आपस्तम्बीयोपाकर्मप्रयोगः

source: आपस्तम्बीयोपाकर्मप्रयोगः
author: मु॰ अ॰ वै॰ अनन्तरामशास्त्री
publisher: वैदिकवर्धिनीमुद्रणालयः (kumbakonam)
script: grantha

विषयानुक्रमणिका


आपस्तम्बीयाः ब्रह्मचारिणः गृहस्थाश्च श्रावण्यां पौर्णमास्यां उपाकर्म कुर्युः। ब्रह्मचारी प्रातः स्नात्वा सन्ध्यामुपास्य समिदाधानं कुर्यात्॥

समिदाधानप्रकारः

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

ॐ भूः + भुवःसुवरोम्॥

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं (१) प्रातः समिदाधानं करिष्ये॥ (इति सङ्कल्प्य। अग्निमिध्वा)

(१) सायं समिदाधानं करिष्ये इति सायम्॥

परि॑त्वाऽग्ने - परि॑मृजामि - आयु॑षा च - धने॑न च।
सु॒प्र॒जाः - प्र॒जया॑॑ - भू॒या॒सं॒ - सु॒वीरः॑ - वी॒रैः - सु॒वर्चाः॑॑ - वर्च॑सा - सु॒पोषः॑ - पोषैः॑॑ - सु॒गृहः॑ - गृ॒हैः - सु॒पतिः॑ - पत्या॑॑ - सु॒मे॒धाः - मे॒धया॑॑ - सु॒ब्रह्मा॑॑ - ब्र॒ह्म॒चा॒रिभिः॑॥ (इत्यग्निं परितः परिमृज्य। (२) तूष्णीं समन्तं परिषिच्य)

(२) उभयतस्तूष्णीं समन्तं परिषेचनं स्मृत्यन्तरादाचाराच्च इति तात्पर्यदशने॥

अ॒ग्नये॑॑ - स॒मिधं॑॑ - आहा॑र्षं - बृ॒ह॒ते - जा॒तवे॑दसे।
यथा॒ त्वं - अ॒ग्ने॒ - स॒मिधा॑॑ - स॒मि॒ध्यसे॑॑ - ए॒वं मां - आयु॑षा - वर्च॑सा - स॒न्या - मे॒धया॑॑ - प्र॒जया॑॑ - प॒शुभिः॑ - ब्र॒ह्म॒व॒र्च॒सेन॑ - अ॒न्नाद्ये॑न - समे॑धय - स्वाहा॑॑॥१॥

एधो॑ऽसि - ए॒धि॒षि॒महि॑ - स्वाहा॑॑॥२॥

स॒मिद॑सि - स॒मे॒धि॒षी॒महि॑ - स्वाहा॑॑॥३॥

तेजो॑ऽसि - तेजः॑ - मयि॑ धेहि - स्वाहा॑॑॥४॥

अपो॑ अ॒द्य - अन्व॑चारिषं - रसे॑न - सम॑सृक्ष्महि।
पय॑स्वान् - अ॒ग्ने॒ - आग॑मं - तं मा॑॑ - सꣳसृ॑ज - वर्च॑सा - स्वाहा॑॑॥५॥

संमा॑॑ग्ने - वर्च॑सा - सृ॒ज॒ - प्र॒जया॑ च - धने॑न च - स्वाहा॑॑॥६॥

वि॒द्युन्मे॑॑ - अ॒स्य॒ दे॒वाः - इन्द्रो॑ वि॒द्यात् - स॒हर्षि॑भिः - स्वाहा॑॑॥७॥

अ॒ग्नये॑॑ - बृ॒ह॒ते - नाका॑य - स्वाहा॑॑॥८॥

द्यावा॑पृथि॒वीभ्यां॑॑ - स्वाहा॑॑॥९॥

ए॒षा ते॑॑ - अ॒ग्ने॒ - स॒मित् - तया॑॑ - वर्ध॑स्व च - आप्या॑यस्व च।
तया॒ऽहं - वर्ध॑मानः - भू॒या॒सं॒ - आ॒प्याय॑मानश्च - स्वाहा॑॑॥१०॥

यो मा॑॑ऽग्ने - भा॒गिनं॑॑ - स॒न्तं - अथा॑भा॒गं - चिकी॑र्षति।
अभा॒गं - अ॒ग्ने॒ - तं कु॑रु - माम॑ग्ने - भा॒गिनं॑॑ - कु॒रु॒ - स्वाहा॑॑॥११॥

स॒मिधं॑॑ - आ॒धाय॑ - अ॒ग्ने॒ - सर्व॑व्रतः - भू॒या॒सं॒ - स्वाहा॑॑॥१२॥

(इति द्वादशभिः मन्त्रैः द्वादशसमिधः आधाय (१) अग्निं तूष्णीं परिसमूह्य तूष्णीं समन्तं परिषिच्य। ततस्तूष्णीमेकां समिधमाधाय।) अग्नेरुपस्थानं करिष्ये॥ (इति सङ्कल्प्य उत्थाय)

(१) अन्ते तुष्णीं परिसमूहनमिति तात्पर्यदर्शने॥

यत्ते॑॑ अग्ने - तेज॒स्तेन॑ - अ॒हं - ते॒ज॒स्वी - भू॒या॒सं॒ -
यत्ते॑ अग्ने - वर्च॒स्तेन॑ - अ॒हं - व॒र्च॒स्वी - भू॒या॒सं॒ -
यत्ते॑ अग्ने - हर॒स्तेन॑ - अ॒हं - ह॒र॒स्वी - भू॒या॒स॒म्॥

मयि॑ मे॒धां - मयि॑ प्र॒जां - मय्य॒ग्निः - तेजो॑ दधातु -
मयि॑ मे॒धां - मयि॑ प्र॒जां - मयीन्द्रः॑ - इ॒न्द्रि॒यं द॑धातु -
मयि॑ मे॒धां - मयि॑ प्र॒जां - मयि॒ सूर्यः॑ - भ्राजो॑ दधातु॥

अग्नये नमः॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन।
यद्धुतं तु मया देव परिपूर्णं तदस्तु ते॥

प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम्॥
(इत्युपस्थाय)

अभिवादये + अस्मि भोः॥
(नमस्कृत्य। उपविश्य)

मा नः॑ - तो॒के तन॑ये - मा नः॑ - आयु॑षि - मा नः॑ - गोषु॑ - मा नः॑ - अश्वे॑षु - री॒रि॒षः॒ ।
वी॒रान् - मा नः॑ - रु॒द्र॒ - भा॒मि॒तः - व॒धीः॒ - ह॒विष्म॑न्तः - नम॑सा - वि॒धे॒म॒ ते॒॥

(इति भस्मादाय जलेन संसृज्य। अनामिकाङ्गुल्या)
मेधावी भूयासं स्वस्ति (ललाटे)
तेजस्वी भूयासं स्वस्ति (दक्षिणे बाहौ)
वर्चस्वी भूयासं स्वस्ति (सव्ये बाहौ)
ब्रह्मवर्चसी भूयासं स्वस्ति (हृदये)
आयुष्मान् भूयासं स्वस्ति (कण्ठे) (१)
अन्नादो भूयासं स्वस्ति (ककुदि च धृत्वा)

(१) अन्नादो भूयासमिति मन्त्रः बोधायनेन न पठितः॥

श्रद्धां मेधां यशः प्रज्ञां विद्यां बुद्धिं श्रियं बलम्।
आयुष्यं तेज आरोग्यं देहि मे हव्यवाहन॥
देहि मे हव्यवाहनोन्नम इति।

कायेन वाचा मनसेन्द्रियैर्वा बुद्ध्यात्मना वा प्रकृतेः स्वभावात्।
करोमि यद्यत् सकलं परस्मै नारायणायेति समर्पयामि॥
तत्सत्ब्रह्मार्पणमस्तु॥

(इति ब्रह्मार्पणं कृत्वा आचामेत्)॥

इति समिदाधानप्रकारः॥


अनन्तरं केशान् वापयित्वा स्नात्वा कामोकार्षीदादिमन्त्रजपं कुर्यात्॥

कामोकार्षीदादिमन्त्रजपप्रकारः

पवित्रपाणिः दर्भेष्वासीनो दर्भान्धारयमाणः

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं शुभे दिने शोभने मुहूर्ते आद्यब्रह्मणः द्वितीयपरार्धे श्वेतवराहकल्पे वैवस्वतमन्वन्तरे कलियुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शालिवाहनशकाब्दे अस्मिन् वर्तमाने व्यावहारिके प्रभवादीनां षष्ट्याः संवत्सरानां मध्ये … संवत्सरे दक्षिणायने … ऋतौ … मासे शुक्लपक्षे पौर्णमास्यां शुभतिथौ … वासरयुक्तायां … नक्षत्रयुक्तायां शुभयोग शुभकरण एवंगुणविशिष्टायां अस्यां पौर्णमास्यां शुभतिथौ तैष्यां पौर्णमास्यां अध्यायोत्सर्जनाकरणप्रायश्चित्तार्थं अष्टोत्तरशतसङ्ख्यया कामोकार्षीन्मन्युरकार्षीदिति महामन्त्रजपं करिष्ये॥ (इति सङ्कल्प्य। दर्भान्निरस्य। अप उपस्पृश्य)

“कामोकार्षीन्मन्युरकाषीत्”
(इति अष्टोत्तरशतसङ्ख्यया, शक्तौ अष्टोत्तरसहस्रसङ्ख्यया वा जपं कृत्वा पवित्रं विसृज्य आचामेत्॥ अयं जपः गृहस्थानामप्यावश्यकः॥)

अथ मध्याह्ने आचार्यः शिष्यैः सह नदीं गत्वा माध्याह्निकं ब्रह्मयज्ञं देवर्षितर्पणं च कुर्यात्॥

ब्रह्मयज्ञप्रर्कारः

प्रातर्होमादनन्तरं वा, मध्याह्ने माध्याह्निकसावित्रीजपानन्तरं देवर्षिपितृतर्पणात् पूर्वं वा ब्रह्मयज्ञः कर्तव्यः॥

शुक्लाम्बरधरं + शान्तये॥
ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं ब्रह्मयज्ञेन यक्ष्ये। (इति सङ्कल्प्य)

विद्यु॑दसि - विद्य॑मे - पा॒प्मानं॑॑ - ऋ॒तात् - स॒त्यमुपै॑मि॥

(अप उपस्पृश्य) (१) हस्तौ पादौ च आमणिबन्धनात् प्रक्षाल्य। त्रिरपः पीत्वा। द्विः परिमृज्य। सकृदुपस्पृश्य। सव्यं पाणिं पादौ च प्रोक्ष्य। शिरः चक्षुषी, नासिके, श्रोत्रे, हृदयं च प्रत्येकं सजलं स्पृष्ट्वा। दक्षिणोत्तरौ पाणिपादौ च प्रोक्ष्य)

(१) कर्माङ्गं क्षालनान्तरं हस्तपादस्य इति स्मृतिमुक्ताफले।

ॐ (२) ॐ भूः। तत्स॑वि॒तुर्वरे॑॑ण्यम्।
ॐ भुवः॑। भर्गो॑ दे॒वस्य॑ धीमहि।
ओꣳ सुवः॑। धियो॒ यो नः॑ प्रचो॒दया॑॑त्।
ॐ भूः। तत्स॑वि॒तुर्वरे॑॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि।
ॐ भुवः॑। धियो॒ यो नः॑ प्रचो॒दया॑॑त्।
ओꣳ सुवः॑। तत्स॑वि॒तुर्वरे॑॑ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि॒ धियो॒ यो नः॑ प्रचो॒दया॑॑त्॥

