पिनष्टीव तरङ्गाग्रैः समुद्रः फेनचन्दनम्।
तदादाय करैरिन्दुर्लिम्पतीव दिगङ्गनाः॥
(कुवलयानन्दे)
समुद्रः सागरः तरङ्गाग्रैः ऊर्मिभिः फेनचन्दनं फेनाः एव चन्दनं तत् पिनष्टि इव तस्य पेषणं करोति इव। इन्दुः चन्द्रः तदादाय पिष्टचन्दनं स्वीकृत्य करैः हस्तैः किरणैः वा दिगङ्गनाः दिशः आशाः लिम्पति इव तासां लेपनं करोति इव।
इदं पद्यं कुवलयानन्दे अनुक्तवसूत्प्रेक्षायाः उदाहरणम्। चन्दनपेषणं च दिशां लेपनं च उत्प्रेक्षायां क्रिये, न तु वास्तविके। दृश्यमाने क्रिये तरङ्गप्रेरणं दिक्षु किरणव्यापनं च उभेऽपि अनुक्ते॥