एषः भारं न क्षिपति। सूर्यः भ्रमणशीलः क्रमेण सर्वत्र किरणान् प्रसारयन् अन्धकारं नाशयति। किं वा नास्ति तस्य दिनकरस्य परिश्रमः? तथापि सः निश्चलः स्थिरः सन् न आस्ते न तिष्ठति। तथैव किं श्लाघ्यो जनः सज्जनः अङ्गीकृतं कार्यं कृपणवत् नीचवत् उत्सृजन् त्यजन् न लज्जते? प्रतिपन्नवस्तुषु अङ्गीकृतसमारब्धकार्येषु निर्व्यूधिः सत्समाप्तिः एकं व्रतम् एव सतां साधूनाम्। तथा मन्यन्ते ते इति यावत्॥