प्रतिसरबन्धः

source: āpastambīya pūrvāpara prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

Contents

  • सङ्कल्पः
  • वरुणपूजा
  • सूत्रस्थापनम्
  • जपः
  • जपान्ते
    • कृणुष्व पाज इत्यनुवाकः
    • अग्ने यशस्विन्निति चतस्रः
    • हिरण्यवर्णा इत्यनुवाकः
    • पवमान इत्यनुवाकः
    • वरुणसूक्तम्
    • रुद्रसूक्तम्
    • ब्रह्मसूक्तम्
    • विष्णुसूक्तम्
    • दुर्गासूक्तम्
    • श्रीसूक्तम्

पुंसां - अन्नप्राशनचौलोपनयनस्नानेषु विवाहे पुनरुद्वाहे च प्रतिसरबन्धं कुर्यात्।
स्त्रीणां - पुंसुवनसीमन्तोन्नयनान्नप्राशनचुडोद्वाहेषु कुर्यात्।

यस्मिन्दिने नान्दीमुखं कुर्यात् तस्यां रात्र्यां प्रदोषान्ते प्रतिसरबन्धं कुर्यात्॥

सङ्कल्पः

अमुकनक्षत्रे ऽमुकराशौ जातस्यामुकशर्मणो ऽमुकस्य अमुककर्माङ्गं बोधायनोक्तप्रकारेण प्रतिसरबन्धकर्म करिष्ये। उदकशान्तिवच्छुचौ समे देश इत्यादि कुम्भं प्रतिष्ठाप्यालङ्कृत्य 

शुचौ समे देशे गोमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य, सैकतवद्द्रोणपरिमित-व्रीहिभिः स्थण्डिलं कृत्वा, तदुपरि तण्डुलराशिं निक्षिप्य,

उल्लेखनम्

तस्मिन् प्रादेशमात्रं चतुरश्रं दर्भैस्त्रिः प्राचीनमुल्लेखेत्।

(मध्ये)
ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द्वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑॥

(ब्रह्म॑ - ज॒ज्ञा॒न॒म् - प्र॒थ॒मम् - पु॒रस्ता॒॑॑त् - वि सी॑म॒तः - सु॒रुचः॑ - वे॒न आ॑वः।
स बु॒ध्नियाः॑॑ - उ॒प॒माः - अ॒स्य॒ वि॒ष्ठाः - स॒तश्च॑ - योनि॑॑म् - अस॑तश्च - विवः॑॥)

(दक्षिणतः)
नाके॑ सुप॒र्णमु॑प॒यत्पत॑न्तꣳ हृ॒दा वेन॑न्तो अ॒भ्यच॑क्षतत्वा।
हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युम्॥

(नाके॑ - सु॒प॒र्णम् - उप॒यत् - पत॑न्तम् - हृ॒दा - वेन॑न्तः - अ॒भ्यच॑क्षतत्वा।
हिर॑ण्यपक्षम् - वरु॑णस्य - दू॒तं - य॒मस्य॑ - योनौ॑ - शकु॒नम् - भु॒र॒ण्युम्॥)

(उत्तरतः)
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम्।
भवा॒ वाज॑स्य सङ्ग॒थे॥

(आ प्या॑यस्व - समे॑तु ते - वि॒श्वतः॑ - सो॒म॒ - वृ॒ष्णि॑यम्।
भवा॒ वाज॑स्य - स॒ङ्ग॒थे॥)

अथ त्रिरुदीचीनमुल्लिखेत्। (मध्ये)
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥

यो रु॒द्रः - अ॒ग्नौ - यो अ॒प्सु - य ओष॑धीषु - यो रु॒द्रः - विश्वा॑॑ - भुव॑ना - आ॒वि॒वेश॑ - तस्मै॑ - रु॒द्राय॑ - नमो॑ अस्तु॥

अप उपस्पृश्य,

(पश्चिमतः)
इ॒दं विष्णु॒र्विच॑क्रमे त्रे॒धा नि द॑धे प॒दम्। समू॑ढमस्य पाꣳसु॒रे॥

(इ॒दम् - विष्णुः॑ - विच॑क्रमे - त्रे॒धा - नि द॑धे - प॒दम्। समू॑ढम् - अ॒स्य॒ - पा॒ꣳ॒सु॒रे॥)

(पुरस्तात्)
इन्द्रं॒ विश्वा॑ अवीवृधन् समु॒द्र व्य॑चसं॒ गिरः॑। र॒थीत॑मꣳ रथी॒नां वाजा॑ना॒ꣳ सत्प॑तिं॒ पति॑॑म्।

