शीतांशुकरसंस्पृष्टा निशासु कमलाकराः ।
संकुचन्त्यप्रियं दृष्ट्वा नयनानीव योषिताम् ॥
– इति महामनुष्यस्य (सुभाषितावलिः १९६१)
निशासु रात्रिषु कमलाकराः कमलबहुलदेशाः शीतांशुकरसंस्पृष्टाः चन्द्रकिरणमृष्टाः सन्तः अप्रियं दृष्ट्वा योषितां नयनानि इव संकुचन्ति। कमलस्य एकमात्रकान्तः कान्तिमान् सूर्यः। न तत्र अपरा व्यक्तिः कान्तस्य पदम् अलङ्कर्तुं अर्हति। अथ यथा योषितः कान्तान्तरम् अप्रियं दृष्ट्वा नयनानि निमीलयन्ति तथा सायं कमलानि अपि संकुचन्ति।