(२) अत्र केचित् व्याहृतीर्विहृताः पादादिष्वन्तेषु वा तथाऽर्धचर्योरुत्तमां कृत्स्नायामिति ब्रह्मोपदेशक्रमेण कुर्वन्ति इति स्मृतिमुक्ताफले॥

(३) सव्यस्य पाणेरङ्गुष्ठप्रदेशिन्योस्तु मध्यतः।
दक्षिणस्याङ्गुलीर्न्यस्य चतस्रोऽङ्गुष्ठवर्जिताः॥
तथा सव्यकराङ्गुष्ठं दक्षिणाङ्गुष्ठवेष्टितम्।
निधाय चैवं सम्बद्धौ पाणी दक्षिणसक्थनि॥
प्रणवं व्याहृतीश्चैव गायत्रीं च जपेत् क्रमात्।
पच्छोऽर्धचश उच्छ्वासाद्वेदादींश्चतुरो जपेत्॥
नित्यं प्रश्नमधीयीत यथाशक्त्यथवा पठेत्॥
इति स्मृतिरत्नावल्याम्॥

(३) अ॒ग्निमी॑॑ळे - पु॒रोहि॑तं - य॒ज्ञस्य॑ - दे॒वं - ऋ॒त्विज॑॑म्।
होता॑॑रं - र॒त्न॒धात॑मम्॥

इ॒षे त्वा॑॑ - ऊ॒र्जे त्वा॑॑ - वा॒यवः॑ - स्थ॒ - उ॒पा॒यवः॑ - स्थ॒ - दे॒वो वः॑ - स॒वि॒ता - प्रार्प॑यतु - श्रेष्ठ॑तमाय - कर्म॑णे॥

अग्ने॑॑ - आया॑हि - वी॒तये॑॑ - गृ॒णा॒नः - ह॒व्यदा॑तये।
निहोता॑॑ - स॒त्सि॒ - ब॒र्हिषि॑॥

शंनो॑ दे॒वीः - अ॒भिष्ट॑ये - आपः॑ - भ॒व॒न्तु॒ - पी॒तये॑॑।
शं योः - अ॒भिस्र॑वन्तु नः॥

((४) इति वेदादीन् जपित्वा यथाशक्ति (५) वेदमधीयीत। अनन्तरम्)

(४) अत्र केचित् ‘अथातो दर्शपूर्णमासौ व्याख्यास्यामः प्रातरग्निहोत्रं हुत्वाऽन्यमाहवनीयं प्रणीयाग्नीनन्वादधाति न गतश्रियोऽन्यमग्निं प्रणयति’ इति कल्पसूत्रमपि पठन्ति॥

(५) अनधीतवेदस्तु वेदस्थाने गायत्रीं जपेत्॥

(६) नमो॒ ब्रह्म॑णे - नमो॑ अस्तु - अ॒ग्नये॑॑ - नमः॑ पृथि॒व्यै - नमः॑ - ओष॑धीभ्यः।
नमो॑ वा॒चे - नमः॑ - वा॒चस्पत॑ये - नमो॒ विष्ण॑वे - बृ॒ह॒ते - क॒रो॒मि॒॥
(इति त्रिर्जपित्वा)

(६) प्रश्नाध्ययनासामर्थ्ये यथाशक्त्यध्ययनपक्षे ‘भूर्भुवःसुवः सत्यं तपः श्रद्धायां जुहोमि’ इत्युक्त्वा परिधानीयां त्रिर्जपेदिति स्मृतिरत्नाकरे॥

ॐ तत्सत्। (इत्युक्त्वा)

वृष्टि॑रसि - वृश्च॑मे - पा॒प्मानं॑॑ - ऋ॒तात् - स॒त्यमुपा॑गाम्॥

(इति अप उपस्पृश्य आचामेत्)॥


देवर्षिपितृतर्पणप्रकारः

तर्पणमिदं मध्याह्ने ब्रह्मयज्ञानन्तरं कार्यम्। ब्रह्मयज्ञे प्रातः कृते माध्याह्निकसावित्रीजपानन्तरं कार्यम्॥

शुक्लाम्बरधरं + शान्तये॥

ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं देवर्षिपितृतर्पणं करिष्ये॥

(इति सङ्कल्प्य। अप उपस्पृश्य। उपवीती। देवतीर्थेन देवान् सकृत्सकृत् तर्पयेत्।)

ब्रह्मादयो ये देवाः तान् देवांस्तर्पयामि।
सर्वान् देवांस्तर्पयामि।
सर्वदेवगणांस्तर्पयामि।
सर्वदेवपत्नीस्तर्पयामि।
सर्वदेवगणपत्नीस्तर्पयामि।

(अथ निवीती। यज्ञोपवीतमङ्गुष्ठयोः सक्तं कृत्वा ऋषितीर्थेन द्विर्द्विस्तर्पयेत्)

कृष्णद्वैपायनादयः ये ऋषयः तानृषींस्तर्पयामि।
सर्वानृषींस्तर्पयामि।
सर्वऋषिगणांस्तर्पयामि।
सर्वऋषिपत्नीस्तर्पयामि।
सर्वऋषिगणपत्नीस्तर्पयामि।

(२) प्रजापतिं काण्डऋषिं तर्पयामि।
सोमं काण्डऋषिं तर्पयामि।
अग्निं काण्डऋषिं तर्पयामि।
विश्वान् देवान् काण्डऋषींस्तर्पयामि।
सांहितीर्देवताः उपनिषदस्तर्पयामि।
याज्ञिकीर्देवताः उपनिषदस्तर्पयामि।
वारुणीर्देवताः उपनिषदस्तर्पयामि।
हव्यवाहं तर्पयामि।
विश्वान् देवान् काण्डऋषींस्तर्पयामि।
ब्रह्माणं स्वयम्भुवं तर्पयामि।
विश्वान् देवान् काण्डऋषींस्तर्पयामि।
अरुणान् काण्डऋषींस्तर्पयामि।
सदसस्पतिं तर्पयामि।

(२) अत्र कपर्दी – प्रजापतिं सोममथाग्निविश्वान्निषत्त्रयं चापि च हव्यवाहम्। विश्वान् स्वयंभुं पुनरेव विश्वान् ततोऽरुणान्वै सदसस्पतिं च इति॥

ऋग्वेदं तर्पयामि।
यजुर्वेदं तर्पयामि।
सामवेदं तर्पयामि।
अथर्ववेदं तर्पयामि।
इतिहासपुराणं तर्पयामि।
कल्पं तर्पयामि।

(अथ प्राचीनावीती। पितृतीर्थेन पितॄन् त्रिस्त्रिस्तर्पयेत्)

सोमः पितृमान् यमोऽङ्गिरस्वान् अग्निः कव्यवाहनः इत्यादयः ये पितरः तान् पितॄंस्तर्पयामि।

सर्वान् पितॄंस्तर्पयामि।
सर्वपितृगणांस्तर्पयामि।
सर्वपितृपत्नीस्तर्पयामि।
सर्वपितृगणपत्नीस्तर्पयामि।

(३) पितॄन् दिव्यानदिव्यांश्च पितृतीर्थेन तर्पयेदिति पैठीनसिवचनं शिष्टाचारश्चात्र प्रमाणम्॥ जीवपितृकस्य अदिव्यपितृतर्पणमेव निवर्तते॥

(३) पितॄंस्तर्पयामि।
पितामहांस्तर्पयामि।
प्रपितामहांस्तर्पयामि।
मातॄस्तर्पयामि।
पितामहीस्तर्पयामि।
प्रपितामहीस्तर्पयामि।
मातामहांस्तर्पयामि।
मातुः पितामहांस्तर्पयामि।
मातुः प्रपितामहांस्तर्पयामि।
मातामहीस्तर्पयामि।
मातुः पितामहीस्तर्पयामि।
मातुः प्रपितामहीस्त्पर्यामि।

ऊर्जं वहनीरमृतं घृतं पयः कीलालं परिस्रुतꣴ स्वधा स्थ तर्पयत मे पितॄन्। तृप्यत तृप्यत तृप्यत॥

(४) आब्रह्मस्तम्बपर्यन्तं जगत् तृप्यतु॥ ॐ तत्सत्

(उपवीती आचामेत्)

(४) विस्तरेण कर्तुमसामर्थ्ये
“आब्रह्मस्तम्बपर्यन्तं जगत् तृप्यत्विति ब्रुवन्।
क्षिपेत् पयोञ्जलिंस्त्रींस्तु कुर्यात् संक्षेपतर्पणम्” इति माधवीये॥


महासङ्कल्पप्रकारः

शुक्लाम्बरधरं + शान्तये॥

ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं,

तदेव लग्नं सुदिनं तदेव ताराबलं चन्द्रबलं तदेव।
विद्याबलं दैवबलं तदेव लक्ष्मीपतेरङ्घ्रियुगं स्मरामि॥

अपवित्रः पवित्रो वा सर्वावस्थांगतोऽपि वा।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः॥

मानसं वाचिकं पापं कर्मणा समुपार्जितम्।
श्रीरामस्मरणेनैव व्यपोहति न संशयः॥

श्रीराम राम राम।
तिथिर्विष्णुः तथा वारः नक्षत्रं विष्णुरेव च।
योगश्च करणं चैव सर्वं विष्णुमयं जगत्॥