इन्द्र॑॑म् - विश्वाः॑॑ - अ॒वी॒वृ॒ध॒न् - स॒मु॒॒द्र॒ व्य॑चसम् - गिरः॑। र॒थीत॑मम् - र॒थी॒नाम् - वाजा॑नाम् - सत्प॑तिम् - पति॑॑म्।

दर्भान्निरस्य, अप उपस्पृश्य   

कुम्भस्थापनम्

दूर्वाक्षतफलैरवकीर्य, गन्धोदकेनाभ्युक्ष्य, पुष्पैरवकीर्य, प्रागग्रान् दर्भान् संस्तीर्य, तन्तुवेष्टितं सुधूपितं कुम्भमद्भिः प्रोक्ष्य, ब्रह्म॑ जज्ञा॒नमित्यृचा स्थण्डिले कुम्भं निधाय, तस्मिन् गायत्र्या तिरःपवित्रमुदगग्रं निधाय, व्याहृतीभिः शुद्धोदकैः पूरयित्वा,

अभिमन्त्रणम्

आपो॒ वा इ॒दꣳ सर्वं॒ विश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपो ऽन्न॒मापो ऽमृ॑त॒मापः॑ स॒म्राडापो॑ वि॒राडापः॑ स्व॒राडाप॒श्छन्दा॒ꣴ॒स्यापो॒ ज्योती॒ꣴष्यापो॒ यजू॒ꣴष्यापः॑ स॒त्यमापः॒ सर्वा॑ दे॒वता॒ आपो॒ भूर्भुवः॒सुव॒राप॒ ओम्॥

आपो॒ वै - इ॒दम् - सर्व॑॑म् - विश्वा॑ भू॒तानि॑ - आपः॑ - प्रा॒णा वै - आपः॑ - प॒शव॒ आपः॑ - अन्न॒मापः॑ - अ॒मृत॒मापः॑ - स॒म्राडापः॑ - वि॒राडापः॑ - स्व॒राडापः॑ - छन्दाꣳ॑सि - आपः॑ - ज्योतीꣳ॑सि - आपः॑ - स॒त्यमापः॑ - सर्वाः॑॑ - दे॒वता॒ आपः॑ - भूर्भुवः॒सुवः॑ आप॒ ओम्॥

(१) अ॒पः प्रण॑यति। श्र॒द्धा वा आपः॑। श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
(२) अ॒पः प्रण॑यति। य॒ज्ञो वा आपः॑। य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति।
(३) अ॒पः प्रण॑यति। वज्रो॒ वा आपः॑। वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति।
(४) अ॒पः प्रण॑यति। आपो॒ वै र॑क्षो॒घ्नीः। रक्ष॑सा॒मप॑हत्यै।
(५) अ॒पः प्रण॑यति। आपो॒ वै द॒वानां॑॑ प्रि॒यं धाम॑। दे॒वाना॑मे॒व प्रि॒यं धाम॑ प्र॒णीय॒ प्रच॑रति।
(६) अ॒पः प्रण॑यति। आपो॒ वै सर्वा॑ दे॒वताः॑॑। दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति। अ॒पः प्रण॑यति।
(७) आपो॒ वै शा॒न्ताः। शा॒न्ताभि॑रे॒वास्य॒ शुच॑ꣳ शमयति॥
इत्यभिमन्त्र्य,

उत्पवनम्
त्रिः प्रागुत्पुनाति।
दे॒वो वः॑ सवि॒तोत्पु॑नातु। अच्छि॑द्रेण प॒वित्रे॑ण। वसोः॒ सूर्य॑स्य र॒श्मिभिः॑॥

(दे॒वो वः॑ - स॒वि॒ता - उत्पु॑नातु - अच्छि॑द्रेण - प॒वित्रे॑ण - वसोः॒ - सूर्य॑स्य - र॒श्मिभिः॑॥)

रत्ननिक्षेपणम्
[ऋ] स हि रत्ना॑॑नि दा॒शुषे॑॑ सु॒वाति॑ सवि॒ता भगः॑।
तं भा॒गं चि॒त्रमी॑॑महे॥

(स हि - रत्ना॑॑नि - दा॒शुषे॑॑ - सु॒वाति॑ - स॒वि॒ता भगः॑।
तं भा॒गम् - चि॒त्रम् - ई॒म॒हे॒॥) कुम्भरत्नं निक्षिप्य,

कूर्चनिधानम्
कूर्चाग्रै राक्षसान् घोरान् छिन्धि कर्मविघातिनः।
त्वामर्पयामि कुम्भेऽस्मिन् साफल्यं कुरु कर्मणि॥
कूर्चं निधाय

