वरलक्ष्मीपूजाकल्पः

source: kalpa chintāmani
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

Note: sections with this background color are additions to the original publication.

अथ वरलक्ष्मीव्रतनिर्णयः

तदुक्तं स्कान्दे पार्वतीं प्रति ईश्वरः –
शुक्ले श्रावणिके मासि पूर्णिमोपान्त्यभार्गवे।
नूतनैस्तण्डुलैः पूर्णे कुम्भे चावाह्य पद्मजाम्॥

स्त्रियः प्रसन्नहृदया निर्मलाश्चित्तवाससः।
सायं चारुमतीमुख्याश्चक्रुः पूजां प्रयत्नतः॥

धारयेद्दक्षिणे हस्ते नवसूत्रं सुगन्धिकम्।
सिद्ध्यन्ति सर्वकार्याणि वरलक्ष्मीप्रसादतः॥ इति

In the skānda purāṇa, īśvara tells pārvatī –
In the śukla pakṣa of the śrāvaṇa māsa, on the friday evening close to (preceding) the full moon, ladies led by cārumatī invoked lakṣmī in a kumbha filled with new rice. They wore clean clothes and happily worshipped her. They wore a perfumed new thread on the right hand. Through the grace of varalakṣmī, all of ones works become successful.

अथ वरलक्ष्मीपूजाकल्पः

स्वगृहे चतुरश्रं मण्डपं निर्माय, तन्मध्ये वेदिकां कृत्वा, रङ्गवल्ल्यादिभिरलङ्कृत्य, तन्मध्ये धान्यं तदुपरि तण्डुलैः विधाय, पद्ममेखामुल्लिख्य(?), तदुपरि तण्डुलपूरितकुम्भं निधाय, पञ्चपल्लवैः कूर्चैः नालिकेरफलेन चालङ्कृत्य, प्राणप्रतिष्ठां कृत्वा, अनुज्ञापूर्वकं पूजां कुर्यात्॥

Prepare a square maṇḍapa, and the vedikā within adorned appropriately. Please rice on top of a bed of grains, and draw a lotus there. On top of it, place a kumbha filled with rice. Adorn it with 5 leaves, a kūrca, and a coconut. Perform the prāṇa pratiṣṭhā, get permission from one’s elders and start the pūjā.

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

मम उपात्त समस्त दुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थम्।
तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलम् तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि॥

करिष्यमाणस्य कर्मणः अविघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्य इति नैवेद्यान्तं कृत्वा॥

शुभे शोभने मुहूर्ते + शुभतिथौ अस्माकं सहकुटुम्बानां क्षेमस्थैर्यवीर्यविजयाऽयुरारोग्यैश्वर्याभिवृद्ध्यर्थं इष्टकाम्यार्थसिद्ध्यर्थं सत्सन्तानसौभाग्यशुभफलावाप्त्यर्थं दीर्घसौमङ्गल्यावप्त्यर्थं वरलक्ष्मीप्रसादसिद्ध्यर्थं कल्पोक्तप्रकारेण ध्यानावाहनादि षोडशोपचारैः वरलक्ष्मीपूजां करिष्ये॥

विघ्नेश्वरमुद्वास्य॥ तदङ्गं कलशपूजां करिष्ये।
तज्जलेन पूजाद्रव्याण्यात्मानं च प्रोक्ष्य, कलशं करे गृहीत्वा,

कलशस्थापने श्लोकः –
वरलक्ष्मी महादेवी सर्वाभरणभूषिता।
कलशेऽस्मिन् वसेदस्मद्गेेहे सौभाग्यकारिणी॥
इति कलशस्थापनम्॥

अथ ध्यानम् –
लक्ष्मीं क्षीरसमुद्रराजतनयां श्रीरङ्गधामेश्वरीम्
दासीभूतसमस्तदेववनितां लोकैकदीपाङ्कुराम्।
श्रीमन्मन्दकटाक्षलब्धविभवब्रह्मेन्द्रगङ्गाधराम्
त्वां त्रैलोक्यकुटुम्बिनीं सरसिजां वन्दे मुकुुन्दप्रियाम्॥

या सा पद्मासनस्था विपुलकटितटी पद्मपत्रायताक्षी
गम्भीरावर्तनाभिः स्तनभरनमिता शुभ्रवस्त्रोत्तरीया।
लक्ष्मीर्दिव्यैर्गजेन्द्रैर्मणिगणखचितैः स्तापिता हेमकुम्भैः
नित्यं सा पद्महस्ता मम वसतु गृहे सर्वमाङ्गल्ययुक्ता॥

पद्मासने पद्मकरे सर्वलोकैकपूजिते।
नारायणप्रिये देवी सुप्रीता भव सर्वदा॥

क्षीरोदार्णवसम्भूते कमले कमलालये।
सुस्थिता भव मे गेहे सुरासुरनमस्कृते॥
ध्यायामि॥

बालभानुप्रतीकाशे पूर्णचन्द्रनिभानने।
सूत्रेऽस्मिन् सुस्थिता भूत्वा प्रयच्छ बहुलान् वरान्॥
इति श्लोकेन दोरस्थापनम्॥

