रूपातिशयकर्तॄणां प्रतिच्छन्दो हि कारणम्।
विलोलनयनां धात्रा सृजता किं निरीक्षितम्॥
(सुभाषितावलिः १२०९)

कश्चित् नायकः कान्तां स्मृत्वा निगदति रूपातिशयेति। रूपातिशयकर्तॄणां कारणं प्रतिच्छन्दः एव। परं रूपं निरूपवतां सदृशवस्तु एव हेतुः। कान्तायाः चञ्चलननये अत्यन्तं सुन्दरे इति कृत्वा कथं धात्रा चतुर्मुखब्रह्मणा सा एवं निरूपिता। तादृशं सौन्दर्यं स्रष्टुं तेन प्रथमं किं वा दृष्टम्?