पल्लवैरवकीरणम्
वृक्षराजसमुद्भूताः शाखायाः पल्लवत्त्वचः।
युष्मान् कुम्भेष्वर्पयामि सर्वदोषापनुत्तये॥
चूतपल्लवैर्बिल्वपल्लवैर्वाऽवकीर्य।

अपिधानम्
नालिकेरसमुद्भूत त्रिणेत्र हरसंमत।
शिखया दुरितं सर्वं पापं पीडां च मे नुद॥
नालिकेरफलेनापिधाय। (ऊर्ध्वकूर्चं च निधाय)

वरुणपूजा

इ॒मं मे॑ वरुण, तत्त्वा॑यामीति द्वाभ्यां कुम्भे वरुणमावाह्य, आसनं दत्वा, पाद्यादि-निवेदनान्तं कृत्वा,

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥

तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑॑स्ते॒ यज॑मानो ह॒विर्भिः॑।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒मान॒ आयुः॒ प्रमो॑षीः॥ 

अस्मिन् कुम्भे वरुणं ध्यायामि। वरुणं आवाहयामि।
वरुणाय नमः। आसनं समर्पयामि।

पाद्यं, अर्घ्यं, आचमनीयं, स्नानं, स्नानानन्तरमाचमनीयं, वस्त्रं, उपवीतं, गन्धं, गन्धोपरि अक्षतान्, पुष्पाणि समर्पयामि।

वरुणाय नमः। प्रचेतसे नमः। सुरूपिणे नमः। अपां पतये नमः। मकरवाहनाय नमः। जलाधिपतये नमः। पाशहस्ताय नमः। वरुणाय नमः। नानाविधपत्रपुष्पाणि समर्पयामि॥

धूपं, दीपं, नैवेद्यं, गुडोपहारं निवेदयामि। ताम्बूलं, मन्त्रपुष्पं, सुवर्णपुष्पम्। एवं षोडशोपचारान् कृत्वा।

सूत्रस्थापनम्

उत्तरतः कांस्यपात्रे शालितण्डुलोपरि नवगुणितं हारिद्रगन्धानुलिप्तं कार्पाससूत्र भस्मताम्बूलसहितं निधाय,

जपः

प्रतिसरबन्धजपकर्मणि ऋत्विजं त्वां वृणे इति चतुरो वरान् वृत्वा, ऋत्विग्भिः सह कुम्भमन्वारभ्य, गायत्रीं पच्छोऽर्धर्चशो ऽन्वानमुक्त्वा, वेदादीन् जपित्वा, कृणुष्व पाज इत्येतमनुवाकं, अग्ने यशस्चिन्निति चतस्रः, दधिक्राव्ण्ण इत्यृचं, आपोहिष्ठेति तिस्रो, हिरण्यवर्णाः पवमान इत्यनुवाकौ, वरुणसूक्तं, रुद्रसूक्तं, ब्रह्मसूक्तं, विष्णुसूक्तं, दुर्गासूक्तं, श्रीसूक्तं च, नमो ब्रह्मण इति परिधानीयां त्रिर्जपित्वा

जपान्ते

वरुणमुद्वास्य, प्रणवेन कुम्भमुत्थाप्य, सुरभिमत्याब्लिङ्गाभिः कुम्भजलेन प्रतिसरसूत्रं प्रोक्ष्य, देवस्य त्वेति त्रिभिः पर्यायैः कर्तारं च प्रोक्ष्य, प्रतिसरसूत्रमादाय वामसताङ्गुष्ठानामिकाभ्यां मूले गृहीत्वा, वासुकिं ध्यात्वा, दक्षिणहस्ताङ्गुष्ठानामिकाभ्यां त्र्यम्बकं यजामह इति सकृन्मन्त्रेण द्विस्तूष्णीं भस्मना त्रिरूर्ध्वमुन्मृज्य, तण्डुलैरञ्जलिं पूरयित्वा, तदुपरि फलं तदुपरि सूत्रं च निधाय, अग्निरायुष्मानिति पञ्चभिः पर्यायैरङ्जलिमभिमन्त्र्य्, (ग्रहप्रीतिं कृत्वा)

पुरुषस्य दक्षिणे हस्ते, स्त्रीणां वामहस्ते सूत्रेण बध्नीयात्।

बृ॒हत्साम॑ क्षत्र॒भृद्वृ॒द्ध वृ॑ष्णियम्। त्रि॒ष्टुभौजः॑ शुभि॒तमु॒ग्रवी॑रम्।
इन्द्र॒स्तोमे॑न पञ्चद॒शेन॑। मध्य॑मि॒दं वाते॑न॒ सग॑रेण रक्ष॥
इति बद्ध्वा भस्मना यो ब्रह्म ब्रह्मण इति घृतसूक्तेन रक्षां कुर्यात्॥  

