अभ्युदयश्राद्धम्

source: āpastambīya pūrvāpara prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

सङ्कल्पः

ॐ अमुकनक्षत्रे ऽमुकराशौ जातस्यामुकस्य एतत्कर्माङ्गमभ्युदयश्राद्धं (पार्वणविधानेन) अद्य करिष्ये * इति सङ्कल्प्य

“नान्दीमुखं पिता कुर्यादाद्यपाणिग्रहावधि।
अत ऊर्ध्वं प्रकुर्वीत स्वयमेव तु नान्दिकम्॥”

नान्दीश्राद्धं क्वचिद्विषये तन्त्रेण कार्यम्। न त्वावृत्त्या

“एकदा क्रियमाणानामनेकशुभकर्मणाम्।
वृद्ध्यङ्कुरप्रतिसरान् सकृदेव समाचरेत्॥”

नान्दीमुखं पिता कुर्यात्। पितुरभावे ज्येष्ठभ्रातादिः कुर्यात्। ज्येष्ठभ्रात्राद्यसंभवे व्रतसमावर्तनादौ स्वयमेव कुर्यात्। जीवत्पितुर्नान्दीश्राद्धे “पितुर्या देवताः प्रोक्तास्ता एवात्रैव देवताः” इति

विप्राणां सङ्ख्या

अत्र उद्देश्यदेवताः सत्यवसुसंज्ञकविश्वदेवार्थे प्रतिवर्गं द्वौ द्वौ निमन्त्रयेत्। मात्रादीनां नवानामेकैकस्य द्वौ द्वौ आहत्य चतुर्विंशति (२४) इति मुख्यः कल्पः। अथानुकल्पः। विश्वदेवार्थे द्वौ मात्रादीनां त्रयाणां वर्गाणां प्रतिवर्गं द्वौ द्वौ वा निमन्त्रयेत्। अत्राष्टौ विप्राः (८) संपद्यन्ते।    

परिभाषाः

अत्रोपवीती प्राङ्मुखः प्रदक्षिणं दक्षिणं जान्वाच्य, सर्वं कुर्यात्। सङ्कल्पावाहनादिषु नान्दीमुखशब्देन पितरो विशेष्याः। प्रागग्रा ऋजवो युग्मा आमुलाग्रदर्भाः तिलसाध्ये यवाः कार्याः। स्वधाशब्दे स्वाहाशब्दः प्रयोक्तव्यः। पृषदाज्यं हविः॥

वरणम्

अथ वरणम्। अमुककर्माङ्गभूते अभ्युदयश्राद्धे नान्दीमुखसत्यवसुसंज्ञकानां विश्वेषां देवानामिदमासनम्। नान्दीमुख-मातृ-पितामही-प्रपितामहीनामिदमासनम्। नान्दीमुख-पितृ-पितामह-प्रपितामहानामिदमासनम्। नान्दीमुख-मातामह-मातुःपितामह-मातुःप्रपितामहानामिदमासनम्। प्रत्येकं द्वौ द्वौ वृत्वा, मण्डलकरणं, पादप्रक्षालनं, आसनं, आवाहनं, दर्भद्वयेन पवित्रं कृत्वा, गन्धपुष्पफलाक्षतमिश्रं यवोदकमर्घ्यं गृहीत्वा, यवोसि सोमदेवत्य इत्यूहः नान्दीमुखाः पितरः प्रीयन्तामित्यनेन मन्त्रेण पात्रान्तरेणोपयम्य, द्विवारं यवोदकं प्रत्येकं दत्वा, वस्त्रगन्धादिभिरलङ्कृत्य (उद्ध्रियतामित्यनुज्ञाप्य) -

अग्निमुपसमाधायेत्यादि मुखान्तं कृत्वा, यन्मे मातेत्यादि वर्गद्वयस्य हुत्वा, स्विष्टकृदादि होमशेषं समाप्य, एष ते नान्दीमुख ततेत्यादि वर्गद्वयस्य चाभिमृश्य, स्थलशुद्धिः, भोजनपात्रमित्यादि। सर्वान् पदार्थान् पृषदाज्येन संसृज्य, द्विरुपस्तीर्य, द्विरभिघारयति। भुक्तवत्स्वाशयान्तेषु दध्योदनं संप्रकीर्य, ताम्बूलं दक्षिणां च दत्वा, नान्दीमुखाः पितरः प्रीयन्तामिति वाचयित्वा, स्वधायाः स्थाने दक्षिणं जानुं भूमौ निधाय सव्यमुद्धृत्य, इडा देव हूरिति जपित्वा, नान्दीमुखाः पितरः प्रीयन्तामित्यपो निनीय, ब्राह्मणानुत्थाप्य, अनुव्रज्य, प्रदक्षिणीकृत्य, पुनरेत्य, दक्षिणेनाग्निं चतुर्धा प्रागग्रान् दर्भान् संस्तीर्य, तेषु यवोदकमुसिच्य, पृषदाज्यबदरीफलमिश्रं मन्त्रवदेकं पिण्डं तूष्णीमेकं पिण्डं एवं चतुर्विंशतिपिण्डान् दत्वा, पुत्रान् पौत्रानिति द्विः प्रदक्षिणं परिषिच्य, निवेद्य, पिण्डानुद्वासयेत्। ततः पुण्याहं कुर्यात्॥  

अथ गौणकल्पः

मुख्यकल्पासम्भवे, द्विगुणेनामेन चतुर्गुणेन हिरण्येन वा कुर्यात्। एतत्कर्माङ्गमभ्युदयश्राद्धं हिरण्यरूपेण करिष्ये, इति सङ्कल्प्य, पूर्ववद् वृत्वा, पादप्रक्षालनगन्धादि दत्वा, ब्राह्मणानां पुरतो हिरण्यं निधाय, हिरण्यश्राद्धोक्तवद् ब्राह्मणेभ्यो दद्यात्। हिरण्यश्राद्धपक्षे पिण्डदानं न कुर्यात्।

इति नान्दीश्राद्धविधिः॥