उदकशान्तिः

source: āpastambīya pūrvāpara prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

शान्तिकालः

आदौ शान्तिकाल उच्यते। जन्मनक्षत्रे पुण्यनक्षत्रे विवाहचौलोपनयनसमावर्तन-सीमन्तेषु अन्येषु मङ्गलकार्येषु ग्रहोपरागे ग्रहोत्पाते द्विपात्सु चतुष्पात्सु भयोत्पन्ने दुस्वप्ने भयङ्करे च उदकशान्तिं कुर्यात्॥

अनुज्ञा

अशेषे हे परिषत् भवत्पादमूले मया समर्पितां इमां सौवर्णीं यत्किञ्चिद्दक्षिणां यथोक्तदक्षिणामिव स्वीकृत्य, अमुकनक्षत्रे ऽमुकराशौ जातस्य मम कुमारस्य (श्वः) करिष्यमाणामुककर्माङ्गं बोधायनोक्तप्रकारेण उदकशान्तिकर्म कर्तुं योग्यतासिद्धिमनुगृहाण॥   

गणपतिपूजा

दर्भेष्वासीनो दर्भान्धारयमाणः सङ्कल्पं करोति।

शुक्लाम्बरधरं + शान्तये। ॐ भूः + भूर्भुवः॒सुव॒रोम्। ममोपात्त + प्रीत्यर्थं तदेव लग्नं + स्मरामि। करिष्यमाणस्य कर्मणः अविघ्नेन परिसमाप्त्यर्थं, आदौ गणपतिपूजां करिष्ये। इति सङ्कल्प्य, गणपतिपूजां कृत्वा,

ॐ॥ करिष्यमाणस्य कर्मणोऽविघ्नेन परिसमाप्त्यर्थमादौ सिद्धिविनायकपूजां करिष्ये॥

गणानां त्वा गृत्समदो गणपतिर्जगती। गणपत्यावाहने विनियोगः।
ग॒णानां॑॑ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राज॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥

अस्मिन् हरिद्राबिम्बे सिद्धिविनायकं ध्यात्वा।

आवाहयामि। आसनं समर्पयामि। पाद्यमर्घ्यमाचमनीयं च दत्वा। (व्याहृत्या) स्नानम्। आचमनीयम्। वस्त्रम्। उपवीतम्। गन्धम्। अक्षतान्। पुष्पाणि समर्पयामि।

सुमुखाय नमः। एकदन्ताय नमः। कपिलाय नमः। गजकर्णकाय नमः। लम्बोदराय नमः। विकटाय नमः। विघ्नराजाय नमः। विनायकाय नमः। धूमकेतवे नमः। गणाध्यक्षाय नमः। फालचन्द्राय नमः। गजाननाय नमः। वक्रतुण्डाय नमः। शूर्पकर्णाय नमः। हेरम्बाय नमः। स्कन्दपूर्वजाय नमः। सिद्धिविनायकाय नमः। नानाविधपत्रपुष्पाणि समर्पयामि।

धूपदीपार्थे इमे अक्षताः। नालिकेरखण्डं निवेदयामि। ताम्बूलम्। मन्त्रपुष्पम्। सुवर्णपुष्पम्। समस्तोपचारान् समर्पयामि।
अनया पूजया महागणपतिः प्रीयताम्।

वक्त्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
अविघ्नमस्तु॥

ग॒णानां॑॑ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राज॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद साद॑नम्॥

अस्माद्बिम्बात् सिद्धिविनायकं यथास्थानं प्रतिष्ठापयामि। शोभने क्षेमाय पुनरागमनाय च॥ आशीर्वादं कुर्यात्॥

सङ्कल्पः

दर्भेष्वासीनो धर्भान्धारयमाणः सङ्कल्पं करोति। शुभतिथौ अमुकनक्षत्रे ऽमुकराशौ जातस्य म कुमारस्य (श्वः) करिष्यमाणामुककर्माङ्गं बोधायनोक्तप्रकारेण उदकशान्तिकर्म करिष्ये। इति सङ्कल्प्य, गणपतिमुद्वास्य *

शान्त्यर्थं चेद्दिवा कुर्याद्रात्रौ चेत् कर्मशुद्धये॥

शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य, सैकतवद्द्रोणपरिमित-व्रीहिभिः स्थण्डिलं कृत्वा, तदुपरि तण्डुलराशिं निक्षिप्य,

