प्राणाः परित्यजत काममदक्षिणं माम्
रे दक्षिणा भवत मद्वचनं कुरुध्वम् ।
शीघ्रं न याति यदि तन्मुषिताः स्थ नूनम्
याता सुदूरमधुना गजगामिनी सा ॥
श्रीहर्षस्य रत्वावली (४.3)

प्रसङ्गोऽयं – नाटकेऽस्मिन् विदूषकः प्रविश्य मौनम् अवलम्बते। तदा राजा पृच्छति – “वयस्य, किं न कथयसि”? विदूषकस्य प्रतिवचनं “अप्रियम् इति निवेदयितुं न पारयामि” श्रुत्वा, स्वयम् एव स्वकान्तायाः प्राणत्यागं तर्कयति – “उत्सृष्टजीविता सा। हा प्रिये! सागरिके!”। तदा च सास्रं (सबाष्पं सगद्गदं) विलपति श्लोकेन अनेन।

हे प्राणाः! नूनं मां करुणारहितं त्यक्त्वा, मदादेशानुसूरम् इच्छानुकूलं गच्छत प्रियां सागरिकां प्रति। नो चेत्, अवश्यं एव मद्वत् वञ्चिताः भवत यूयम्। सा सागरिका सुदूरं जगगामिनी अप्रतिहतगन्त्री अधुनापि वर्तते … शीघ्रं गच्छत इति।

इदम् अपि कविवरेण्येन शङ्करेण उद्धृतम्। कथञ्चित् सरलोऽयं हृदयस्पर्शी श्लोकः अन्येषां अनुवादविघ्नभूतः इति।