श्रीगोविन्द गोविन्द गोविन्द।
अद्य श्रीभगवतः आदिविष्णोः आदिनारायणस्य अचिन्त्यया अपरिमितया शक्त्या भ्रियमाणस्य महाजलौघस्य मध्ये परिभ्रमतां अनेककोटिब्रह्माण्डानां एकतमे पृथिव्यप्तेजो वाय्वाकाश अहङ्कार महदव्यक्तात्मकैः आवरणैः आवृते अस्मिन् महति ब्रह्माण्ड करण्ड मण्डले, आधारशक्ति कूर्मवराह अनन्तोपरि प्रतिष्ठितानां अतल वितल सुतल तलातल रसातल महातल पातालाख्यानां सप्तलोकानां ऊर्ध्वभागे, भुवर्लोक सुवर्लोक महोलोक जनोलोक तपोलोक सत्यलोकाख्य लोकषट्कस्य अधोभागे, महानाळायमान फणिराजशेषस्य सहस्रफणामणिमण्डलमण्डिते, दिग्दन्ति शुण्डादण्डोत्तम्भिते, लोकालोकाचलेन वलयिते, लवणेक्षु सुरा सर्पिर्दधि क्षीर शुद्धोदकार्णवैः परिवृते, जम्बू प्लक्ष कुशक्रौञ्च शाकशाल्मलि पुष्कराख्य सप्तद्वीपानां मध्ये, जम्बूद्वीपे, भारत किंपुरुष हरीळावृत भद्राश्वकेतुमाल हिरण्यक रमणक कुरुवर्षाख्य नववर्षाणां मध्ये, भारतवर्षे, इन्द्रकशेरु ताम्रगभस्ति पुन्नाग गन्धर्व सौम्य वरुण भरतखण्डानां मध्ये भरतखण्डे, पञ्चाशत्कोटि योजन विस्तीर्ण भूमण्डले, कर्मभूमौ, दण्डकारण्ये, समभूमिरेखायाः दक्षिणदिग्भागे, श्रीशैलस्य आग्नेयदिग्भागे, रामसेतोः उत्तरदिग्भागे, गङ्गा यमुना सरस्वती भीमरथी गौतमी नर्मदा गण्डकी कृष्णवेणी तुङ्गभद्रा चन्द्रभागा मलापहा कावेरी कपिला ताम्रपर्णी वेगवती पिनाकिनी क्षीरनद्याद्यनेक महानदीविराजिते, वाराणसी चिदम्बर श्रीशैल अहोबिल वेङ्कटाचल रामसेतु जम्बुकेश्वर कुम्भघोण हालास्य गोकर्ण अनन्तशयन गया प्रयागादि अनेक पुण्यक्षेत्रपरिवृते … नद्याः … तीरे, सकलजगत् स्रष्टुः परार्धद्वयजीवितः ब्रह्मणः, प्रथमे परार्धे पञ्चाशदब्दात्मके अतीते, द्वितीये परार्धे पञ्चाशदब्दादौ प्रथमे वर्षे प्रथमे मासे प्रथमे पक्षे प्रथमे दिवसे अहनि द्वितीये यामे तृतीये मुहूर्ते, पार्थिव कूर्म प्रलयानन्त श्वेतवराहकल्पे, स्वायम्भुव स्वारोचिष उत्तम तामस रैवत चाक्षुषाख्येषु षट्सु मनुषु अतीतेषु सप्तमे वैवस्वत मन्वन्तरे, अष्टाविंशतितमे कलियुगे, प्रथमे पादे, युधिष्ठिर विक्रम शालिवाहन विजयाभिनन्दन नागार्जुन कलिभूपाख्य शकपुरुष मध्यपरिगणित शालिवाहनशके, बौद्धावतारे, ब्राह्म दैव पित्र्य प्राजापत्य बार्हस्पत्य सौर चान्द्र सावन नक्षत्राख्य नवमानमध्यपरिगणितेन, सौरचान्द्रमानद्वयेन प्रवर्तमाने, प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये … संवत्सरे दक्षिणायने वर्षऋतौ श्रावणमासे शुक्लपक्षे पौर्णमास्यां तिथौ … वासरे … नक्षत्रे शुभयोगे शुभकरणे शुभमुहूर्ते

(१) अत्र कुण्डलितो ग्रन्थः सेतुस्नानादिकालेषु परं वक्तव्यः। उपाकर्मणः ईदृशपापनिवर्तकत्वस्य अनुक्तत्वात्॥

(१) (अनादि अविद्यावासनया प्रवर्तमाने अस्मिन् महति संसारचक्रे विचित्राभिः कर्मगतिभिः विचित्रासु योनिषु पुनः पुनः अनेकधा जनित्वा केनापि पुण्यकर्मविशेषेण इदानीन्तनमानुष्ये द्विजजन्मविशेषं प्राप्तवतः मम जन्मप्रभृति एतत्क्षणपर्यन्तं बाल्ये वयसि कौमारे यौवने वार्धके च जाग्रत् स्वप्न सुषुप्ति अवस्थासु मनोवाक्कायैः कर्मेन्द्रिय ज्ञानेन्द्रिय व्यापारैश्च संभावितानां रहस्यकृतानां प्रकाशकृतानां ब्रह्महनन सुरापान स्वर्णस्तेय गुरुदारगमन तत्संसर्गाख्यानां महापातकानां, महापातक अनुमन्तृत्वादीनां अतिपातकानां, सोमयागस्थ क्षत्रिय वैश्य वधादीनां समपातकानां, गोवधादीनां उपपातकानां मार्जारवधादीनां सङ्कलीकरणानां, कृमिकीट वधादीनां मलिनीकरणानां, निन्दित धनादान उपजीवनादीनां अपात्रीकरणानां, मद्याघ्राणनादीनां प्रकीर्णकानां, ज्ञानतः सकृत्कृतानां, अज्ञानतः असकृत्कृतानां, अत्यन्ताभ्यस्तानां निरन्तराभ्यस्तानां चिरकालाभ्यस्तानां नवानां नवविधानां बहूनां बहुविधानां सर्वेषां पापानां सद्यः अपनोदनार्थं)

… भास्करक्षेत्रे … अम्बिकासमेत … ईश्वरस्वामि सन्निधौ अश्वत्थनारायण स्वामिसन्निधौ देवब्राह्मणसन्निधौ श्रावण्यां पौर्णमास्यां अध्यायोपाकर्म करिष्ये॥ तदङ्गं महानदीस्नानं करिष्ये॥

(इति सङ्कल्प्य दर्भान्निरस्य। अप उपस्पृश्य॥)

अतिक्रूर महाकाय कल्पान्तदहनोपम।
भैरवाय नमस्तुभ्यं अनुज्ञां दातुमर्हसि॥

गङ्गा गङ्गेति यो ब्रूयात् योजनानां शतैरपि।
मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति॥

(सह्यपादोद्भवे देवि श्रीरङ्गात्सङ्गगामिनि।
श्रीकावेरि नमस्तुभ्यं मम पापं व्यपोहय॥)

(इत्यादीन् अन्यांश्च श्लोकान् यथावकाशं पठित्वा, यथाविधि स्नात्वा, शुद्धवस्त्रं परिधाय, पुण्ड्रं धृत्वा यज्ञोपवीतं धारयेयुः॥)


यज्ञोपवीतधारणविधिः

शुक्लाम्बरधरं + शान्तये॥

ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं, श्रावण्यां पौर्णमास्यां अध्यायोपाकर्माङ्गं श्रौतस्मार्त विहित नित्यकर्मानुष्ठान योग्यतासिद्ध्यर्थं ब्रह्मतेजः अभिवृद्ध्यर्थं यज्ञोपवीतधारणं करिष्ये॥ (इति सङ्कल्प्य। अप उपस्पृश्य)

यज्ञोपवीतमित्यस्य मन्त्रस्य, परब्रह्म ऋषिः, त्रिष्टुप् छन्दः, परमात्मा देवता, यज्ञोपवीतधारणे विनियोगः॥

य॒ज्ञो॒प॒वी॒तं - प॒र॒मं - प॒वित्रं॑॑ - प्र॒जाप॑तेः - यत् - स॒ह॒जं - पु॒रस्ता॑॑त्।
आ॒यु॒ष्यं॑ - अग्र्यं॑॑ - प्रति॑मुञ्च - शु॒भ्रं - य॒ज्ञो॒प॒वी॒तं - बल॑मस्तु - तेजः॑॥

(इति मन्त्रेण ब्रह्मचारी एकमुपवीतं, गृहस्थो द्वे त्रीणि वा धृत्वा आचामेत्॥ प्रयुपवीतं मन्त्रोच्चारणं आचमनं च कार्यम्।)

उपवीतं भिन्नतन्तु जीर्णं कश्मलदूषितम्।
विसृजामि जले ब्रह्मवर्चः दीर्घायुरस्तु मे॥

(इति जीर्णमुपवीतं जले विसृज्य आचामेत्॥)

अथ ब्रह्मचारी मेखलां अजिनं दण्डं च समन्त्रं धारयेत्॥

मेखलाधारणमन्त्रः

इ॒यं - दुरु॑क्तात् - प॒रि॒बाध॑माना - शर्म॑ - वरू॑थं - पु॒न॒ती नः॑ - आगा॑॑त्॥ प्रा॒णा॒पा॒नाभ्यां॑॑ - बलं॑॑ - आ॒भर॑न्ती - प्रि॒या - दे॒वानां॑॑ - सु॒भगा॑॑ - मेख॑ला - इ॒यम्॥

ऋ॒तस्य॑ - गो॒प्त्री - तप॑सः - प॒र॒स्पी - घ्न॒ती - रक्षः॑ - सह॑माना - अरा॑तीः।
सा नः॑ - स॒म॒न्तं - अनु॑ - परी॑हि - भ॒द्रया॑॑ - भ॒र्ताः॑॑ - ते॒ - मे॒ख॒ले॒ - मारि॑षाम॥

अजिनधारणमन्त्रः

मि॒त्रस्य॑ - चक्षुः॑ - धरु॑णं - बली॑यः - तेजः॑ - य॒श॒स्वि - स्थवि॑रं - समि॑द्धम्।
अ॒ना॒ह॒न॒स्यं - वस॑नं - ज॒रि॒ष्णु - परी॒दं - वा॒जि - अ॒जिनं॑॑ - देधे॒ऽहम्॥

दण्डधारणमन्त्रः

सु॒श्रवः॑ - सु॒श्रव॑सं - मा॒ कु॒रु॒ - यथा॒ त्वं - सु॒श्रवः॑ - सु॒श्रवाः॑॑ - अ॒सि॒ - ए॒वम॒हं - सु॒श्रवः॑ - सु॒श्रवाः॑॑ - भू॒या॒सं॒ - यथा॒ त्वं - सु॒श्रवः॑ - दे॒वानां॑॑ - नि॒धि॒गो॒पः - अ॒सि॒ - ए॒वम॒हं - ब्रा॒ह्म॒णानां॑॑ - ब्रह्म॑णः - नि॒धि॒गो॒पः - भू॒या॒स॒म्॥


काण्डऋषितर्पणम्

अथ सर्वे नद्यां काण्डऋषितर्पणं कुर्युः॥

शुक्लाम्बरधरं + शान्तये॥

ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं, श्रावण्यां पौर्णमास्यां अध्यायोपाकर्माङ्गं काण्डऋषितर्पणं करिष्ये॥

(इति सङ्कल्प्य। अप उपस्पृश्य। निवीतं कृत्वा। उपवीतमङ्गुष्ठयोः सक्तं कृत्वा। सतिलाक्षताभिरद्भिः
ऋषितीर्थेन त्रिस्त्रिः)

प्रजापतिं काण्डऋषिं तर्पयामि।
सोमं काण्डऋषिं तर्पयामि।
अग्निं काण्डऋषिं तर्पयामि।
विश्वान् देवान् काण्डऋषींस्तर्पयामि।
सांहितीर्देवता उपनिषदस्तर्पयामि।
याज्ञिकीर्देवता उपनिषदस्तर्पयामि।
वारुणीर्देवता उपनिषदस्तर्पयामि।
ब्रह्माणं स्वयम्भुवं तर्पयामि।
सदसस्पतिं तर्पयामि॥

(इति तर्पयित्वा उपवीतिनः आचमनं कुर्युः।)

इति काण्डऋषितर्पणम्॥

होमप्रकारः

(अथ आचार्यः शिष्यैः सह शुद्धे स्थले उपविश्य पवित्रपाणिः होमं कुर्यात्)

अशेषे हे परिषत् भगत्पादमूले मया समर्पितां इमां सौवर्णीं दक्षिणां किञ्चिदपि यथोक्तदक्षिणामिव स्वीकृत्य अध्यायोपाकर्मणि काण्डऋषिहोमं कर्तुं योग्यतासिद्धिमनुगृहाण॥

शुक्लाम्बरधरं + शान्तये॥

ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं,

तदेव लग्नं + स्मरामि॥

विघ्नेश्वरपूजा

करिष्यमाणस्य कर्मणः अविघ्नेन परिसमाप्त्यर्थं आदौ विघ्नेश्वरपूजां करिष्ये॥ (अप उपस्पृश्य)

ग॒णानां॑॑ त्वा - ग॒णप॑तिं - ह॒वा॒म॒हे॒ - क॒विं - क॒वी॒नां - उ॒प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राजं॑॑ - ब्रह्म॑णां - ब्र॒ह्म॒ण॒स्प॒ते॒ - आनः॑ शृ॒ण्वन् - ऊ॒तिभिः॑ - सी॒द॒ साद॑नम्॥