सर्वमङ्गलमाङ्गल्ये विष्णुवक्षस्थलालये।
आवाहयामि देवि त्वामभीष्टफलदा भव॥
अस्मिन् कुम्भे वरलक्षीमावाहयामि॥

अनेकरत्नखचितं मुक्ताहारैर्विभूषितम्।
स्वर्णसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम्॥
आसनम्॥

गङ्गादिसरिदुद्भूतं गन्धपुष्पसमन्वितम्।
पाद्यं ददाम्यहं देवि प्रसीद परमेश्वरि॥
पाद्यम्॥

गङ्गानदि समानीतं सुवर्णकलशे स्थितम्।
गृहाणार्घ्यं मया दत्तं पुत्रपौत्रफलप्रदे॥
अर्घ्यम्॥

वैष्णवी विष्णुसंयुक्ता असङ्ख्यायुधधारिणी।
आचम्यतां देवपूज्ये वरदेऽसुरमर्दिनी॥
आचमनीयम्॥

दधिक्षीरसमायुक्तं मध्वाज्येन समन्वितम्।
मधुपर्कं मया दत्तं स्वीकुरुष्व महेश्वरी॥
मधुपर्कम्॥

पयःक्षीरघृतैर्मिश्रं शर्करामधुसंयुतम्।
पञ्चामृतस्नानमिदं गृहाण परमेश्वरी॥
पञ्चामृतस्नानम्॥

रत्नकुम्भसमानीतं सर्वतीर्थाहृतं जलम्।
स्नानार्थं वः प्रयच्छामि गृहाण हरिवल्लभे॥
शुद्धोदकस्नानम्॥

दिव्याम्बरयुगं सूक्ष्मं नवं चातिमनोहरम्।
त्रैलोक्यजननि त्वं तु गुहाणेदं मयार्पितम्॥
वस्त्रम्॥

माङ्गल्यमणिसंयुक्तं मुक्ताजालसमन्वितम्।
दत्तं मङ्गलसूत्रं च गृहाण हरिवल्लभे॥
कण्ठसूत्रम्॥

रत्नताटङ्ककेयूरहारकङ्कणमण्डिते।
भूषणं गृह्यतां देवि नमस्ते विष्णुवल्लभे॥
आभरणानि॥

चन्दनागरुकस्तूरिरोचनादिसुमिश्रितम्।
लेपनार्थं महादेवि दास्यामि हरिवल्लभे॥
गन्धम्॥

हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलान्वितम्।
सौभाग्यद्रव्यसंयुक्तं गृहाण परमेश्वरी॥
सौभाग्यद्रव्यम्॥

शालीयान् चन्द्रवर्णांश्च स्निग्धमौक्तिकसन्निभान्।
अक्षतान् प्रतिगृह्णीष्व भक्तानामिष्टदायिनी॥
अक्षतान्॥

मन्दारपारिजाताब्जकेतक्युत्पलपाटलैः।
मरुमल्लिकजात्यादिपुष्पैस्त्वां पूजयाम्यहम्॥
वरलक्ष्म्यै नमः। पुष्पमालां समर्पयामि॥

अथाङ्गपूजा

वरलक्ष्म्यै नमः। पादौ पूजयामि।
महालक्ष्म्यै नमः। गुल्फौ पूजयामि।
मन्दिरायै नमः। जङ्घे पूजयामि।
चण्डिकायै नमः। जानुनीौ पूजयाम।
क्षीराब्धितनयायै नमः। ऊरूौ पूजयाम।
पीताम्बरधारिण्यै नमः। कटिं पूजयामि।
सोमसोदर्यै नमः। गुह्यं पूजयामि।
लोकमात्रे नमः। जघनं पूजयामि।
विष्णुप्रियायै नमः। नाभिं पूजयामि।
जगत्कुक्ष्यै नमः। उदरं पूजयामि।
विश्वरूपिण्यै नमः। वक्षस्थलं पूजयामि।
जगद्धात्र्यै नमः। हृदयं पूजयामि।
सुस्तन्यै नमः। स्तनौ पूजयामि।
गजगामिन्यै नमः। पार्श्वौ पूजयामि।
कम्बुकण्ठ्यै नमः। कण्ठं पूजयामि।
लोकसुन्दर्यै नमः। स्कन्धौ पूजयामि।
पद्महस्तायै नमः। हस्तान् पूजयामि।
पद्मनाभप्रियायै नमः। बाहून् पूजयामि।
चन्द्रवदनायै नमः। मुखं पूजयामि।
उत्पलाक्ष्यै नमः। नेत्रे पूजयामि।
चम्पकनासिकायै नमः। नासिकां पूजयामि।
हरिप्रियायै नमः। श्रोत्रे पूजयामि।
बिम्बोष्ठ्यै नमः। ओष्ठौ पूजयामि।
श्रियै नमः। अधर पूजयामि।
चञ्चलायै नमः। जिह्वां पूजयामि।
सुकपोलायै नमः। गन्धस्थलं पूजयामि।
अष्टमीचन्द्रफालायै नमः। फालं पूजयामि।
मन्दस्मितायै नमः। चुबुकं पूजयामि।
नीलकुन्तलायै नमः। अलकान् पूजयामि।
कमलवासिन्यै नमः। पिठरं(?) पूजयामि।
पद्मासनायै नमः। शिरः पूजयामि।
सर्वैश्वर्यै नमः। सर्वाण्यङ्गानि पूजयामि॥

