कठिनमपि मृगाक्ष्या वल्कलं कान्तरूपम्
न मनसि रुचिभङ्गं स्वल्पमप्यादधाति ।
विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठम्
निजमिव कमलिन्याः कर्कशं वृन्तजालम् ॥
अभिज्ञानशाकुन्तले (१.२१)
अत्यन्तं चारु चित्रणं कवेः। क्वाचित्काधिककपाठोऽयं शाकुन्तलस्य श्लोकम् इमम् अनुपतति –
सरसिजमनुविद्धं शैवलेनापि रम्यम्
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥
तत्र च “मृगाक्ष्याः कठिनमपि कान्तरूपं वल्कलं विकचसरसिजायाः स्तोकनिर्मुक्तकण्ठं कमलिन्याः निजं कर्कशं वृन्तजालमिव नमसि स्वल्पमपि रुचिभङ्गं न आदधाति” इति अन्वयः॥