भूमिका

source: āpastambīya pūrvāpara prayoga
author: muddu śroutigal
publisher: swarnapuri (chennai) script: grantha

भो वैदिकाचारनिरताः पण्डितमूर्धन्याः विदितमेवात्रभवतां यन्महर्षिः किल भगवानापस्तम्बः श्रौतानामिव मोक्षोपायभूतानां स्मार्तानामपि कर्मणां प्रयोगनिर्णयार्थं “अथ कर्मान्याचारा”दित्यादिना कल्पसूत्रं कल्पयाञ्चकार। [तत्]तात्पर्यमपि सुदर्शनाचार्यः दर्शयाञ्चकार। […] इदानीं च श्रौते कर्मणि लुप्तप्रायेऽ[पि] स्मार्तानि विवाहादीनि कर्माणि सर्वैरप्या[चार्य]न्ते एवेत्यत्र न कस्यापि विवादः। पर[न्तु] तानि यथावदननुष्ठाय विपरीतफलभाजो भवन्ति। कुतः सर्वस्यापि प्रयोगस्य मूलभूतं पूर्वोक्तमार्षं ग्रन्थं सतात्पर्यं परिशीलयितुमसमर्थाः शुष्कश्रोत्रियाः अज्ञातकर्तृना[म]धेयं अनन्वितपदसन्दर्भं सूत्रतद्भाष्यशिष्टाचारविरुद्धमबद्धप्रायं किमपि पुस्तकं स्वल्पमूल्यमिति शरणीकुर्वाणाः उपाध्यायपदवीं प्राप्ताः सन्तः सर्वाणि गार्ह्याणि कर्माण्याकुलीकुर्वन्ति। अन्यैस्तु कैश्चिद्व्युत्पन्नैरपि अपरि[ज्ञा]तश्रौततया कर्मणां प्रकृतिविकृतिभाव-पौर्वापर्यादिज्ञानरहितैः स्वज्ञानानुगुणतया पदपदार्थान् योजयद्भिः तदनुसारेण प्रयोगग्रन्थं कल्पयद्भिः सर्वो लोक आकुलीक्रियते। इत्थमनुष्ठीयमानानि कर्माणि कथं यथोक्तफलदानि स्युः। एतादृशीं गार्ह्यकर्मणः प्राप्तां दुरवस्थां पर्यालोच्य सप्रमाणं समन्त्रकं त[त्त]त्र प्राचीनग्रन्थस्थदूषणविवेचनपुरस्सरं प्रयोगरत्नं सूत्रतद्भाष्यशिष्टाचारानुगुणतया सङ्गृह्य कथञ्चित् सममुद्रि। अत्र च

“पुराणमित्येव न साधु सर्वं न चापि नूनं नवमित्यवद्यम्।
सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥”

इति न्यायम्। “न हि पूर्वजो मूढ आसीदिति स्वेनापि मूढेन भवितव्यमिति” भगवत्पादवचनं चानुसृत्य आस्तिकवर्यैरसूयारहितैः श्रद्दधानैर्यथालिखितं दृष्ट्वा एतद्ग्रन्थमुद्रणे प्रवृत्तानामस्माकं प्रवृत्तिः स्फलीक्रियताम्। अनवधानतया प्राप्तं स्खलितं दृष्ट्वा “गुणदोषौ बुधो गृह्णन्निति” न्यायेन दोषं कण्ठे नियम्य गुणाश्च प्रकाश्यन्तामिति सविनयं प्रार्थये॥

इति शिवम्.
इत्थं विद्वद्विधेयः – मणक्काल् मुद्दुदीक्षितः.