नागावासश्चित्रपोताभिरामः स्वर्णस्फीतिव्याप्तदिक्चक्रवालः ।
साम्यात् सख्यं जग्मिवानम्बुराशेरेष ख्यातस्तेन जीमूतभर्ता ॥
(काव्यमीमांसा)
अस्मिन् पद्ये पर्वतः वर्ण्यते । सोऽयं पर्वतः अम्बुराशेः सागरस्य साम्यात् सख्यं जग्मिवान् मित्रतां गतः। साम्यात् सागरश्च पर्वतश्च मैत्रीं भजतः इति। तस्मात् च ख्यातः प्रसिद्धिं गतः। कथं साम्यम् इति चेत् उच्यते। द्वौ अपि नागावासौ इति। नागो नाम मेघो वा सर्पो वा। समुद्रस्तु सर्पबहुलदेशः, पर्वतस्तु तु मेघबहुलदेशः। तस्मात् द्वौ अपि नागावासौ। एवमेव शब्दश्लेषः अग्रेऽपि साम्यं द्योतयति।
पर्वतः | सागरः | |
---|---|---|
नागावासः | मेघानाम् निवासस्थलम् | सर्पाणां निवासस्थलम् |
चित्रपोताभिरामः | बहुवर्णवान् | बहुनौकालाञ्छितः |
स्वर्णस्फीतिव्याप्तदिक्चक्रवालः | सुवर्णराशिव्याप्तः | जलराशिव्याप्तः |
जीमूतभर्ता | मेघधर्ता | मेघपोषकः |
पोतो नाम लघुनौका वा अपत्यं वा वस्त्रं वा गृहस्थानविशेषो वा। पर्वतः नानावर्णवस्त्रैः आच्छादितः तन्नाम बहुभिः वर्णैः विराजते इति। तथा च गृहनिवासस्थानि तत्र विराजन्ते, प्राणिनश्च निवसन्ति। समुद्रेषु तु नौकाः वर्तन्ते, प्राणिनश्च निवसन्ति। अभिरामः सुन्दरः। द्वौ अपि नानापोताभिरामौ। स्वर्णं नाम सुवर्णं (हेम), शोभनं जलं वा (सु+अर्णः)। तस्मात् स्वर्णस्य स्फीत्या वृद्ध्या व्याप्ताः दिक्चक्रवालाः दिग्मण्डलाः येन सः सागरो वा पर्वतो वा। भर्ता नाम धाता पोष्टा वा। समुद्रः मेघस्य पोषकः (तस्मात् समुद्रजलादेव मेघाः समुद्भवन्ति)। पर्वतस्तु तु मेघस्य धर्ता (विनासस्थानम् इति यावत्)। अतः उभौ पर्वतश्च समुद्रश्च जीमूतभर्तारौ।
कया वा अपरया भाषया ईदृशपद्यनिर्माणं शक्यम्?