चूडारत्नैः स्फुरद्भिर्विषधरविवराण्युज्ज्वलान्युज्ज्वलानि
प्रेक्ष्यन्ते चक्रवाकीमनसि निविशते सूर्यकान्तात् कृशानुः ।
किं चामी शल्ययन्तस्तिरिरमुभयतो निर्भराहस्तमिस्रा-
संघट्टोत्पिष्टसन्ध्याकणनिकरपरिस्पर्धिनो भान्ति दीपाः ॥
अनर्घराघवम् (२.५१)
सद्यस्तु कविवरेण्येन शङ्कराभिधेन कतिपयाः श्लोकाः उद्ध्रियन्ते। यत्र च विशिष्य अनुवादस्खलनं पण्डितंमन्यमानानां विजृम्भते। बहुधा उद्धृताः श्लोकाः अत्यन्तं रमणीयाः। अयं तेषु अन्यतमः। लक्ष्मणस्तु सन्ध्यां विवृणोति।
श्लोकेऽस्मिन् आदौ कविसमयोल्लेखः। सर्पाणां शिरोमणयः – येभ्यः तद्विवराणि भासमानानि भवन्ति। पुनश्च चक्रवाकविरहः – तन्मनांसि एव अग्निना प्रविष्टानि। स च वह्निः सन्तापरूपः इत्याह प्रकाशटीकाकारः। उत्तरार्धे नवकल्पना – दिनस्य रात्र्याश्च संघर्षणेन ये अग्निकणाः जायन्ते, तत्तुल्याः भान्ति दीपाः। लोहितत्वात् इति।