अस्मिन् बिम्बे महागणपतिं ध्यायामि। आवाहयामि॥ महागणपतये नमः आसनं समर्पयामि। पादयोः पाद्यं समर्पयामि। अर्घ्यं समर्पयामि। आचमनीयं समर्प्यामि।

आपो॒ हि ष्ठ म॑यो॒ भुव॒ + ज॒नय॑था च नः। स्नानं समर्पयमि। स्नानानन्तरमाचमनीयं समर्प्यामि। वस्त्रं समर्पयामि। उपवीतं समर्पयामि। गन्धं समर्पयामि।
अक्षतान् समर्पयामि।

पुष्पाणि समर्पयामि। ॐ सुमुखाय नमः। ॐ एकदन्ताय नमः। ॐ कपिलाय नमः। ॐ गजकर्णकाय नमः। ॐ लम्बोदराय नमः। ॐ विकटाय नमः। ॐ विघ्नराजाय नमः। ॐ विनायकाय नमः। ॐ धूमकेतवे नमः। ॐ गणाध्यक्षाय नमः। ॐ फालचन्द्राय नमः। ॐ गजाननाय नमः। ॐ वक्रतुण्डाय नमः। ॐ शूर्पकर्णाय नमः। ॐ हेरम्बाय नमः। ॐ स्कन्दपूर्वजाय नमः। महागणपतये नमः नानाविधपत्रपुष्पाणि समर्पयामि।

धूपं समर्पयामि। दीपं समर्पयामि।

ॐ भूर्भुवःसुवः। तत्सवितु + प्रचोदयात्। देव सवितः प्रसुव। सत्यं त्वर्तेन परिषिञ्चामि। अमृतोपस्तरणमसि। प्राणाय स्वाहा। + ब्रह्मणे स्वाहा। महागणपतये नमः नालिकेरं कदलीफलं च निवेदयामि। निवेदनानन्तरमाचमनीयं समर्पयामि।

पूगीफलसमायुक्तं नागवल्लिदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
महागणपतये नमः कर्पूरताम्बूलं समर्पयामि।

मन्त्रपुष्पं समर्पयामि। सुवर्णपुष्पं समर्पयामि। समस्तोपचारान् समर्पयामि।

अनया पूजया महागणपतिः प्रीयताम्।

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥

अग्निमुखम्

(दर्भेष्वासीनो दर्भान् धारयमाणः)

शुक्लाम्बरधरं + शान्तये॥

ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं शुभे दिने + पौर्णमास्यां शुभतिथौ सर्वेषां महाजनानां मम च अध्यायोपाकर्माङ्गं काण्डऋषिहोमं करिष्ये॥

(इति सङ्कल्प्य। दर्घान्निरस्य। अप उपस्पृश्य। विघेश्वरमुद्वास्य। स्थण्डिलं कल्पयित्वा। तस्मिन् ‘प्राचीः पूर्वमुदक्संस्थं दक्षिणारम्भमालिखेत्। अथोदीचीः पुरस्संस्थं पश्चिमारम्भमालिखेत्॥’ इति क्रमेण उल्लिख्य। अवाक्करोऽभ्युक्ष्य। शकलं नैरृत्यां निरस्य। अप उपस्पृश्य। भूर्भुवःसुवरोमित्यग्निं प्रतिष्ठाप्य। अवोक्षणतोयशेषं प्रागुत्सिच्य प्राक्तोयं निधाय। अग्निमिध्वा। प्रागग्रैरुदगग्रैश्च दर्भैरग्निं परिस्तीर्य। दक्षिणानुत्तरानुत्तरानधरान् कृत्वा। उत्तरेणाग्निं दर्भान् संस्तीर्य। तेषु द्वन्द्वं न्यञ्चि पात्राणि सादयति। दर्वीमाज्यस्थालिं प्रोक्षणीं प्रणीतामितरदर्वीमिध्ममिति। समौ साग्रौ दर्भौ प्रादेशमात्रे पवित्रे कृत्वा। अप उपस्पृस्य। अद्भिरनुमृज्य। सपवित्रेण पाणिना पात्राणि संस्पृश्य। अग्नेः पश्चाद्दर्भान् उदगग्रान् संस्तीर्य तेषु प्रोक्षणीपात्रमादाय निधाय। पवित्रान्तर्हिते तस्मिन् अक्षतैः सह अप आसिच्य। उदगग्राभ्यां पवित्राभ्यां प्राचीस्त्रिरुत्पूय। उत्तानानि पात्राणि कृत्वा। इध्मं च विस्रस्य। सपवित्रेण पाणिना पात्राणि त्रिः प्रोक्ष्य। प्रोक्षणीपात्रमन्यत्र निधाय। प्रणीतापात्रमादाय। पश्चान्निधाय। पूर्ववत् अप आसिच्य पवित्राभ्यां प्राचीस्त्रिरुत्पूय। समं प्राणैर्हृत्वा। उत्तरेणाग्निं दर्भेषु सादयित्वा। दर्भैः प्रच्छाद्य) वरुणाय नमः सकलाराधनैः स्वर्चितम्। (इत्यभ्यर्च्य। ब्राह्मणं दक्षिणतो दर्भेषे निषाद्य) अस्मिन् उपाकर्महोमकर्मणि ब्रह्माणं त्वां वृणे। ब्रह्मणे नमः सकलाराधनैः स्वर्चितम्। (इति वृत्वाऽभ्यर्च्य। अग्नेरुत्तरतः स्थण्डिले कूर्चाद्यलङ्कृतं कुम्भं निधाय)

कुम्भकार्यम्

इमं मे वरुण + रोचके॥
तत्त्वायामि + प्रमोषीः॥

अस्मिन् कुम्भे वरुणमावाहयामि। अस्यां कुम्भोपरि प्रतिमायां वेदव्यासं काण्डऋषींश्च आवाहयामि। आवाहिताभ्यः सर्वाभ्यो देवताभ्यो नमः। आसनं समर्पयामि। (इत्यादिभिः षोडशोपचारान् कुर्यात्)

आज्यं विलाप्य। अपरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्य। उदीचोऽङ्गारान्निहूह्य। तेष्वाज्यमधिश्रित्य। ज्वलता तृणोनावद्योत्य। द्वि दर्घाग्रे प्रच्छिद्य प्रक्षाल्य युगपत् प्रत्यस्य। त्रिः पर्यग्नि कृत्वा। उदगुद्वास्य। अङ्गारान् प्रत्यूह्य। उदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय। पवित्रे अनुप्रहृत्य। स्रुक्स्रुवौ अग्नौ प्रतितप्य। दर्भैः संमृज्य। पुनः प्रतितप्य। प्रोक्ष्य निधाय। दर्भानद्भिः संस्पर्श्य अग्नौ प्रहरति।

परिधीन् परिदधाति। स्थविष्ठः पश्चादुदगग्रः। कणिष्ठो दीर्घः प्रागग्रो दक्षिणतः। ह्रसिष्ठः कृशः प्रागग्र उत्तरतः। परिधीनन्योन्यसंस्पृष्टान् कृत्वा। मध्यमं परिधिं हस्तेनोपस्पृश्य। आघारसमिधौ ऊर्ध्वे दक्षिणत उत्तरतश्चाग्नौ आदधाति। अग्निं परिषिञ्चति)

अदितेऽनुमन्यस्व। (दक्षिणतः प्राचीनम्) अनुमतेऽनुमन्यस्व। (पश्चादुदीचीनम्) सरस्वतेऽनुमन्यस्व। (उत्तरतः प्राचीनम्) देवसवितः प्रसुव। (समन्तम्)

(इध्ममाज्येनाभ्यज्य) अस्मिन् उपाकर्महोमकर्मणि ब्रह्मन्निध्ममाधास्ये। इध्ममग्नावाधाय। उत्तरं परिधिसन्धिमारभ्य आग्नेयान्तं उत्तरदर्व्या आज्येन जुहोति)। स्वाहा। प्रजापतय इदं न मम। (दक्षिणं परिधिसन्धिमारभ्य ऐशानान्तं प्रधानदर्व्या जुहोति) स्वाहा। इन्द्रायेदं न मम। अग्नये स्वाहा। (उत्तरार्धपूर्वार्धे) अग्नय इदम् न मम। सोमाय स्वाहा। (दक्षिणार्धपूर्वार्धे) सोमायेदं न मम। अग्नये स्वाहा। (मध्ये) अग्नय इदं न मम। आरम्भप्रभृति एतत्क्षणपर्यन्तं मध्ये सम्भावित समस्तदोषप्रायश्चित्तार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि। ॐ भूर्भुवःसुवः स्वाहा। प्रजापतय इदं न मम॥ (इति मुखान्तं कृत्वा अन्वारब्धेषु शिष्येषु जुहोति)

प्रधानहोमः

प्रजापतय काण्डऋषये स्वाहा। प्रजापतये काण्डऋषय इदं न मम।
सोमाय काण्डऋषये स्वाहा। सोमाय काण्डऋषय इदं न मम।
अग्नये काण्डऋषये स्वाहा। अग्नये काण्डऋषय इदं न मम।
विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः स्वाहा। विश्वेभ्यो देवेभ्यः काण्डऋषिभ्यः इदं न मम।
सांहितीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा। सांहितीभ्यो देवताभ्य उपनिषद्भ्य इदं न मम।
याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा। याज्ञिकीभ्यो देवताभ्य उपनिषद्भ्य इदं न मम।
वारुणीभ्यो देवताभ्य उपनिषद्भ्यः स्वाहा। वारुणीभ्यो देवताभ्य उपनिषद्भ्य इदं न मम।
ब्रह्मणे स्वयम्भुवे स्वाहा। ब्रह्मणे स्वयम्भुव इदं न मम।

सद॑सः - पतिं॑॑ - अद्भु॑तं - प्रि॒यं - इन्द्र॑स्य - काम्य॑॑म्।
सनिं॑॑ - मे॒धां - अ॒या॒सि॒षं॒ - स्वाहा॑॑॥
सदसस्पतय इदं न मम॥ (इति हुत्वा वेदारम्भं कुर्यात्)॥

वेदारम्भः

(प्रथमोपाकृतिकृच्चेत् ब्रह्मचारी) अशेषे + स्वीकृत्य … नक्षत्रे … राशौ … जातस्य … शर्मणः मम वेदारम्भं कर्तुं योग्यतासिद्धिमनुगृहाण। (इति ब्राह्मणाननुज्ञाप्य। विघ्नेश्वरं संपूज्य)

… नक्षत्रे … राशौ जातः … शर्मा अहं वेदारम्भं करिष्ये॥ (इति सङ्कल्प्य। विघ्नेश्वरमुद्वास्य। ग्रहप्रीतिं कृत्वा आरभेत्।)

(आचार्यः शिष्याश्च सङ्कल्प्य वेदारम्भं कुर्युः।)

शुक्लाम्बरधरं + शान्तये॥

ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं, श्रावण्यां पौर्णमास्यां अध्यायोपाकर्मणि वेदारम्भं करिष्ये॥ (इति सङ्कल्प्य। अप उपस्पृश्य)