आचार्याय दक्षिणां दत्वा, ब्राह्मणेभ्यो दक्षिणान् दद्यात्। तत्तत्कर्मसमाप्तौ सायं सन्ध्यायां व्याहृतीभिर्बन्धनसूत्रं विस्रस्य नद्यां तटाकादौ वा त्यजेत्॥

इति प्रतिसरबन्धः॥

कृणुष्व पाज इत्यनुवाकः

कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वा॒ꣳ इभे॑न।
तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता॑ऽसि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः॥

तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः।
तपू॑ꣴष्यग्ने जु॒ह्वा॑ पत॒ङ्गानस॑न्दितो॒ विसृ॑ज॒ विष्व॑गु॒ल्काः॥

प्रति॒ स्पशो॒ विसृ॑ज॒ तूर्णि॑तमो॒ भवा॑ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः।
यो नो॑ दू॒रे अ॒घश॑ꣳ सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत्॥

उद॑ग्ने तिष्ठ॒ प्रत्याऽत॑नुष्व॒ न्य॑मित्रा॑ꣳ ओषतात् तिग्महेते।
यो नो॒ अरा॑तिꣳ समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क॑॑म्॥

ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒ विष्कृ॑णुष्व॒ दैव्या॑॑न्यग्ने।
अव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑॑ जा॒मिमजा॑मिं॒ प्र मृ॑णीहि॒ शत्रू॑न्॥

स ते॑ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त्।
विश्वा॑॑न्यस्मै सु॒दिना॑नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो॑ अ॒भि द्यौ॑॑त्॥

सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये॑न ह॒विषा॒ य उ॒क्थैः।
पिप्री॑षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ऽसास॑दि॒ष्टिः॥

अर्चा॑मि ते सुम॒तिं घोष्य॒र्वाक् सं ते॑ वा॒वाता॑ जरतामि॒यङ्गीः।
स्वश्वा॑॑स्त्वा सु॒रथा॑मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून्॥

इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा॑वस्तर्दीदि॒वाꣳस॒मनु॒ द्यून्।
क्रीड॑न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वाꣳसो॒ जना॑नाम्॥

यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे॑न।
तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा॑नु॒षग्जुजो॑षत्॥

म॒हो रु॑जामि ब॒न्धुता॒ वचो॑भि॒स्तन्मा॑ पि॒तुर्गोत॑मा॒दन्वि॑याय।
त्वं नो॑ अ॒स्य वच॑सश्चिकिद्धि॒ होत॑र्यविष्ठ सुक्रतो॒ दमू॑नाः॥

अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत॑न्द्रासोऽवृ॒का अश्र॑मिष्ठाः।
ते पा॒यवः॑ स॒ध्रिय॑ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर॥

ये पा॒यवो॑ मामते॒यं ते॑ अग्ने॒ पश्य॑न्तो अ॒न्धं दु॑रि॒तादर॑क्षन्।
र॒रक्ष॒ तान् सु॒कृतो॑ वि॒श्ववे॑दा॒ दिप्स॑न्त॒ इद्रि॒पवो॒ ना ह॑ देभुः॥

त्वया॑ व॒यꣳ स॑ध॒न्य॑स्त्वोता॒स्तव॒ प्रणी॑॑त्यश्याम॒ वाजा॑न्।
उ॒भा शꣳसा॑ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण॥

अ॒या ते॑ अग्ने स॒मिधा॑ विधेम॒ प्रति॒ स्तोम॑ꣳ श॒स्यमा॑नं गृभाय।
दहा॒शसो॑ र॒क्षसः॑ पा॒ह्य॑स्मान् द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात्॥

र॒क्षो॒हणं॑ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑।
शिशा॑नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा॑तु॒ नक्त॑॑म्॥

वि ज्योति॑षा बृह॒ता भा॑॑त्य॒ग्निरा॒विर्विश्वा॑नि कृणुते महि॒त्वा।
प्रादे॑वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी॑ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे॑॑॥

उ॒त स्वा॒नासो॑ दि॒वि ष॑न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑।

अग्ने यशस्विन्निति चतस्रः

अग्ने॑ यशस्वि॒न् यश॑से॒मम॑र्प॒येन्द्रा॑वती॒मप॑चितीमि॒हाऽव॑ह।
अ॒यं मू॒र्धा प॑रमे॒ष्ठी सु॒वर्चाः॑॑ समा॒नाना॑मुत्त॒मश्लो॑को अस्तु॥

