निर्दहति कुलविशेषं ज्ञातीनां वैरसंभवः क्रोधः ।
वनमिव घनपवनाहततरुवरसंघट्टसंभवो दहनः ॥
श्रीकृष्णमिश्रयतेः प्रबोधचन्द्रोदयः (५.१)

“क्रोधः दहति” इति हितोक्तिः सर्वच्छात्रविदिता। वैरात् संभूतः सः क्रोधः कुलं निर्मूलं यथा तथा दहति इति। अस्मिन् पद्ये उपमा शोभते। दहनः घनपवनाहततरुवरसंघट्टसंभवः इति। घनपवनेन चण्डवातेन आहतानाम् आन्दोलितानां तरुवराणां स्थूलानां उन्नतानां च वृक्षानां संघट्टेन संघर्षेण संभूतः जनितः अयं दहनः अग्निः वनम् एव तन्निवासभूमिम् एव निर्मूलं दहति यथा, तथा कुलविशेषं निर्दहति इति।

अहो क्रोधस्य वैशिष्ट्यं यत् सर्वजनमनसि पुनः पुनः समुद्भवति, यद्यपि अस्मन्मनोभिः तरुवरवत् स्थिरैः भवितव्यम्। केन वा खलु दृष्टोऽयं घनपवनाहततरुवरसंघट्टसंभवो दहनः? न केनापि इति।