श्रीगुरुभ्यो नमः॥ हरिः ॐ(३)॥

इ॒षे - त्वा॒ - ऊ॒र्जे - त्वा॒ - वा॒यवः॑ - स्थ॒ - उ॒पा॒यवः॑ - स्थ॒ - दे॒वो वः॑ - स॒वि॒ता - प्रार्प॑यतु - श्रेष्ठ॑मताय - कर्म॑णे - आप्या॑यध्वं - अ॒घ्नि॒याः॒ - दे॒व॒भा॒गं - ऊर्ज॑स्वतीः - पय॑स्वतीः - प्र॒जाव॑तीः - अ॒न॒मी॒वाः - अ॒य॒क्ष्माः मावः॑ - स्ते॒नः - ई॒श॒त॒ - माघशꣳ॑सः - रु॒द्रस्य॑ - हे॒तिः - परि॑ वः - वृ॒ण॒क्तु॒ - ध्रु॒वाः - अ॒स्मिन् - गोप॑तौ - स्या॒त॒ - ब॒ह्वीः - यज॑मानस्य - प॒शून् - पा॒हि॒॥ इ॒षे त्रिच॑त्वारिꣳशत्॥

य॒ज्ञस्य॑ - घो॒षद॑सि - प्रत्यु॑ष्टं - रक्षः॑ - प्रत्यु॑ष्टाः - अरा॑तयः - प्रेयम॑गात् - धि॒षणा॑॑ - ब॒र्हिः - अच्छ॑ - मनु॑ना - कृ॒ता - स्वधया॑॑ - वित॑ष्टा - त आव॑हन्ति - क॒वयः॑ - पु॒रस्ता॑॑त् - दे॒वेभ्यः॑ - जुष्टं॑॑ - इ॒ह ॒ ब॒र्हिः - आ॒सदे - दे॒वानां॑॑ - प॒रि॒षू॒तं - अ॒सि॒ - व॒र्षवृ॑द्धं॑ - अ॒सि॒ - देव॑बर्हिः - मा त्वा॑॑ - अ॒न्वक् - माति॒र्यक् पर्व॑ते - रा॒ध्या॒सं॒ - आ॒च्छे॒त्ता ते॑॑ - मारि॑षं - देव॑बर्हिः - श॒तव॑ल्शम् - विरो॑ह - स॒हस्र॑वल्शाः - विव॒यं - रु॒हे॒म॒ - पृ॒थि॒व्याः - सं॒पृचः॑ पा॒हि॒ - सु॒सं॒भृता॑॑ त्वा - संभ॑रामि - अदि॑त्यै - रास्ना॑सि - इ॒न्द्रा॒ण्यै - स॒न्नह॑नं - पू॒षाते॑॑ - ग्र॒न्थिं - ग्र॒थ्ना॒तु - स ते॑॑ - मा सा॑॑त् - इन्द्र॑स्य त्वा - बा॒हुभ्यां॑॑ - उद्य॑च्छे - बृह॒स्पतेः॑॑ - मू॒र्ध्ना - ह॒रा॒मि॒ - उ॒र्व॑न्तरि॑क्षं - अन्वि॑हि - दे॒व॒ङ्ग॒मम् - अ॒सि॒॥ स॒हस्र॑वल्शा अ॒ष्टात्रिशच्च॥

शुन्ध॑ध्वं - दैव्या॑य - कर्म॑णे - दे॒व॒य॒ज्यायै॑॑ - मा॒त॒रिश्व॑नः - घ॒र्मो॑ऽसि - दौर॑सि - पृ॒थि॒व्य॑सि - वि॒श्वधा॑या असि - प॒र॒मेण॑ - धाम्ना॑॑ - दृ॒ꣳह॑स्व - माह्वाः॑॑ - वसू॑नां - प॒वित्र॑मसि - श॒तधा॑रं - वसू॑नां - प॒वित्र॑मसि - स॒हस्र॑धारं - हु॒तस्स्तो॒कः - हु॒तो द्र॒फ्सः - अ॒ग्नये॑ - बृ॒ह॒ते - नाका॑य॒ स्वाहा॑॑ - द्यावा॑पृथि॒वीभ्यां॑॑ - सा॒ - वि॒श्वायुः॑ - सा वि॒श्वव्य॑चाः - सा - वि॒श्वक॑र्मा - संपृ॑च्यध्वं - ऋ॒ता॒व॒रीः॒ - ऊ॒र्मिणीः॑॑ - मधु॑मत्तमाः - इ॒न्द्रा धन॑स्य - सा॒तये॑॑ - सोमे॑न - त्वा॒ - आत॑नच्मि - इन्द्रा॑य - दधि॑ - विष्णो॑॑ - ह॒व्यं - र॒क्ष॒स्व॒॥ सोमे॑ना॒ष्टौ च॑॥

कर्म॑णे - वां॒ - दे॒वेभ्यः॑ - श॒के॒यं॒ - वे॒षा॑य त्वा - प्रत्यु॑ष्टं - रक्षः॑ - प्रत्यु॑ष्टाः - अरा॑तयः - धूर॑सि - धूर्व॑ - धूर्व॑न्तं - धूर्व॒तं - यो॑॑ऽस्मान् - धूर्व॑ति - तं धू॑॑र्व - यं - व॒यं - धूर्वा॑मः - त्वं दे॒वानां॑॑ - अ॒सि॒ - अस्नि॑तमं - पप्रि॑तमं - जुष्ट॑तमं - वह्नि॑तमं - दे॒व॒हूत॑मं - अह्रु॑तमसि - ह॒वि॒र्धानं॑॑ - दृꣳह॑स्व - माह्वाः॑॑ - मि॒त्रस्य॑ त्वा - चक्षु॑षा - प्रेक्षे॑॑ - माभेः - मा - संवि॑क्थाः - मात्वा॑ - हा॒सि॒षं॒ - उ॒रु - वाता॑य - दे॒वस्य॑ त्वा - स॒वि॒तुः - प्र॑स॒वे - अ॒श्विनोः॑॑ - बा॒हुभ्यां॑॑ - पू॒ष्णः - हस्ता॑॑भ्यां - अ॒ग्नये॑॑ - जुष्टं॑॑ - निर्व॑पामि - अ॒ग्नीषोमा॑॑भ्यां - इ॒दं - दे॒वानां॑॑ - इ॒दमु॑नः - स॒ह - स्फा॒त्यै त्वा॑॑ - नारा॑॑त्यै - सुव॑र॒भि - विख्ये॑षं - वै॒श्वा॒न॒रं - ज्योतिः॑ - दृꣳह॑न्तां - दुर्याः॑॑ - द्यावा॑पृथि॒व्योः - उर्व॑न्तरि॑क्षं - अन्वि॑हि - अदि॑त्यास्त्वा - उ॒पस्थे॑ सादयामि - अग्ने॑॑ - ह॒व्यं - र॒क्ष॒स्व॥ मा त्वा॒ षट्च॑त्वारिꣳशच्च॥ ॐ॥

अत्र कपर्दी – “आद्यानुवाकांश्चतुरोऽवरार्धानधीयते तत्र ततो जयादि” इति॥ गृह्यरत्नकारश्च “चतुरोऽनुवाकानिति नियमात् अनुवाकान्तरवेदान्तरसूत्रान्तरव्यवच्छेदः” इत्युक्त्वा “अनुवाकचतुष्टयातिरिक्ताध्ययनं चिन्त्यं” इत्याह। शिष्टाः परमतिरिक्तान्यधीयते। यथोचितमिह ग्राह्यम्॥

ॐ॥ ब्रह्म॒ सन्ध॑त्तं - तन्मे॑ जिन्वतम्। क्ष॒त्रꣳ सन्ध॑त्तं - तन्मे॑ जिन्वतम्। इष॒ सन्ध॑त्तं - तां मे॑ जिन्वतम्। ऊर्ज॒ सन्ध॑त्तं - तां मे॑ जिन्वतम्। र॒यिꣳ सन्ध॑त्तं - तां मे॑ जिन्वतम्। पुष्टि॒ सन्ध॑त्तं - तां मे॑ जिन्वतम्। प्र॒जाꣳ सन्ध॑त्तं - तां मे॑ जिन्वतम्। प॒शून् सन्ध॑त्तं - तान्मे॑ जिन्वतम्॥ ॐ॥

ॐ॥ भ॒द्रं - कर्णे॑भिः - शृ॒णु॒याम॑ देवाः। भ॒द्रं प॑श्येम - अ॒क्षिभिः॑ - यज॑त्राः। स्थि॒रैरङ्गैः॑॑ - तु॒ष्टु॒वाꣳसः॑ - त॒नूभिः॑। व्यशे॑म - दे॒वहि॑तं - यदायुः॑। स्व॒स्ति न॒ इन्द्रः॑ - वृ॒द्धश्र॑वाः। स्व॒स्ति नः॑ पू॒षा - वि॒श्ववे॑दाः। स्व॒स्ति नः॑ तार्क्ष्यः॑ - अरि॑ष्टनेमिः। स्व॒स्ति नः॑ - बृह॒स्पति॑दधातु॥ ॐ॥

ॐ॥ सं॒ज्ञानं॑॑ - वि॒ज्ञानं॑॑ - प्र॒ज्ञानं॑॑ - जा॒नत् - अ॒भि॒जा॒नत्। स॒ङ्कल्प॑मानं - प्र॒कल्प॑मानं - उ॒प॒कल्प॑मानं - उप॑कॢप्तं - कॢ॒प्तम्। श्रेयः॑ - वसी॑यः - आ॒यत् - संभू॑तं - भू॒तम्। चि॒त्रः - के॒तुः - प्र॒भाना॒भान् - सं॒भान्। ज्योति॑ष्मान् - तेज॑स्वान् - आ॒तप॑न् - तप॑न् - अ॒भि॒तप॑न्। रो॒च॒नः - रोच॑मानः। शो॒भ॒नः - शोभ॑मानः - क॒ल्याणः॑। दर्शा॑दृ॒ष्टा - द॒र्श॒ता - वि॒श्वरू॑पा - सु॒द॒र्श॒ना। आ॒प्याय॑माना - प्याय॑माना - आ॒प्याया॑॑ - सू॒नृतेरा॑॑। आ॒पूर्य॑माणा - पूर्य॑माणा - पू॒रय॑न्ती - पू॒र्णा - पौ॒र्णमा॒सी॥ ॐ॥

ॐ॥ प्र॒सु॒ग्मन्ता॑॑ - धि॒यसा॒नस्य॑ - स॒क्षणि॑ - व॒रेभिः॑ - व॒रान् - अ॒भि - सु॒प्रसी॑दत। अ॒स्माकं॑॑ - इन्द्रः॑ - उ॒भयं॑॑ - जु॒जो॒ष॒ति॒ - यत् - सौ॒म्यस्य॑ - अन्ध॑सः - बुबो॑धति॥ अ॒नृ॒क्ष॒राः - ऋ॒तवः॑ - स॒न्तु॒ - पन्थाः॑॑ - येभिः॑ - सखा॑यः - यन्ति॑नः - व॒रे॒यम्। सम॑र्य॒मा - सं॒भगो॑ नः - नि॒नी॒या॒त् - सञ्जा॑॑स्प॒त्यं - सु॒यम॑मस्तु - दे॒वाः॥ ॐ॥

ॐ॥ अथातः - दर्शपूर्णमासौ - व्याख्यास्यामः - प्रातरग्निहोत्रं - हुत्वा - अन्यमाहवनीयं प्रणीय - अग्नीनन्वादधाति - नगतश्रियोऽन्यमग्निं - प्रणयति॥ ॐ॥