भ॒द्रं पश्य॑न्त॒ उप॑ सेदु॒रग्रे॒ तपो॑ दी॒क्षामृष॑यः सुव॒र्विदः॑।
ततः॑ क्ष॒त्रं बल॒मोज॑श्च जा॒तं तद॒स्मै दे॒वा अ॒भि सं न॑मन्तु॥

धा॒ता वि॑धा॒ता प॑र॒मोत स॒न्दृक् प्र॒जाप॑तिः परमे॒ष्ठी वि॒राजा॑॑।
स्तोमा॒श्छन्दा॑ꣳसि नि॒विदो॑ म आहुरे॒तस्मै॑ रा॒ष्ट्रम॒भि सं न॑माम॥

अ॒भ्याव॑र्तध्व॒मुप॒ मेत॑ सा॒कम॒यꣳ शा॒स्ताऽधि॑पतिर्वो अस्तु।
अ॒स्य वि॒ज्ञान॒मनु॒ सꣳ र॑भध्वमि॒मं प॒श्चादनु॑ जीवाथ॒ सर्वे॑॑॥

हिरण्यवर्णा इत्यनुवाकः

हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑।
अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥

यासा॒ꣳ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्।
म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥

यासां॑॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति।
याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यताऽपः शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे।
सर्वा॑ꣳ अ॒ग्नीꣳर॑प्सु॒षदो॑ हुवो वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त॥

यद॒दः सं॑ प्रय॒तीरहा॒वन॑दता ह॒ते।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः॥

यत्प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभ॑ꣳ स॒मव॑ल्गत।
तदा॑॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन॥

अ॒प॒का॒मꣴ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक॑॑म्।
इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द् वार्णाम॑ वो हि॒तम्॥

एको॑ दे॒वो अप्य॑तिष्ठ॒त् स्यन्द॑माना यथाव॒शम्।
उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते॥

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः।
ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आ मा॑॑ प्रा॒णेन॑ स॒ह वर्च॑सा गन्॥

आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्यामा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम्।
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑॥

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से॥
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः॥

दि॒वि श्र॑यस्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या सं भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा॥

पवमान इत्यनुवाकः

पव॑मानः॒ सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः। यः पोता॒ स पु॑नातु मा। पु॒नन्तु॑ मा देवज॒नाः।
पु॒नन्तु॒ मन॑वो धि॒या। पु॒नन्तु॒ विश्व॑ आ॒यवः॑। जात॑वेदः प॒वित्र॑वत्। प॒वित्रे॑ण पुनाहि मा। शु॒क्रेण॑ देव॒ दीद्य॑त्। अग्ने॒ क्रत्वा॒ क्रतू॒ꣳरनु॑॥

यत् ते॑ प॒वित्र॑म॒र्चिषि॑। अग्ने॒ वित॑तमन्त॒रा। ब्रह्म॒ तेन॑ पुनीमहे। उ॒भाभ्यां॑॑ देवसवितः। प॒वित्रे॑ण स॒वेन॑ च। इ॒दं ब्रह्म॑ पुनीमहे। वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑॑त्। यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः। तया॒ मद॑न्तः सध॒माद्ये॑षु। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्॥

वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु। वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः। द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः। ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम्। बृ॒हद्भिः॑ सवित॒स्तृभिः॑। वर्षि॑ष्ठैर्देव॒मन्म॑भिः। अग्ने॒ दक्षैः॑॑ पुनाहि मा। येन॑ दे॒वा अपु॑नत। येनापो॑ दि॒व्यं कशः॑। तेन॑ दि॒व्येन॒ ब्रह्म॑णा॥

इ॒दं ब्रह्म॑ पुनीमहे। यः पा॑वमा॒नीर॒ध्येति॑। ऋषि॑भिः॒ संभृ॑त॒ꣳ रस॑॑म्। सर्व॒ꣳ स पू॒तम॑श्नाति। स्व॒दि॒तं मा॑त॒रिश्व॑ना। पा॒व॒मानीर्यो अ॒ध्येति॑। ऋषि॑भिः॒ संभृ॑त॒ꣳ रस॑॑म्। तस्मै॒ सर॑स्वती दुहे। क्षी॒रꣳ स॒र्पिर्मधू॑द॒कम्। पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः॥