उल्लेखनम्

तस्मिन् प्रादेशमात्रं चतुरश्रं दर्भैस्त्रिः प्राचीनमुल्लेखेत्।

(मध्ये)
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑॥

(दक्षिणतः)
नाके॑ सुप॒र्णमु॑प॒यत्पत॑न्तꣳ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षतत्वा।
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम्॥

(उत्तरतः)
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम्।
भवा॒ वाज॑स्य सङ्ग॒थे॥

अथ त्रिरुदीचीनमुल्लिखेत्। (मध्ये)
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥
अप उपस्पृश्य,

(पश्चिमतः)
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम्।
समू॑ढमस्य पाꣳसु॒रे॥

(पुरस्तात्)
इन्द्रं॒ विश्वा॑ अवीवृधन् समु॒द्र व्य॑चसं॒ गिरः॑। र॒थीत॑मꣳ रथी॒नां वाजा॑ना॒ꣳ सत्प॑तिं॒ पति॑॑म्।

दर्भान्निरस्य, अप उपस्पृश्य   

कुम्भस्थापनम्

दूर्वाक्षतफलैरवकीर्य, गन्धोदकेनाभ्युक्ष्य, पुष्पैरवकीर्य, प्रागग्रान् दर्भान् संस्तीर्य, तन्तुवेष्टितं सुधूपितं कुम्भमद्भिः प्रोक्ष्य, ब्रह्म॑ जज्ञा॒नमित्यृचा स्थण्डिले कुम्भं निधाय, तस्मिन् गायत्र्या तिरःपवित्रमुदगग्रं निधाय, व्याहृतीभिः शुद्धोदकैः पूरयित्वा,

अभिमन्त्रणम्

आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपो ऽन्न॒मापो ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ꣴस्यापो॒ ज्योती॒ꣴष्यापो॒ यजू॒ꣴष्यापः॑ स॒त्यमाप॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒सुव॒राप॒ ओम्॥

(१) अ॒पः प्रण॑यति। श्र॒द्धा वा आपः॑। श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
(२) अ॒पः प्रण॑यति। य॒ज्ञो वा आपः॑। य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
(३) अ॒पः प्रण॑यति। वज्रो॒ वा आपः॑। वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति।
(४) अ॒पः प्रण॑यति। आपो॒ वै र॑क्षो॒घ्नीः। रक्ष॑सा॒मप॑हत्यै।
(५) अ॒पः प्रण॑यति। आपो॒ वै द॒वानां॑॑ प्रि॒यं धाम॑। दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति।
(६) अ॒पः प्रण॑यति। आपो॒ वै सर्वा॑ दे॒वताः॑॑। दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति। अ॒पः प्रण॑यति।
(७) आपो॒ वै शा॒न्ताः। शा॒न्ताभि॑रे॒वास्य॒ शुच॑ꣳ शमयति॥
इत्यभिमन्त्र्य,

उत्पवनम्
त्रिः प्रागुत्पुनाति।
दे॒वो वः॑ सवि॒तोत्पु॑नातु। अच्छि॑द्रेण प॒वित्रे॑ण। वसो॒ सूर्य॑स्य र॒श्मिभिः॑॥

रत्ननिक्षेपणम्
[ऋ] स हि रत्ना॑॑नि दा॒शुषे॑॑ सु॒वाति॑ सवि॒ता भगः॑।
तं भा॒गं चि॒त्रमी॑॑महे॥
कुम्भरत्नं निक्षिप्य,

कूर्चनिधानम्
कूर्चाग्रै राक्षसान् घोरान् छिन्धि कर्मविघातिनः।
त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मणि॥
कूर्चं निधाय

पल्लवैरवकीरणम्
वृक्षराजसमुद्भूताः शाखायाः पल्लवत्त्वचः।
युष्मान् कुम्भेष्वर्पयामि सर्वदोषापनुत्तये॥
चूतपल्लवैर्बिल्वपल्लवैर्वाऽवकीर्य।