ॐ॥ अथ कर्माणि - आचारात् - यानि गृह्यन्ते॥ ॐ॥

ॐ॥ अथातः - सामयाचारिकान् धर्मान् व्याख्यास्यामः॥ ॐ॥

ॐ॥ अथ शिक्षां प्रवक्ष्यामि - पाणिनीयं मतं यथा॥ ॐ॥

ॐ॥ पञ्चसंवत्सरमयं युगाध्यक्षं प्रजापतिम्॥ ॐ॥

ॐ॥ मयरस तजभन लघुसंमितं भ्रमति वाङ्मयं जगति यस्य॥ ॐ॥

ॐ॥ गौः। ग्मा। ज्मा। क्ष्मा। क्षा। क्षमा। क्षोणी। क्षितिः। अवनिः। ॐ॥

ॐ॥ अइउण्। ऋऌक्। एओङ्। ऐऔच्। हयवरट्। लण्। ञमङणनम्। झभञ्। घढढष्। जबगधदश्। खफछठथचटतव्। कपय्। शषसर्। हल्। इति माहेश्वराणि सूत्राणि॥ वृद्धिरादैच्। अदेङ्गुणः॥ ॐ॥

ॐ॥ अथातश्छन्दसां विवृतिं व्याख्यास्यामः॥ ॐ॥

ॐ॥ गीर्नश्रेयः। धेनवश्रीः। रुद्रस्तु नम्यः। भगो हि याज्या। धन्येयं नारी। धनवान् पुत्रः॥ ॐ॥

ॐ॥ अथ वर्णसमाम्नायः॥ ॐ॥

ॐ॥ अथातो धर्मजिज्ञासा॥ ॐ॥

ॐ॥ अथातो ब्रह्मजिज्ञासा॥ ॐ॥

ॐ॥ अ॒ग्निमी॑॑ळे - पु॒रोहि॑तं - य॒ज्ञस्य॑ दे॒वमृ॒त्विज॑॑म्। होता॑॑रं - र॒त्न॒धात॑मम्॥ ॐ॥

ॐ॥ शन्नो॑ दे॒वीर॒भिष्ट॑ये - आपो॑ भवन्तु - पी॒तये॑॑। शं योः - अ॒भिस्र॑वन्तु नः॥ हरि॑ ॐ॥

नमो॒ ब्रह्म॑णे - नमो॑ अस्त्व॒ग्नये॑॑ - नमः॑ पृथि॒व्यै - नम॒ ओष॑धीभ्यः। नमो॑ वा॒चे - नमो॑ वा॒चस्पत॑ये - नमो॒ विष्ण॑वे - बृ॒ह॒ते क॑रोमि॥ (त्रिः) ओंतत्सत्॥ (इति वेदारम्भः)

जयादिहोमः

(अन्वारब्धः आचार्यः जयादीन् जुहुयात्)

एतत्कर्मसमृद्ध्यर्थं जयादिहोमं करिष्ये।

चि॒त्तं च॒ स्वाहा॑॑। चित्तायेदं न मम॥
चित्ति॑श्च॒ स्वाहा॑॑। चित्त्या इदं न मम॥
आकू॑तं च॒ स्वाहा॑॑। आकूतायेदं न मम॥
आकू॑तिश्च॒ स्वाहा॑॑। आकूत्या इदं न मम॥
विज्ञा॑तं च॒ स्वाहा॑॑। विज्ञातायेदं न मम॥
वि॒ज्ञानं॑ च॒ स्वाहा॑॑। विज्ञानायेदं न मम॥
मन॑श्च॒ स्वाहा॑॑। मनस इदं न मम॥
शक्व॑रीश्च॒ स्वाहा॑॑। शक्वरीभ्य इदं न मम॥
दर्श॑श्च॒ स्वाहा॑॑। दर्शायेदं न मम॥
पू॒र्णमा॑सश्च॒ स्वाहा॑॑। पूर्णमासायेदं न मम॥
बृ॒हच्च॒ स्वाहा॑॑। बृहत इदं न मम॥
र॒थ॒न्त॒रं च॒ स्वाहा॑॑। रथन्तरायेदं न मम॥

प्र॒जाप॑तिः - जया॑न् - इन्द्रा॑य - वृष्णे॑॑ - प्राय॑च्छत् - उ॒ग्रः - पृ॒त॒नाज्ये॑षु - तस्मै॒ विशः॑ - सम॑नमन्त - सर्वाः॑॑ - स उ॒ग्रः - स हि हव्यः॑ - ब॒भूव॑ - स्वाहा॑॑। प्रजापतय इदं न मम॥

अ॒ग्निर्भू॒तानां॑॑ - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् ब्रह्म॑न् - अ॒स्मिन् क्ष॒त्रे - अ॒स्यामा॒शिषि॑ - अ॒स्यां पु॑रो॒धायां॑॑ - अ॒स्मिन् कर्म॑न् - अ॒स्यां दे॒वहू॑॑त्यां - स्वाहा॑॑। अग्नय इदं न मम॥१॥

इन्द्रो॑ ज्ये॒ष्ठानां॑॑ - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् ब्रह्म॑न् + दे॒वहू॑॑त्यां - स्वाहा॑॑। इन्द्रायेदं न मम॥२॥

य॒मः पृ॑थि॒व्याः - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। यमायेदं न मम॥३॥

वा॒युर॒न्तरि॑क्षस्य - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। वायव इदं न मम॥४॥

सूर्यो॑ दि॒वः - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। सूर्यायेदं न मम॥५॥

च॒न्द्रमा॒ नक्ष॑त्राणां - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। चन्द्रमस इदं न मम॥६॥

बृह॒स्पतिः॑ - ब्रह्म॑णः - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। बृहस्पतय इदं न मम॥७॥

मि॒त्रः स॒त्यानां॑॑ - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। मित्रायेदं न मम॥८॥

वरु॑णो॒ऽपां - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। वरुणायेदं न मम॥९॥

स॒मु॒द्रः स्रो॒त्यानां॑॑ - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। समुद्रायेदं न मम॥१०॥

अन्न॒ साम्रा॑॑ज्यानां - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। अन्नायेदं न मम॥११॥

सोम॒ ओष॑धीनां - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। सोमायेदं न मम॥१२॥

स॒वि॒ता प्र॑स॒वानां॑॑ - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। सवित्र इदं न मम॥१३॥

रु॒द्रः प॑शू॒नां - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। रुद्रायेदं न मम॥१४॥ (अप उपस्पृश्य)

त्वष्टा॑ रू॒पाणां॑॑ - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। त्वष्ट्र इदं न मम॥१५॥

विष्णुः॒ पर्व॑तानां - अधि॑पतिः - स मा॑ऽवतु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। विष्णव इदं न मम॥१६॥

म॒रुतो॑ ग॒णानां॑॑ - अधि॑पतयः - ते मा॑ऽवन्तु - अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। मरुद्भ्य इदं न मम॥१७॥

पित॑रः - पि॒ता॒म॒हाः॒ - प॒रे॒ऽव॒रे॒ - तताः॑॑ - त॒ता॒म॒हाः॒ - इ॒हमा॑ऽवत। अ॒स्मिन् + दे॒वहू॑॑त्यां - स्वाहा॑॑। मन्त्रोक्तदेवताभ्य इदं न मम॥१८॥ (अप उपस्पृश्य)

ऋ॒ता॒षाट् - ऋ॒तधा॑मा - अ॒ग्निग॑न्ध॒र्वः - तस्यौष॑धयः - अ॒प्स॒रसः॑ - ऊर्जो॒ नाम॑ - स इ॒दं ब्रह्म॑ - क्षत्रं पा॑तु - ता इ॒दं ब्रह्म॑ - क्षत्रं पा॑॑न्तु - तस्मै॒ स्वाहा॑॑॥ अग्नये गन्धर्वाय इदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ ओषधीभ्यः अप्सरोभ्यः इदं न मम॥१॥

स॒हि॒तः वि॒श्वसा॑मा - सूर्यो॑ गन्ध॒र्वः - तस्य॒ मरी॑चयः - अ॒प्स॒रसः॑ - आ॒युवो॒ नाम॑ - स इ॒दं ब्रह्म॑ + तस्मै॒ स्वाहा॑॑॥ सूर्याय गन्धर्वाय इदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ मरीचिभ्यः अप्सरोभ्यः इदं न मम॥२॥

सु॒षु॒म्नः - सूर्य॑रश्मिः - च॒न्द्रमा॑ गन्ध॒र्वः - तस्य॒ नक्ष॑त्राणि - अ॒प्स॒रसः॑ - बे॒कुर॑यो॒ नाम॑ - स इ॒दं ब्रह्म + तस्मै॒ स्वाहा॑॑॥ चन्द्रमसे गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ नक्षत्रेभ्यः अप्सरोभ्य इदं न मम॥३॥

भु॒ज्युः सु॑प॒र्णः - य॒ज्ञो ग॑न्ध॒र्वः - तस्य॒ दक्षि॑णाः - अ॒प्स॒रसः॑ - स्त॒वा नाम॑ - स इ॒दं ब्रह्म॑ + तस्मै॒ स्वाहा॑॑॥ यज्ञाय गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ दक्षिणाभ्यः अप्सरोभ्य इदं न मम॥४॥

प्र॒जाप॑तिः - वि॒श्वक॑र्मा - मनो॑ गन्ध॒र्वः - तस्य॑ - ऋ॒क्सा॒मानि॑ - अ॒प्स॒रसः॑ वह्न॑नो॒ नाम॑ - स इ॒दं ब्रह्म॑ + तस्मै॒ स्वाहा॥ मनसे गन्धर्वाय इदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ ऋक्सामेभ्यः अप्सरोभ्यः इदं न मम॥५॥

इ॒षि॒रः - व्य॒श्वव॑चाः - वातो॑ गन्ध॒र्वः - तस्यापः॑ - अ॒प्स॒रसः॑ - मु॒दा नाम॑ - स इ॒दं ब्रह्म॑ + तस्मै॒ स्वाहा॑॑॥ वाताय गन्धर्वायेदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ अद्भ्यः अप्सरोभ्यः इदं न मम॥६॥

भुव॑नस्य पते - यस्य॑ ते - उ॒परि॑ - गृ॒हाः - इ॒ह च॑। स नो॑ रास्व ० अज्या॑निं - रा॒यस्पोषं॑॑ - सु॒वीर्यं॑॑ - सं॒व॒त्स॒रीणां॑॑ - स्व॒स्तिं - स्वाहा॑॑॥ भुवनस्य पत्ये इदं न मम॥७॥

प॒र॒मे॒ष्ठी - अधि॑पतिः - मृ॒त्युर्ग॑न्ध॒र्वः - तस्य॒ विश्वं॑॑ - अ॒प्स॒रसः॑ - भुवो॒ नाम॑ - स इदं॒ ब्रह्म॑ + तस्मै॒ स्वाहा॑॑॥ मृत्यवे गन्धर्वाय इदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ विश्वस्मै अप्सरोभ्यः इदं न मम॥८॥

सु॒क्षि॒तिः - सुभू॑तिः - भ॒द्र॒कृत् - सुव॑र्वान् - प॒र्जन्यः॑ - ग॒न्ध॒र्वः - तस्य॑ - वि॒द्युतः॑ - अ॒प्स॒रसः॑ - रुचो॒ नाम॑ - स इ॒दं ब्रह्म॑ + तस्मै॒ स्वाहा॑॑॥ पर्जन्याय गन्धर्वाय इदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ विद्युद्भ्यः अप्सरोभ्य इदं न मम॥९॥