सु॒दुघा॒ हि पय॑स्वतीः। ऋषि॑भिः॒ संभृ॑तो॒ रसः॑। ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्। पा॒व॒मा॒नीर्दि॑शन्तु नः। इ॒मं लो॒कमथो॑ अ॒मुम्। कामा॒न् सम॑र्धयन्तु नः। दे॒वीर्दे॒वैः स॒माभृ॑ताः। पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः। सु॒दुघा॒ हि घृ॑त॒श्चुतः॑। ऋषि॑भिः॒ संभृ॑तो॒ रसः॑॥

ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्। येन॑ दे॒वाः प॒वित्रे॑ण। आ॒त्मानं॑ पु॒नते॒ सदा॑॑। तेन॑ स॒हस्र॑धारेण। पा॒व॒मा॒न्यः पु॑नन्तु मा। प्रा॒जा॒प॒त्यं प॒वित्र॑॑म्। श॒तोद्या॑मꣳ हिर॒ण्मय॑॑म्। तेन॑ ब्रह्म॒विदो॑ व॒यम्। पू॒तं ब्रह्म॑ पुनीमहे। इन्द्रः॑ सुनी॒ती स॒ह मा॑ पुनातु। सोमः॑ स्व॒स्त्या वरु॑णः स॒मीच्या॑॑। यमो॒ राजा॑॑ प्रमृ॒णाभिः॑ पुनातु मा। जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु॥

वरुणसूक्तम्

उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा॑ध॒मं वि म॑ध्य॒मꣴ श्र॑थाय।
अथा॑ व॒यमा॑दित्य व्र॒ते तवाना॑गसो॒ अदि॑तये स्याम॥

अस्त॑भ्ना॒द् द्यामृ॑ष॒भो अ॒न्तरि॑क्ष॒ममि॑मीत वरि॒माणं॑ पृथि॒व्या।
आऽसी॑द॒द् विश्वा॒ भुव॑नानि स॒म्राड् विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑॥

यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने॑ऽभिद्रो॒हं म॑नु॒ष्या॑॑श्चरा॑मसि।
अचि॑त्ती॒ यत्तव॒ धर्मा॑ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः॥

कि॒त॒वासो॒ यद्रि॑रि॒पु र्न दी॒वि यद्वा॑ घा स॒त्यमु॒त यन्न वि॒द्म।
सर्वा॒ ता विष्य॑ शिथि॒रेव॑ दे॒वाथा॑ ते स्याम वरुण प्रि॒यासः॑॥

अव॑ ते॒ हेडो॑ वरुण॒ नमो॑भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑।
क्षय॑न्न॒स्मभ्य॑मसुर प्रचेतो॒ राज॒न्नेना॑ꣳसि शिश्रथः कृ॒तानि॑॥

तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑॑स्ते॒ यज॑मानो ह॒विर्भिः॑।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः॥

रुद्रसूक्तम्

परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः।
अव॑स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय॥

स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा॑नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम्।
मृ॒डा ज॑रि॒त्रे रु॑द्र॒ स्तवा॑नो अ॒न्यन्ते॑ अ॒स्मन्निव॑पन्तु॒ सेनाः॑॑॥

मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑क॒ बिभ्र॒दाग॑हि॥

अर्ह॑न् बिभर्षि॒ साय॑कानि॒ धन्व॑। अर्ह॑न्नि॒ष्कं य॑ज॒तं वि॒श्वरू॑पम्।
अर्ह॑न्नि॒दं द॑यसे॒ विश्व॒मब्भु॑वम्। न वा ओजी॑यो रुद्र॒ त्वद॑स्ति॥

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वꣳ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे।
त्वं वातै॑र्ररु॒णैर्या॑सि शङ्ग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑॑।

आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रꣳ होता॑रꣳ सत्य॒यज॒ꣳ रोद॑स्योः।
अ॒ग्निं पु॒रात॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम्॥

ब्रह्मसूक्तम्

ब्रह्म॑ जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॑॑त्। वि सी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः। स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑॥

पि॒ता वि॒राजा॑मृष॒भो र॑यी॒णाम्। अ॒न्तरि॑क्षं वि॒श्वरू॑प॒ आवि॑वेश।
तम॒र्कैर॒भ्य॑र्चन्ति व॒त्सम्। ब्रह्म॒ सन्तं॒ ब्रह्म॑णा व॒र्धय॑न्तः॥

ब्रह्म॑ दे॒वान॑जनयत्। ब्रह्म॒ विश्व॑मि॒दं जग॑त्।
ब्रह्म॑णः क्ष॒त्रं निर्मि॑तम्। ब्रह्म॑ ब्राह्म॒ण आ॒त्मना॑॑॥

