ज्वरशान्तिः

॥ अथ ज्वरशान्तिः (शान्तिरत्नाकरे)॥

ज्वरशान्तिं प्रवक्ष्यामि सर्वलोकोपकारदम्।
रङ्गवल्ल्या समायुक्ते शोभने भवने शुभे॥

धान्यद्रोणद्वयं क्षिप्त्वा तदुपरि आढकद्रोणं निक्षिप्य तदुपरि तिलप्रस्थचतुष्टयं निक्षिपेत्। तदुपरि द्रोणतण्डुलं तदर्धं माषं प्रस्थद्वयसर्षपं,

चूतपत्रसमायुक्ते नालिकेरशिरस्यथ।
एवं कुम्भे ज्वरं देवमावाह्याभ्यर्चयेत् सुधीः।
अङ्गन्यासं करन्यासं षडङ्गं विन्यसेत् क्रमात्।

अस्य श्रीज्वरमहामन्त्रस्य कालाग्निरुद्र ऋषिः, अनुष्टुप्छन्दः, कालज्वरो देवता, आं बीजं, ज्वरः शक्तिः, ह्रीं कीलकं, मम समस्तज्वरनाशनार्थे जपे विनियोगः।

करन्यासं कृत्वा – ज्वराय हृदयाय नमः। आमज्वराय शिरसे स्वाहा। शीतज्वराय शिखायै वषट्। तापज्वराय कवचाय हुम्। सन्निपातज्वराय नेत्रत्रयाय वौषट्। सर्वज्वराय अस्त्राय फट्। भूर्भुवःसुवरोमिति दिग्बन्धः॥

ध्यानम् –
रक्तत्रिनेत्रं त्रिपदं त्रिहस्तं त्रिशूलिनं रुद्रसुतं कृशाङ्गम्।
भस्मायुधं चक्रशशाङ्कमालिनं ध्यायेत् समक्षं त्रिपदज्वरं च॥

ज्वरदेवं त्रिणेत्राक्षं त्रिशूलं रक्तवर्णकम्।
भस्मायुधं त्रिहस्तं च त्रिपदं त्वीशपुत्रकम्॥

एवं ध्यात्वा ज्वरं देवं कुम्भे आवाह्य अर्चयेत्। आसनादिषोडशोपचारान् कृत्वा पश्चाज्जपेयुः॥ ज्वरगायत्रीं अष्टोत्तरसहस्रं अष्टोत्तरशतं वा जपेत्॥

भस्मायुधाय विद्महे एकदंष्ट्राय धीमहि। तन्नो ज्वरः प्रचोदयात्॥

त्रिपाद् भस्मप्रहरणः त्रिशिरारक्तलोचनः।
स मे प्रीतः सुखं दद्यात् सर्वामयपतिर्ज्वरः॥
कौबेरं ते मुखं नाशय

इति जपित्वा अन्यांश्च ज्वरमन्त्रान्। त्र्यम्बकं, यत इन्द्र भयामहे + स्वस्ति दा विश्वस्पतिरिति द्वाभ्याम्। कृणुष्वपाज इत्येतमनुवाकम्। दुर्गागायत्री। (का॒त्या॒य॒नाय॑ वि॒द्महे॑ कन्यकु॒मारि॑ धीमहि। तन्नो॑ दुर्गिः प्रचो॒दया॑॑त्॥) जातवेदसे + दुरितात्यग्निः। इन्द्राक्षीजपः।

पश्चात् तर्पणं कुर्यात्। त्रिपदं तर्पयामि। भस्मप्रहरणं तर्पयामि। आमज्वरं तर्पयामि। शीतज्वरं तर्पयामि। सन्निपातज्वरं तर्पयामि। तापज्वरं तर्पयामि।

तुषसर्षपमिश्रमष्टोत्तरसहस्रमष्टोत्तरशतं वा तर्पणं कुर्यात्॥

जपतर्पणानन्तरं –
कुम्भस्य पश्चिमे भागे होमं कुर्याद्विक्षणः।
स्वगृह्योक्तविधानेन मुखान्तं कारयेत् सुधीः॥

ज्वरगायत्र्या पालाशसमिद्भिरष्टोत्तरसहस्रमष्टोत्तरशतं वा जुहुयात्॥ सर्षपमिश्रपायसान्नं त्रिपाद्भस्मप्रहरणमन्त्रेण अष्टोत्तरशतं कुबेर इति (कु॒बे॒राय॑ वैश्रव॒नाय॑। म॒हा॒रा॒जाय॒ नमः॑) मन्त्रेण आज्याहुतिरष्टोत्तरशतसङ्ख्या सर्वत्र समानम्॥

स्विष्टकृत् प्रभृति सिद्धमाधेनुवरप्रदानात्। होमं समाप्य जयादिप्रतिपद्यते आवरदानन्तं कृत्वा॥ अग्न्युपस्थानं कृत्वा॥ ऋत्विग्भिः सह आचार्यः कुम्भजलेन यजमानस्य ज्वरगायत्र्या अष्टोत्तरशतवारं प्रोक्ष्य उपकरणसहितमाचार्याय विशेषदक्षिणां च दद्यात् ऋत्विग्भ्यश्च व्याधिबलानुसारेण दक्षिणां दद्यात्॥ आचार्यादयः ऋत्विक्सहिताः कर्णमात्रे नाभिमात्रे उदरमात्रे वा जले तिष्ठन् ज्वरगायत्रीमष्टोत्तरशतवारं जपेयुः॥ ततः परं ज्वरनाशो भवतीत्याह भगवान् बोधायनः॥

इति ज्वरशान्तिः॥