अङ्कुरार्पणम्

source: āpastambīya pūrvāpara prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

सङ्कल्पः

अमुकनक्षत्रे ऽमुकराशौ जातस्य मम कुमारस्य (श्वः) करिष्यमाणामुककर्माङ्गं * बोधायनोक्तप्रकारेण अङ्कुरार्पणकर्म करिष्यामि।

चौलोपनयने स्नाने दम्पत्योश्च विवाहके॥

पुण्याहवाचनम्

तदङ्गं पुण्याहं वाचयिष्ये। ब्रह्मादयः प्रीयन्तामिति पुण्याहं वाचयित्वा।

पालिकानिधानम्

पञ्चपालिकाः संभृत्य, मध्ये चतुर्दिक्षु च मध्यादिप्रदक्षिणक्रमान्निधाय तासां मूले दूर्वाश्वत्थबिल्वशिरीषाणि बध्वा, श्वेतसूत्रेण वेष्टयित्वा, शुद्धाभिर्मृद्भिरापूर्य, पुण्याहजलैः पञ्चपालिकाः कूर्चेण व्याहृतीभिः प्रोक्ष्य,

पालिकासु देवतापूजा

मध्यमायां पालिकायां ॐ भूः ब्रह्माणमावाहयामि। ॐ भुवः प्रजापतिमावाहयामि। ओꣳ सुवः चतुर्मुखमावाहयाइ। ॐ भूर्भुवः॒सुवः॑ हिरण्यगर्भमावाहयामि। ब्रह्मादीनामिदमासनम्।

एताभिरेव व्याहृतीभिः प्राच्यां इन्द्रं वज्रिणं शतक्रतुं शचीपतिमित्यावाह्य, इन्द्रादीनामिदमासनम्। दक्षिणस्यां यमं वैवस्वतं पितृपतिं धर्मराजमित्यावाह्य, यमादीनामिदमासनम्।
पश्चिमायां वरुणं प्रचेतसं सुरूपिणं अपांपतिमित्यावाह्य, वरुणादीनामिदमासनम्।
उत्तरस्यां सोमं इन्दुं निशाकरं ओषधीशमित्यावाह्य, सोमादीनामिदमासनम्।

अथ पालिकाः परिस्तीर्य, ब्रह्मादिभ्यो नमः इदं पाद्यमर्घ्यमाचमनीयमिति क्रमेण दत्वा, आपोहिष्ठेति तिसृभिर्हिरण्यवर्णा इति चतसृभिः पवमानानुवाकेन च मार्जयित्वा,   वस्त्रादिनिवेदनान्तं ताम्बूलं मन्त्रपुष्प सुवर्णपुष्पं च दत्वा, अङ्कुरार्थबीजानि व्रीहिमाषतिलमुद्गसर्षपान्, क्षीरेण प्रक्षाल्य,

उपस्थानम्

सक्षीरमोषधिबीजसहितं पात्रं सकूर्चमादायोत्थाय,

“दिशां पतिं नमस्यामि सर्वकामफलप्रदान्।
कुर्वन्तु सफलं कर्म कुर्वन्तु सततं शुभम्॥”
इति ब्रह्मादीनुपस्थाय,

ऋत्विग्वरणम्

ओषधिसूक्तजपार्थमृत्विजं त्वां वृणे। चतुरो वरान् वृत्वा, या जाता ओषधय इत्यनुवाकेन ओषधिबीजान्यभिमन्त्र्य, यथाक्रमं निवपति।

बीजावापः

मध्यमायां,
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑॥

(ब्रह्म॑ जज्ञा॒नं - प्र॒थ॒मम् - पु॒रस्ता॑॑त् - वि सी॑म॒तः - सु॒रुचः॑ - वे॒न आ॑वः।
स बु॒ध्नियाः॑॑ - उ॒प॒माः - अ॒स्य॒ वि॒ष्ठाः - स॒तश्च॑ - योनि॑॑म् - अस॑तश्च - विवः॑॥)

पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम॒न्तरि॑क्षं वि॒श्वरू॑प॒ आवि॑वेश।
तम॒र्कैर॒भ्य॑र्चन्ति व॒त्सं ब्रह्म॒सन्त॒ ब्रह्म॑णा व॒र्धय॑न्तः॥

(पि॒ता वि॒राजा॑॑म् – ऋ॒ष॒भः - र॒यी॒णाम् - अ॒न्तरि॑क्षम् - वि॒श्वरू॑पः - आवि॑वेश।
तम॒र्कैः - अ॒भ्य॑र्चन्ति - व॒त्सम् - ब्रह्म॒सन्त॑॑म् - ब्रह्म॑णा - व॒र्धय॑न्तः॥ )

ब्रह्मादिभ्यो नमः, अयं बीजावापः। सकृन्मन्त्रेण द्विस्तूष्णीम्॥

प्राच्यां,
यत॑ इन्द्र॒ भया॑महे। ततो॑ नो॒ अभ॑यं कृधि।
मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तये॑॑। विद्विषो॒ विमृधो॑ जहि॥

(यत॑ इन्द्र - भया॑महे - ततो॑ नः - अभ॑यं कृधि।
मघ॑वन् - श॒ग्धि - तव॒ तन्नः॑ - ऊ॒तये॑॑ - विद्विषः॑ - विमृधो॑ जहि॥)