अ॒न्तर॑स्मिन्नि॒मे लो॒काः। अ॒न्तर्विश्व॑मि॒दं जग॑त्।
ब्रह्मै॒व भू॒तानां॒ ज्येष्ठ॑॑म्। तेन॒ को॑ऽर्हति॒ स्पर्धि॑तुम्॥

ब्रह्म॑न् दे॒वास्त्रय॑स्त्रिꣳशत्। ब्रह्म॑न्निन्द्रप्रजाप॒ती।
ब्रह्म॑न् ह॒ विश्वा॑ भू॒तानि॑। ना॒वीवा॒न्तः स॒माहि॑ता॥

चत॑स्र॒ आशाः॒ प्रच॑रन्त्व॒ग्नयः॑। इ॒मं नो॑ य॒ज्ञं न॑यतु प्रजा॒नन्।
घृ॒तं पिन्व॑न्न॒जर॑ꣳ सु॒वीर॑॑म्। ब्रह्म॑ स॒मिद्भ॑व॒त्याहु॑तीनाम्॥

विष्णुसूक्तम्

विष्णो॒र्नु कं॑ वी॒र्या॑णि॒ प्र वो॑चं॒ यः पार्थि॑वानि विम॒मे
रजा॑ꣳसि॒ यो अस्क॑भाय॒दुत्त॑रꣳ स॒धस्थं॑ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः।

(विष्णो॑र॒राट॑मसि॒ विष्णोः॑॑ पृ॒ष्ठम॑सि॒ विष्णोः॒ श्नप्त्रे॑॑ स्थो॒
विष्णोः॒ स्यूर॑सि॒ विष्णो॑॑र्ध्रु॒वम॑सि वैष्ण॒वम॑सि॒ विष्ण॑वे त्वा॥)

तद॑स्य प्रि॒यम॒भि पाथो॑ अश्याम्। नरो॒ यत्र॑ देव॒यवो॒ मद॑न्ति।
उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था। विष्णोः॑॑ प॒दे प॑र॒मे मध्व॒ उत्सः॑॥

प्र तद्विष्णुः॑ स्तवते वी॒र्या॑य। मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु। अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑॑॥

प॒रो मात्र॑या त॒नुवा॑ वृधान। न ते॑ महि॒त्वमन्व॑श्नुवन्ति।
उ॒भे ते॑ विद्म॒ रज॑सी पृथि॒व्या विष्णो॑ देव॒ त्वम्। प॒र॒मस्य॑ वित्से॥

विच॑क्रमे पृथि॒वीमे॒ष ए॒ताम्। क्षेत्रा॑य॒ विष्णु॒र्मनु॑षे दश॒स्यन्।
ध्रु॒वासो॑ अस्य की॒रयो॒ जना॑सः। उ॒रु॒क्षि॒तिꣳ सु॒जनि॑मा चकार॥

त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒ताम्। विच॑क्रमे श॒तर्च॑सं महि॒त्वा।
प्र विष्णु॑रस्तु त॒वस॒स्तवी॑यान् त्वे॒षꣴ ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑॥

दुर्गासूक्तम्

जा॒तवे॑दसे सुनवाम॒ सोम॑मरातीय॒तो निद॑हाति॒ वेदः॑।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॑ ना॒वेव॒ सिन्धुं॑ दुरि॒ताऽत्य॒ग्निः॥

ताम॒ग्निव॑र्णां॒ तप॑सा ज्वल॒न्तीं वै॑रोच॒नीं क॑र्मफ॒लेषु॒ जुष्टा॑॑म्।
दु॒र्गां दे॒वीꣳ शर॑णम॒हं प्रप॑द्ये सु॒तर॑सि तरसे॒ नमः॑॥

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑॑।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शंयोः॥

विश्वा॑नि नो दु॒र्गहा॑ जातदेवः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताऽति॑ पर्षि।
अग्ने॑ अत्रि॒वन्मन॑सा गृणा॒नो॑॑ऽस्माकं॑ बोध्यवि॒ता त॒नूना॑॑म्॥

पृ॒त॒ना॒जित॒ꣳ सह॑मानमु॒ग्रम॒ग्निꣳ हु॑वेम पर॒मात् स॒धस्था॑॑त्।
स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा॒ क्षाम॑द्दे॒वो अति॑दुरि॒तात्य॒ग्निः॥

[ प्र॒त्नोषि॑ क॒मीड्यो॑ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑।
स्वां चा॑॑ग्ने त॒नुवं॑ पि॒प्रय॑स्वा॒स्मभ्यं॑ च॒ सौभ॑ग॒माय॑जस्व॥