दू॒रे हे॑तिः - अ॒मृ॒ड॒यः - मृ॒युर्ग॑न्ध॒र्वः - तस्य॑ प्र॒जाः - अ॒प्स॒रसः॑ - भी॒रुवो॒ नाम॑ - स इ॒दं ब्रह्म॑ + तस्मै॒ स्वाहा॑॑॥ मृत्यवे गन्धर्वाय इदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ प्रजाभ्यः अप्सरोभ्य इदं न मम॥१०॥

चारुः॑ - कृ॒प॒ण॒का॒शी - कामो॑ गन्ध॒र्वः - तस्या॒धयः॑ - अ॒प्स॒रसः॑ - शो॒चय॑न्ती॒र्नाम॑ - स इ॒दं ब्रह्म॑ + तस्मै॒ स्वाहा॑॑॥ कामाय गन्धर्वाय इदं न मम॥ ताभ्यः॒ स्वाहा॑॑॥ आधिभ्यः अप्सरोभ्यः इदं न मम॥११॥

स नः॑ - भु॒व॒न॒स्य॒ प॒ते॒ - यस्य॑ ते - उ॒परि॑ - गृ॒हाः - इ॒ह च॑। उ॒रु - ब्रह्म॑णे - अ॒स्मै - क्ष॒त्राय॑ - महि॑ - शर्म॑ - यच्छ॒ स्वाहा॑॑॥ भुवनस्य पत्ये इदं न मम॥१२॥

प्रजा॑पते नत्वत् - ए॒तानि॑ - अ॒न्यो विश्वा॑॑ - जा॒तानि॑ - परि॒ता - ब॒भू॒व॒। यत्का॑मास्ते - जु॒हु॒मः - तन्नो॑ अस्तु - व॒यꣴ स्या॑म - पत॑यः - र॒यी॒णां - स्वाहा॑॑॥ प्रजापतय इदं न मम॥

भूः स्वाहा॑॑॥ अग्नय इदं न मम॥
भुवः स्वाहा॑॑॥ वायव इदं न मम॥
सुवः॒ स्वाहा॑॑॥ सूर्यायेदं न मम॥

यद॑स्य - कर्म॑णः - अत्यरी॑रिचं - यद्वा॒न्यू॑नं - इ॒हाक॑रम्। अ॒ग्निष्टत् - स्वि॒ष्ट॒कृत् - वि॒द्वान् - सर्वं॑॑ - स्वि॑ष्टं - सुहु॑तं - क॒रो॒तु॒ - स्वाहा॑॑॥ अग्नये स्विष्टकृत इदं न मम॥

(परिध्यञ्जनम्। मध्यमं परिधिं प्रहृत्य। इतरौ युगपत् प्रहरन्नुत्तरपरिधेरग्रमङ्गारेषु उपगूहेत्। दर्वीद्वयेन संस्रावं हुत्वा)

वसुभ्यो रुद्रेभ्य आदित्येभ्यः संस्रावभागेभ्य इदं न मम॥

(दर्व्या जुहोति)

ॐ भूर्भुवः॒सुवः॒स्वाहा॑॑॥ प्रजापतय इदं न मम॥

अस्मिन् कर्मणि अविज्ञातप्रायश्चित्तं करिष्ये॥

अना॑॑ज्ञातं - यदाज्ञा॑तं - य॒ज्ञस्य॑ - क्रि॒यते॑॑ - मिथु॑। अग्ने॑॑- तद॑स्य - क॒ल्प॒य॒ - त्वꣳ हि वेत्थ॑ - य॒था॒त॒थं - स्वाहा॑॑॥ अग्नय इदं न मम॥

पुरु॑ष संमितः - य॒ज्ञः - य॒ज्ञः - पुरु॑षसंमितः। अग्ने॑॑ - तद॑स्य - क॒ल्प॒य॒ - त्वꣳ हि वेत्थ॑ - य॒था॒त॒थं - स्वाहा॑॑॥ अग्नय इदं न मम॥

यत्पा॑क॒त्राः - मन॑सा - दी॒नद॑क्षा न। य॒ज्ञस्य॑ - म॒न्वते॑॑ - मर्ता॑सः। अ॒ग्निष्टद्धोता॑॑ - क्र॒तु॒वित् - वि॒जा॒नन्। यजि॑ष्ठो दे॒वान् - ऋ॒तु॒शो य॑जाति - स्वाहा॑॑॥ अग्नय इदं न मम॥

विपर्यासप्रायश्चित्तं करिष्ये॥ त्वं नो॑ अग्ने - वरु॑णस्य - वि॒द्वान् - दे॒वस्य॑ - हेडः - अव॑ - या॒सि॒सी॒ष्ठाः॒। यजि॑ष्ठः - वह्नि॑तमः - शोशु॑चानः - विश्वा॑॑ - द्वेषासि - प्रमु॑मुग्धि - अ॒स्मत् - स्वाहा॑॑॥ अग्नीवरुणाभ्यामिदं न मम॥

स त्वं नः॑ - अ॒ग्ने॒ - अ॒व॒मः - भ॒वोती - नेदि॑ष्ठः - अ॒स्याः - उ॒षसः॑ - व्यु॑ष्टौ। अव॑यक्ष्वनः - वरु॑णं - ररा॑णः - वी॒हिमृ॑डी॒कं - सु॒हवो॑नः - ए॒धि॒ - स्वाहा॑॑॥ अग्नीवरुणाभ्यामिदं न मम॥

भूः स्वाहा॑॑॥ अग्नय इदं न मम॥
भुवः॒ स्वाहा॑॑॥ वायव इदं न मम॥
सुवः॒ स्वाहा॑॑॥ सूर्यायेदं न मम॥
ॐ भूर्भुवःसुवः स्वाहा॥ प्रजापतय इदं न मम॥

अस्मिन् उपाकर्महोमकर्मणि मध्ये संभावित समस्तविद्ध्यपराध प्रायश्चित्तार्थं सर्वप्रायश्चित्ताहुतिं होष्यामि॥ ॐ भूर्भुवःसुवः स्वाहा॥ प्रजापतय इदं न मम॥

श्रीविष्णवे स्वाहा॥ विष्णवे प्रमात्मन इदं नमम॥

नमो रुद्राय पशुपतये स्वाहा॥ रुद्राय पशुपतय इदं न मम॥ (अप उपस्पृश्य)

स॒प्त ते॑ अग्ने - स॒मिधः॑ - स॒प्त जि॒ह्वाः - स॒प्तर्ष॑यः - स॒प्त धाम॑ - प्रि॒याणि॑ - स॒प्तहोत्राः॑॑ - स॒प्त॒धा त्वा॑॑ - य॒ज॒न्ति॒ - स॒प्तयोनीः॑॑ - आपृ॑णस्व - घृ॒तेन॑ - स्वाहा॑॑॥ अग्नये सप्तवत इदं न मम॥

(इति पूर्णाहुतिं हुत्वा अज्यपात्रं दर्व्यौ चोत्तरतो निधाय। अप उपस्पृश्य। प्राणानायम्य। अग्निं पूर्ववत् परिषिञ्चति)

अदितेऽन्वमंस्थाः। अनुमतेऽन्वमंस्थाः। सरस्वतेऽन्वमंस्थाः। देव सवितः प्रासावीः।

वरुणाय नमः। सकलाराधनैः स्वर्चितम्। (इति प्रणीतापात्रमभ्यर्च्य आदाय अग्नेः पश्चात् स्वस्य पुरस्तान्निधाय। तस्मिन् पात्रान्तरेण किञ्चिज्जलं संस्राव्य। तज्जलं दक्षिणहस्तेन प्रागादिदिक्षु ऊर्ध्वं च किञ्चित् बहिर्निनीय। भूमौ किञ्चिन्निनीय। तेन आत्मानं शिष्यांश्च प्रोक्ष्य।)

ब्रह्मन् वरं ते ददामि। (इति ब्रह्मणे दक्षिणां दत्वा)

ब्रह्मणे नमः। सकलाराधनैः स्वर्चितम् (इत्यभर्च्य। अग्नेः वरुणस्य वेदव्यासस्य काण्डऋषीणां च पुनः पूजां कृत्वा)

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ + प्रमो॑षीः॥

य॒ज्ञेन॑ - य॒ज्ञम॑यजन्त - दे॒वाः - तानि॑ - धर्मा॑णि - प्र॒थ॒मानि॑ - आ॒स॒न्। ते ह॒ नाकं॑॑ - म॒हि॒मानः॑ - स॒च॒न्ते॒ - यत्र॒ पूर्वे॑॑ - सा॒ध्याः - सन्ति॑ दे॒वाः॥

अस्मात् कुम्भात् वरुणं यथास्थानं प्रतिष्ठापयामि॥ अस्याः प्रतिमायाः वेदव्यासं काण्डऋषींश्च यथास्थानं प्रतिष्ठापयामि॥ (इत्युद्वास्य)

स्वाहा॑॑॥ अग्नेरुपस्थानं करिष्ये॥

अग्ने॒ नय॑ - सु॒पथा॑ - रा॒ये अ॒स्मान् - विश्वा॑नि - दे॒व॒ - व॒युना॑नि - वि॒द्वान्। यु॒यो॒ध्य॑स्मत् - जु॒हु॒रा॒णं - एनः॑ - भूयि॑ष्ठान्ते - नम॑ उक्तिं - वि॒धे॒म॥ अग्नये नमः॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं हुताशन।
यद्धुतं तु मया देव परिपूर्णं तदस्तु ते॥

प्रायश्चित्तान्यशेषाणि तपःकर्मात्मकानि वै।
यानि तेषामशेषाणां कृष्णानुस्मरणं परम्॥

अभिवादये + भोः॥ (अग्निं नमस्कुर्यात्)

अभ्युदयम्

शुक्लाम्बरधरं + शान्तये॥
ॐ भूः + भूर्भुवःसुवरोम्॥
ममोपात्त + प्रीत्यर्थं

प्रथमोपाकृतिकृतः ब्रह्मचारिणः पित्रादिः अभ्युदयं पुण्याहं च पृथक् कुर्यात्॥ … नक्षत्रे … राशौ जातस्य … शर्मणः अस्य माणवकस्य उपाकर्माङ्गं इति सङ्कल्पे विशेषः। अन्यत् समानम्॥

उपाकर्माङ्गं हिरण्यरूपेण अभ्युदयं करिष्ये। (अप उपस्पृश्य)

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥

उपाकर्माङ्गभूते अस्मिन्नभ्युदये ये ये विहिताः तेषां तृप्त्यर्थं इदमाग्नेयं हिरण्यं सदक्षिणाकं सताम्बूलं नान्दीशोभनदेवतास्वरूपेभ्यः नानागोत्रेभ्यः ब्राह्मणेभ्यः तेभ्यस्तेभ्यः संप्रददे न मम॥ (इति दक्षिणां ताम्बूलं च ब्राह्मणेभ्यो दत्वा)

