भीमरथशान्तिः

॥ अथ शौनकोक्तभीमरथशान्तिक्रमः (शान्तिरत्नाकरे)॥

शौनकोऽहं प्रवक्ष्यामि शान्तिं भीमरथाभिधाम्।
जननात् सप्ततौ वर्षे मृत्युर्भीमरथो भवेत्॥१॥

षण्मासान् मृत्युमाप्नोति धनहानिस्तथैव च।
पुत्रदारादिनाशश्च द्रव्यधान्यपशुक्षयः॥२॥

तद्दोषशमनार्थाय शान्तिं कुर्याद्विधानतः।
जन्ममासे जन्मदिने जन्मर्क्षे वा बलान्विते॥३॥

देवालये नदीतीरे स्वगृहे वा शुभस्थले।
पुण्याहं वाचयित्वाऽऽदौ कुर्यान्नान्दीमुखं ततः॥

आचार्यं वरयित्वाऽथ ऋत्विजो वरयेदथ॥
गृहस्यैशानदिग्भागे मण्डपं कारयेदथ॥४॥

व्रीहिभारं विनिक्षिप्य तण्डुलं तु तदर्धकम्।
तदर्धं तिलभारं च पद्ममष्टदलं लिखेत्।
तस्योपरि न्यसेत् कुम्भान् तन्तुवस्त्रादिवेष्टितान्॥५॥

ह्रींकारोपरि विन्यस्य भीमं मृत्युञ्जयं यजेत्।
पलमात्रसुवर्णेन तदर्धार्धेन वा पुनः॥६॥

अधिप्रत्यधिदेवौ च तदर्धेन प्रकल्पयेत्।
इन्द्रादिलोकपालांश्च दुर्गाः सूर्यादिकान् ग्रहान्।
उपचारैः षोडशभिः प्रधानं देवमर्चयेत्॥८॥

स्तुहि श्रुतेन मन्त्रेण अधिप्रत्यधिदेवते।
ब्रह्मजज्ञानमन्त्रेण तद्विष्णोरिति मन्त्रतः॥
यथोक्तपूजां कृत्वाऽथ तत्तन्मन्त्रान् जपेत् क्रमात्॥९॥

वेदपारायणं कुर्यात् तथाद्वा(?)रजपं चरेत्॥
नमकं चमकं चैव श्रीसूक्तं भूमिसूक्तकम्॥१०॥

मण्डपात् पश्चिमे भागे कुण्डं स्याच्चतुरश्रकम्।
स्वसूत्रोक्तेन मार्गेण ह्याज्यभागान्तमाचरेत्॥

नवग्रहोक्तमन्त्रैश्च तत्तद्धोमं समाचरेत्।
प्रधानमन्त्रकैः कुर्यात् समिच्चर्वाज्यहोमकम्॥१२॥

अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा।
प्रधानहोमः कर्तव्यस्तिलहोमस्तथैव च॥

अधिप्रत्यधिदेवौ च प्रधानादर्धसङ्ख्यया।
त्रैयम्बकेन मन्त्रेण दूर्वाहोमं च कारयेत्॥१४॥

इन्द्रादिलोकपालांश्च हुत्वा साद्गुण्यदेवताः।
ततस्विष्टकृतं हुत्वा होमशेषं समापयेत्॥१५॥

यजमानाभिषेकं तु कुर्युराचार्यकादयः।
यजमानस्त्वलङ्कृत्य ह्याज्यावेक्षणमाचरेत्॥१६॥

कुम्भदानं ततः कुर्याद्दशदानानि कारयेत्।
दीनान्धकदरिद्रेभ्यो भूरिदानं तु कारयेत्॥१७॥

ब्राह्मणान् भोजयेत् पश्चादाशिषो वाचयेदथ।
सर्वदुःखनिवृत्तिः स्यात् सर्वदा सुखमश्नुते॥१८॥

शत्रवोऽपि विनश्यन्ति पुत्रपौत्रादिवर्धने।
हरिमेव स्मरेन्नित्यं कर्माद्यन्ते विशेषतः॥१९॥
इति श्रीबृहच्छौनकीये भीमरथशान्तिः