गोभि॒र्जुष्ट॑म॒युजो॒ निषि॑क्तं॒ तवे॑॑न्द्र वि॑ष्णो॒रनु॒ संच॑रेम।
नाक॑स्य पृ॒ष्ठम॒भि सं॒वसा॑नो॒ वैष्ण॑वीं लो॒क इ॒ह मा॑दयन्ताम्॥ ]

श्रीसूक्तम्

हिर॑ण्यवर्णां॒ हरि॑णीं सुव॒र्णर॑ज॒तस्र॑जाम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

तां म॒ आव॑ह जातवेदो ल॒क्ष्मीमन॑पगा॒मिनी॑॑म्।
यस्या॒ हिर॑ण्यं वि॒न्देयं॒ गामश्व॒ पुरु॑षान॒हम्।

अ॒श्व॒पू॒र्वां र॑थम॒ध्यां ह॒स्तिना॑दप्र॒बोधि॑नीम्।
श्रियं॑ दे॒वीमुप॑ह्वये॒ श्रीर्मा॑दे॒वीर्जु॑षताम्।

का॒सो॒ऽस्मि॒तां हिर॑ण्यप्रा॒कारा॑मा॒र्द्रां ज्वल॑न्तीं तृ॒प्तां त॒र्पय॑न्तीम्।
प॒द्मे॒स्थि॒तां प॒द्मव॑र्णां तामि॒होप॑ह्वये॒ श्रिय॑॑म्।

च॒न्द्रां प्र॑भा॒सां य॒शसा॒ ज्वल॑न्ती॒ श्रियं॑ लो॒के दे॒वजु॑ष्टामुदा॒राम्।
तां प॒द्मिनी॑मी॒ शर॑णम॒हं प्रप॑द्येऽल॒क्ष्मीर्मे॑ नश्यतां॒ त्वां वृ॑णे।

आ॒दि॒त्यव॑र्णे॒ तप॒सोऽधि॑जा॒तो वन॒स्पति॒स्तव॑ वृ॒क्षोऽथ बि॒ल्वः।
तस्य॒ फला॑नि॒ तप॒सानु॑दन्तु मा॒यान्त॑रा॒याश्च॑ बा॒ह्या अ॑ल॒क्ष्मीः।

उपै॑तु॒मां दे॑वस॒खः की॒र्तिश्च॒ मणि॑ना स॒ह।
प्रा॒दु॒र्भू॒तोऽस्मि॑ राष्ट्रे॒ऽस्मिन् की॒र्तिमृ॑द्धिं द॒दातु॑ मे।

क्षुत्पि॑पा॒साम॑लां ज्ये॒ष्ठामल॒क्ष्मीं ना॑शया॒म्यहम्।
अभू॑ति॒मस॑मृद्धिं॒ च सर्वा॒न्निर्णु॑दमे॒ गृहात्।

गन्ध॑द्वा॒रां दु॑राध॒र्षां नि॒त्यपु॑ष्टां करी॒षिणी॑॑म्।
ई॒श्वरीं॑ सर्व॑भूतानां॒ तामि॒होप॑ह्वये॒ श्रिय॑॑म्।

मन॑सः॒ काम॒माकू॑तिं वा॒चः स॒त्यम॑शीमहि।
प॒शू॒नां रूप॑मन्न॒स्य मयि॒ श्रीः श्र॑यतां॒ यशः।

कर्द॑मे॒न प्र॑जाभू॒ता म॒यि सं॑भव॒कर्द॑ म।
श्रियं॑ वा॒सय॑ मे कु॒ले मा॒तरं॑ पद्म॒मालि॑नीम्।

आपः॑ सृ॒जन्तु॑ स्निग्धा॒नि चिक्ली॒तव॑समे॒ गृहे।
निच॑दे॒वीं मा॒तर॒ श्रियं॑ वा॒सय॑ मे कु॒ले।

आ॒र्द्रां पु॒ष्करि॑णीं पु॒ष्टिं सु॒वर्णां॑॑ हेम॒मालि॑नीम्।
सू॒र्यां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

आ॒र्द्रां यः॒ करि॑णीं य॒ष्टिं पि॒ङ्गलां॑॑ पद्म॒मालि॑नीम्।
च॒न्द्रां हि॒रण्म॑यीं ल॒क्ष्मीं जात॑वेदो म॒ आव॑ह।

ता म॒ आव॑ह॒ जात॑वेदो ल॒क्ष्मीमन॑पगा॒मिनी॑॑म्।
यस्या॒ हिर॑ण्य॒ प्रभू॑तं॒ गावो॑ दा॒स्योश्वा॑॑न् वि॒न्देय॒ पुरु॑षान॒हम्॥