सम्पन्नम्॥ इडा॑॑ - दे॒व॒हूः - मनुः॑ - य॒ज्ञ॒नीः - बृह॒स्पतिः॑ - उ॒क्था॒मदानि॑ - श॒सि॒षत् - विश्वे॑दे॒वाः - सू॒क्त॒वाचः॑ - पृथि॑वि मातः - मा मा॑ हिꣳसीः - मधु॑ मनिष्ये - मधु॑ जनिष्ये - मधु॑ वक्ष्यामि - मधु॑ वदिष्यामि - मधु॑मतीं - दे॒वेभ्यः॑ - वाच॑मुद्यासं - शु॒श्रू॒षेण्यां॑॑ - म॒नु॒ष्ये॑॑भ्यः - तम् मा॑ दे॒वाः - अ॒व॒न्तु॒ - शो॒भायै॑॑ - पि॒तरोऽनु॑मदन्तु॥ इडा॒ एहि॑। अदि॑त॒ एहि॑। सर॑स्व॒त्येहि॑। शोभनं शोभनम्॥

मनः समाधीयताम्। प्रसीदन्तु भवन्तः॥
श्रीरस्त्विति भवन्तो ब्रुवन्तु। पुण्याहं भवन्तो ब्रुवन्तु। (ब्राह्मणदत्तानक्षतान् शिरसि धारयेत्)॥

अथ पुण्याहवाचनम्

शुक्लाम्बरधरं + शान्तये॥
ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं एतदङ्गं पुण्याहवाचनं करिष्ये। (अप उपस्पृश्य)

इ॒मं मे॑ वरुण + च॑के॥
तत्त्वा॑ यामि॒ + मो॑षीः॥

अस्मिन् कुम्भे वरुणमावाहयामि। (इति वरुणमावाह्य आसनादि सर्वोपचारान् कृत्वा)

अस्मिन् पुण्याहवाचनजपकर्मणि सर्वेभ्यो ब्राह्मणेभ्यो नमः। भवद्भिरनुज्ञातः पुण्याहं वाचयिष्ये।

कर्मणः पुण्याहं भवन्तो ब्रुवन्तु।
उपाकर्मकर्मणे स्वस्ति भवन्तो ब्रुवन्तु। कर्मणः ऋद्धिं भवन्तो ब्रुवन्तु। ऋद्धिः समृद्धिरस्तु। पुण्याहसमृद्धिरस्तु। शुभं कर्मास्तु। प्रजापतिः प्रीयताम्। शान्तिरस्तु। पुष्टिरस्तु। तुष्टिरस्तु। वृद्धिरस्तु। अविघ्नमस्तु। आयुष्यमस्तु। आरोग्यमस्तु। अचलमैश्वर्यमस्तु। धनधान्यसमृद्धिरस्तु। गोब्राह्मणेभ्यः शुभं भवतु। (ऐशान्यां बहिर्देशे) अरिष्टनिरसनमस्तु। (आग्नेय्यां) यत्पापं तत्प्रतिहतमस्तु। यत् श्रेयस्तदस्तु। सर्वशोभनमस्तु। सर्वाः सम्पदः सन्तु॥

ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

द॒धि॒क्राव्ण्णो॑ अकारिषं + आयूषि तारिषत्॥

आपो॒ हि ष्ठा म॑यो॒ भुव॒स्तान॑ + आपो॑ ज॒नय॑था च नः॥

हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑।
अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥

यासा॒ꣳ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्।
म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥

यासां॑॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति।
याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यताऽपः शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे।
सर्वा॑ꣳ अ॒ग्नीꣳर॑प्सु॒षदो॑ हुवो वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त॥

यद॒दः सं॑ प्रय॒तीरहा॒वन॑दता ह॒ते।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः॥

यत्प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभ॑ꣳ स॒मव॑ल्गत।
तदा॑॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन॥

अ॒प॒का॒मꣴ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक॑॑म्।
इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द् वार्णाम॑ वो हि॒तम्॥

एको॑ दे॒वो अप्य॑तिष्ठ॒त् स्यन्द॑माना यथाव॒शम्।
उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते॥

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः।
ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आ मा॑॑ प्रा॒णेन॑ स॒ह वर्च॑सा गन्॥

आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्यामा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम्।
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑॥

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से॥
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः॥

दि॒वि श्र॑यस्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या सं भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा॥

पव॑मानः॒ सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः। यः पोता॒ स पु॑नातु मा। पु॒नन्तु॑ मा देवज॒नाः।
पु॒नन्तु॒ मन॑वो धि॒या। पु॒नन्तु॒ विश्व॑ आ॒यवः॑। जात॑वेदः प॒वित्र॑वत्। प॒वित्रे॑ण पुनाहि मा। शु॒क्रेण॑ देव॒ दीद्य॑त्। अग्ने॒ क्रत्वा॒ क्रतू॒ꣳरनु॑॥

यत् ते॑ प॒वित्र॑म॒र्चिषि॑। अग्ने॒ वित॑तमन्त॒रा। ब्रह्म॒ तेन॑ पुनीमहे। उ॒भाभ्यां॑॑ देवसवितः। प॒वित्रे॑ण स॒वेन॑ च। इ॒दं ब्रह्म॑ पुनीमहे। वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑॑त्। यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः। तया॒ मद॑न्तः सध॒माद्ये॑षु। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्॥

वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु। वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः। द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः। ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम्। बृ॒हद्भिः॑ सवित॒स्तृभिः॑। वर्षि॑ष्ठैर्देव॒मन्म॑भिः। अग्ने॒ दक्षैः॑॑ पुनाहि मा। येन॑ दे॒वा अपु॑नत। येनापो॑ दि॒व्यं कशः॑। तेन॑ दि॒व्येन॒ ब्रह्म॑णा॥

इ॒दं ब्रह्म॑ पुनीमहे। यः पा॑वमा॒नीर॒ध्येति॑। ऋषि॑भिः॒ संभृ॑त॒ꣳ रस॑॑म्। सर्व॒ꣳ स पू॒तम॑श्नाति। स्व॒दि॒तं मा॑त॒रिश्व॑ना। पा॒व॒मानीर्यो अ॒ध्येति॑। ऋषि॑भिः॒ संभृ॑त॒ꣳ रस॑॑म्। तस्मै॒ सर॑स्वती दुहे। क्षी॒रꣳ स॒र्पिर्मधू॑द॒कम्। पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः॥

सु॒दुघा॒ हि पय॑स्वतीः। ऋषि॑भिः॒ संभृ॑तो॒ रसः॑। ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्। पा॒व॒मा॒नीर्दि॑शन्तु नः। इ॒मं लो॒कमथो॑ अ॒मुम्। कामा॒न् सम॑र्धयन्तु नः। दे॒वीर्दे॒वैः स॒माभृ॑ताः। पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः। सु॒दुघा॒ हि घृ॑त॒श्चुतः॑। ऋषि॑भिः॒ संभृ॑तो॒ रसः॑॥

ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्। येन॑ दे॒वाः प॒वित्रे॑ण। आ॒त्मानं॑ पु॒नते॒ सदा॑॑। तेन॑ स॒हस्र॑धारेण। पा॒व॒मा॒न्यः पु॑नन्तु मा। प्रा॒जा॒प॒त्यं प॒वित्र॑॑म्। श॒तोद्या॑मꣳ हिर॒ण्मय॑॑म्। तेन॑ ब्रह्म॒विदो॑ व॒यम्। पू॒तं ब्रह्म॑ पुनीमहे। इन्द्रः॑ सुनी॒ती स॒ह मा॑ पुनातु। सोमः॑ स्व॒स्त्या वरु॑णः स॒मीच्या॑॑। यमो॒ राजा॑॑ प्रमृ॒णाभिः॑ पुनातु मा। जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु॥

(अनु॑रयी॒णां ब्रह्म॑णास्व॒स्त्यय॑नीः सु॒दुघा॒हि घृ॑त॒श्चुत॒ ऋषि॑भिः॒ संभृ॑तो॒ रसः॑ पुनातु॒ त्रीणि॑च॥)

भूर्भुवः॒सुवः॑। तच्छं॒ योरावृ॑णीमहे। गा॒तुं य॒ज्ञाय॑। गा॒तुं य॒ज्ञप॑तये। दैवी॑॑ स्व॒स्तिर॑स्तु नः। स्व॒स्तिर्मानु॑षेभ्यः। ऊ॒र्ध्वं जि॑गातु भेष॒जम्। शं नो॑ अस्तु द्वि॒पदे। शं चतु॑ष्पते। ॐ शान्तिः॒ शान्तिः॒ शान्तिः॑॥

वरुणाय नमः। सकलाराधनैः स्वर्चितम्॥
तत्त्वा॑ यामि + प्रमो॑षीः॥

अस्मात् कुम्भात् वरुणं यथास्थानं प्रतिष्ठापयामि॥

द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः। स्वि॒न्नः स्ना॒त्वीमला॑दिव। पू॒तं प॒वित्रे॑णे॒वाज्य॑॑म्। आपः॑ शुन्धन्तु॒ मैन॑सः॥ भूर्भुवः॒सुवः॑॥

(इति पुण्याहजलेन आत्मानं शिष्यांश्च प्रोक्ष्य॥)

अकालमृत्युहरणं सर्वव्याधिनिवारणम्।
सर्वपापक्षयकरं वरुणव्यासकाण्डऋषिपादोदकं शुभम्॥

इति तीर्थं प्राश्य सर्वांश्च प्राशयेत्। ब्रह्मार्पणं कृत्वा पवित्रं विसृज्य आचामेत्॥

आशीर्वादे कृते सर्वेऽप्यक्षतान् शिरसि धारयेयुः। आचार्यं संपूज्य स्वस्तिवाचनपूर्वकं गृहं गच्छेयुः॥ शिवमस्तु॥

इत्यापस्तम्बीयोपाकर्म प्रयोगः॥

गायत्रीजपविधिः

श्रावण्यां पौर्णमास्यां तिलभक्ष उपोष्य वा श्वोभूते प्रातः स्नात्वा नित्यकर्म समाप्य।

(पवित्रपाणिः दर्भेष्वासीनो दर्भान् धारयमाणः)

शुक्लाम्बरधरं + शान्तये॥
ॐ भूः + भूर्भुवःसुवरोम्॥

ममोपात्त + प्रीत्यर्थं शुभे दिने + प्रथमायां शुभतिथौ सांवत्सरिकमिथ्याधीतप्रायश्चित्तार्थं सांवत्सरिकदोषवदपतनीयप्रायश्चित्तार्थं च * अष्टोत्तरसहस्रसङ्ख्यया गायत्रीमहामन्त्रजपं करिष्ये॥ (इति सङ्कल्प्य)

अष्टोत्तरत्वं शिष्टोपदिष्टम्

(दर्भान्निरस्य अप उपस्पृश्य यथाविधि स्नात्वा शुद्धवस्त्रपुण्ड्रधरः नित्यजपवत् ऋषिच्छन्दोदेवताध्यानगायत्र्यावाहनादीनि कृत्वा अष्टोत्तरसहस्रसङ्ख्यया गायत्रीं जपित्वा मित्रस्येत्यादिभिरुपस्थाय पवित्रं विसृज्य आचामेत्॥) ओंतत्सत्॥

समिदाधानपक्षे तु सावित्र्या समित्सहस्रमाधास्ये इति सङ्कल्पः। श्रोत्रियागारादाहृतेऽग्नौ यथाविधि प्रतिष्ठापिते परिस्तीर्णे परिषिक्ते घृतेनाभ्यज्य एकैकशः प्रणवव्याहृतिपूर्वया गायत्र्या समित्सहस्रमादध्यात्। न स्वाहाकारः। परिषिच्य उपतिष्ठेत॥ अष्टोत्तरसहस्रं समिध इति केचित्॥

ओंतत्सत्॥