अपिधानम्
नालिकेरसमुद्भूत त्रिणेत्र हरसंमत।
शिखया दुरितं सर्वं पापं पीडां च मे नुद॥
नालिकेरफलेनापिधाय। (ऊर्ध्वकूर्चं च निधाय)

वरुणपूजा

इ॒मं मे॑ वरुण, तत्त्वा॑यामीति द्वाभ्यां कुम्भे वरुणमावह्य, आसनादिषोडशोपचारान् कुर्यात्।

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥

तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑॑स्ते॒ यज॑मानो ह॒विर्भिः॑।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒मान॒ आयु॒ प्रमो॑षीः॥ 

अस्मिन् कुम्भे वरुणं ध्यायामि। वरुणं आवाहयामि।
वरुणाय नमः। आसनं समर्पयामि।

पाद्यं, अर्घ्यं, आचमनीयं, स्नानं, स्नानानन्तरमाचमनीयं, वस्त्रं, उपवीतं, गन्धं, गन्धोपरि अक्षतान्, पुष्पाणि समर्पयामि।

वरुणाय नमः। प्रचेतसे नमः। सुरूपिणे नमः। अपां पतये नमः। मकरवाहनाय नमः। जलाधिपतये नमः। पाशहस्ताय नमः। वरुणाय नमः। नानाविधपत्रपुष्पाणि समर्पयामि॥

धूपं, दीपं, नैवेद्यं, गुडोपहारं निवेदयामि। ताम्बूलं, मन्त्रपुष्पं, सुवर्णपुष्पम्। एवं षोडशोपचारान् कृत्वा।

उदकशान्तिजपः

उदकशान्तिजपकर्मणि ऋत्विजं त्वां वृणे। इत्यृत्विजो वृत्वा, (उदकशान्तिजपं कुरुध्वम्)

अथ ऋत्विग्भिः सह प्राणायामं कृत्वा, कुम्भमन्वारभ्य, शन्नो॑ दे॒वीरिति जपित्वा, सावित्रीं पच्छोऽर्धर्चशोऽनवानमुक्त्वा, वेदादीन् जपित्वा, कृ॒णु॒ष्व पाज॑ इत्यादि विष्ण॑वे॒ स्वाहा॑ य॒ज्ञाय॒ स्वाहा॑॑। प्र॒ति॒ष्ठायै॒ स्वाहा॑॑ इत्यन्तं, सुरभिमत्याऽब्लिङ्गाभिश्चतस्रो, वारुणीस्तिस्रो, हिरण्यवर्णा इति चतस्र ऋचः, पवमान इत्यनुवाकं, तच्छंयोरित्यनुवाकं, नमो॒ ब्रह्म॑ण इति परिधानीयां त्रिर्जपित्वा,

स्नापनम्

प्रणवेन कुम्भमुत्थाप्य, सुरभिमत्याऽब्लिङ्गाभिर्दे॒वस्य॑ त्वेति त्रिभिः पर्यायैश्च कर्तारं प्रोक्ष्य स्नापयेयुः। (स्नानाशक्तौ आदर्शच्छायाभिषेकं वा कुर्युः)

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे। अ॒श्विनो॑॑र्बा॒हुभ्या॑॑म्। पू॒ष्णो हस्ता॑॑भ्याम्।
अ॒श्विनो॒र्भैष॑ज्येन। तेज॑से ब्रह्मवर्च॒साया॒भिषि॑ञ्चामि॥१॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे। अ॒श्विनो॑॑र्बा॒हुभ्या॑॑म्। पू॒ष्णो हस्ता॑॑भ्याम्।
सर॑स्वस्त्यै॒ भैष॑ज्येन। वी॒र्या॑यां॒ नाद्या॑या॒भिषि॑ञ्चामि॥२॥

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे। अ॒श्विनो॑॑र्बा॒हुभ्या॑॑म्। पू॒ष्णो हस्ता॑॑भ्याम्।
इन्द्र॑स्येन्द्रि॒येण॑। श्रि॒यै यश॑से॒ बला॑या॒भिषि॑ञ्चामि॥३॥

अथ ऋत्विग्भ्यो हिरण्याद्युक्तदक्षिणां दद्यात्। आचार्याय विशेषतो दत्वा पश्चाद्वा कुम्भजलेन स्नायात्॥

इत्युदकशान्तिप्रयोगः॥