स्व॒स्ति॒दा वि॒शस्पति॑र्वृत्र॒हा विमृधो॑ व॒शी।
वृषेन्द्रः॑ पु॒र ए॑तु नः स्वस्ति॒दा अ॑भयङ्क॒रः॥

(स्व॒स्ति॒दाः - वि॒शस्पतिः॑ - वृ॒त्र॒हा - विमृधः॑ - व॒शी।
वृषेन्द्रः॑ - पु॒र ए॑तु नः - स्व॒स्ति॒दाः - अ॒भ॒य॒ङ्क॒रः॥)

इन्द्रादिभ्यो नमः, अयं बीजावापः। सकृन्मन्त्रेण द्विस्तूष्णीम्॥

दक्षिणस्यां,
योऽस्य॒ कौष्ठ्य॒ जग॑तः॒ पार्थि॑व॒स्यैक॑ इद्व॒शी।
य॒मं भ॑ङ्ग्यश्र॒वो गा॑य॒ यो राजा॑ऽनप॒रोध्यः॑॥

(योऽस्य॑ - कौष्ठ्य॑ - जग॑तः - पार्थि॑व॒स्य - इक॑ इद्व॒शी।
य॒मम् - भ॒ङ्ग्य॒श्र॒वः - गा॒य॒ - यो राजा॑॑ - अ॒न॒प॒रोध्यः॑॥)

य॒मं गाय॑ भङ्ग्य॒श्रवो॒ यो राजा॑ऽनप॒रोध्यः॑।
येना॒पो न॒द्यो॑ धन्वा॑नि॒ येन॒ द्यौः पृ॑थि॒वी दृ॒ढा॥

(य॒मं गाय॑ - भ॒ङ्ग्य॒श्रवः॑ - यो राजा॑॑ - अ॒न॒प॒रोध्यः॑।
येना॒पः॒ - न॒द्यः॑ - धन्वा॑नि॒ - येन॒ द्यौः - पृ॒थि॒वी - दृ॒ढा॥)

यमादिभ्यो नमः, अयं बीजावापः। सकृन्मन्त्रेण द्विस्तूष्णीम्॥

प्रतीच्यां,
इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥

इ॒मं मे॑॑ - व॒रु॒ण॒ - श्रुधी॒ हव॑॑म् - अ॒द्या च॑ - मृ॒ड॒य॒। त्वाम॑व॒स्युः - आच॑के॥

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑॑स्ते॒ यज॑मानो ह॒विर्भिः॑।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः॥

(तत्त्वा॑ यामि - ब्रह्म॑णा - वन्द॑मानः - तदा शा॑॑स्ते - यज॑मानः - ह॒विर्भिः॑।
अहे॑डमानः - व॒रु॒ण॒ - इ॒ह बो॑धि - उरु॑शꣳस - मा नः॑ - आयुः॑ - प्रमो॑षीः॥)

वरुणादिभ्यो नमः, अयं बीजावापः। सकृन्मन्त्रेन द्विस्तूष्णीम्॥    उत्तरस्यां,
सोमो॑ धे॒नुꣳ सोमो॒ अर्व॑न्तमा॒शुम्। सोमो॑ वी॒रं क॑र्म॒ण्यं॑ ददातु।
सा॒द॒न्यं॑ विद॒त्यꣳ स॒भेय॑॑म्। पि॒तुः॒ श्रव॑णं॒ यो ददा॑शदस्मै॥

(सोमो॑ धे॒नुम् - सोमः॑ - अर्व॑न्तम् - आ॒शुम्। सोमः॑ - वी॒रं - क॒र्म॒ण्यम् - द॒दा॒तु।
सा॒द॒न्य॑॑म् - वि॒द॒त्य॑॑म् - स॒भेय॑॑म्। पि॒तुः॒ श्रव॑णम् - यो ददा॑शत् - अ॒स्मै॒॥)

आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम्। भवा॒ वाज॑स्य सङ्ग॒थे॥

(आ प्या॑यस्व - समे॑तु ते - वि॒श्वतः॑ - सो॒म॒ - वृष्णि॑यम्। भवा॒ वाज॑स्य - स॒ङ्ग॒थे॥)

सोमादिभ्यो नमः, अयं बीजावापः। सकृन्मन्त्रेण द्विस्तूष्णीम्॥
इति बीजान्युप्त्वा *

“सुमङ्गल्योऽथ वा कन्यास्तिस्रः पञ्चाथ सप्त वा।
अवन्ध्या निवपेयुः न रजोवर्जिताश्च निवपेयुः॥”
ताः स्त्रियश्च गन्धादिभिः संपूजयेत्

अथ पालिकासु यथाक्रमं पञ्चगव्येन सेचयित्वा, शुद्धाभिः सिकताभिः प्रच्छाद्य, यावत्कर्म समाप्तिस्तावत् सुरक्षितं कृत्वा, सायं प्रातर्निवेद्य संपूज्य, समाप्ते कर्मण्ययुग्मे ऽह्नि प्रणवव्याहृतीभिस्तैरेवमन्त्रैः

ॐ भूः ब्रह्माणमुद्वासयामीत्यादिक्रमेण देवता उद्वास्य, नद्यां तटाके वा अङ्कुराणि प्रक्षिपेत्॥

इत्यङ्कुरार्पणप्रयोगः॥