कादम्बर्यां बहूनि स्थलानि वर्णितानि। तेषु उज्जयिनी अपि। तत्र इयम् उज्जयिनी भगवता सदाशिवेन अपरा इव पृथिवी समुत्पादिता इत्युक्तम्। कस्मात्? स्वयम् आत्मनिवसोचिता इति धिया। कथं तर्हि अपरा इव पृथिवी समुत्पादिता सा उज्जयिनी? द्वितीया पृथिवी इति चेत्, पृथिव्याः सागराः क्व, पर्वताश्च क्व?

सा एव उज्जनियी द्वितीयापृथिवीशङ्खया जलनिधिना इव परिवृता। कस्मात् एवम्? रसातलगभीरेण जलपरिखावलयेन परिवृता! सा च कैलासगिरिणेव परिगता। कस्मात् एवम्? उन्नतेन सुधासितेन प्राकारमण्डलेन परिगता इति!

बाणभट्टस्य वर्णनं यद्यपि बहुधा सुदीर्घा कृत्रिमा च, तथापि रसास्वादेन हृदयस्पर्शि वर्णनम् एव।