धूपम्

धूपं दास्यामि ते देवि गुग्गुलागरुसंयुतम्।
गृहाण त्वं महालक्ष्मी भक्तानामिष्टदायिनी॥
धूपमाघ्रापयामि।

साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।
गृहाण मङ्गलं दीपं वरलक्ष्मी नमोऽस्तु ते॥
दीपं दर्शयामि।

नानाभक्ष्यसमायुक्तं नानाफलसमन्वितम्।
षड्रसोपायनैर्युक्तं नैवेद्यं प्रतिगृह्यताम्॥
नैवेद्यम्।

उशीरवासितं तोयं गन्धपुष्पसमन्वितम्।
पानीयं गृह्यतां देवि शीतलं सुमनोहरम्॥
पानीयम्।

पूगीफलसमायुक्तं नागवल्लिदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ताम्बूलम्।

नीराजनं सुमाङ्गल्यं कर्पूरेण समन्वितम्।
चन्द्रार्कवह्निसदृशं गृहाण हरिवल्लभे॥
नीराजनम्।

पुष्पाञ्जलि गृहाणेदमिष्टसौख्यप्रदायिनी।
सर्वदुःखविनाशिन्यै देवि तुभ्यं नमो नमः॥
पुष्पाञ्जलिम्।

यानि कानि चेति प्रदक्षिणं कृत्वा।

नमस्ते सर्वजननी नमस्त्रैलोक्यमोदिनी।
हरिकान्ते नमस्तुभ्यं त्राहि मां परमेश्वरी॥
इति नमस्कृत्य।

आयुरारोग्यमैश्वर्यं पुत्रपौत्रादिकान् वरान्।
शत्रुक्षयं महालक्ष्मी यच्छ मे सर्वसम्पदः॥
इति प्रार्थयेत्।

अथ दोरग्रन्थिपूजा

कमलायै नमः। प्रथमग्रन्थिं पूजयामि॥
रमायै नमः। द्वितीयग्रन्थिं पूजयामि॥
लोकमात्रे नमः। तृतीयग्रन्थिं पूजयामि॥
विश्वजनन्यै नमः। चतुर्थग्रन्थिं पूजयामि॥
महालक्ष्म्यै नमः। पञ्चमग्रन्थिं पूजयामि॥
क्षीराब्धितनयायै नमः। षष्ठग्रन्थिं पूजयामि॥
विश्वसाक्षिण्यै नमः। सप्तमग्रन्थिं पूजयामि॥
चन्द्रसहोदर्यै नमः। अष्टमग्रन्थिं पूजयामि॥
हरिवल्लभायै नमः। नवमग्रन्थिं पूजयामि॥
इति दोरं संपूज्य॥

दोरग्रहणम्

सर्वमङ्गळमाङ्गल्येे सर्वपापप्रणाशिनी।
दोरकं प्रतिगृह्णामि सुप्रीता भव सर्वदा॥
इति दोरं हस्तेन गृहीत्वा।

नवतन्तुसमायुक्तं नवसूत्रमिदं शुभम्।
कुङ्कुमाक्तं महालक्ष्मी बध्नीयां दक्षिणे करे॥
इति दोरबन्धनम्।

अद्य पूर्वोक्त + शुभतिथौ वरलक्ष्मीप्रीत्यर्थं वरलक्ष्मीपूजान्ते क्षीरार्घ्यप्रदानं करिष्ये।

गोक्षीरेण युतं देवि गन्धपुष्पसमन्वितम्।
गृहाणार्घ्यं मया दत्तं सुप्रीता वरदा भव॥
वरलक्ष्म्यै नमः। इदमर्घ्यम्॥ एवं त्रिः॥

इन्दिरा प्रतिगृह्णाति इन्दिरायै ददाति च।
इन्दिरा तारका द्वाभ्यामिन्दिरायै नमो नमः॥
इत्युपायनं ब्राह्मणाय दातव्यम्॥

इति वरलक्ष्मीपूजा सम्पूर्णा॥

अथ वरलक्ष्म्यष्टोत्तरशतनामावलिः

ॐ प्रकृत्यै नमः
. . .
ॐ त्रिकालज्ञानसंपन्नायै नमः
ॐ भुवनेश्वर्यै नमः

इति वरलक्ष्म्यष्टोत्तरशतनामावलिः॥