नूतनगृहप्रवेशकालिकवास्तुशान्तिः

अथ नूतनगृहप्रवेशकालिकवास्तुशान्तिः (शान्तिकुसुमाकरे)

यजमानः स्वस्य ताराबलचन्द्रबलादियुक्ते शुभे दिवसे दूर्वाक्षतहरितकुशपाणिः स्वेष्टदेवतां पुरस्कृत्य क्षीरतण्डुलतीर्थघटैः सह नूतनगृहं वेदविद्भिर्घुष्यमाणवेदमन्त्रैर्वाद्यघोषैश्च सह प्रविश्य ब्राह्मणैरभ्यनुज्ञातो विनायकं पूजयित्वा

… नक्षत्रे … राशौ जातस्य … शर्मणो मम सहकुटुम्बस्य सर्वदुरितोपशान्त्यर्थं अस्य नूतनगृहस्य विनायकमरिचादिदुष्टग्रहावेशनिवृत्तिद्वारा सर्वाभीष्टसिद्ध्यर्थं नूतनगृहप्रवेशं करिष्य इति सङ्कल्प्य

विनायकमुद्वास्य नवग्रहान् प्रीणयित्वा पुनः वास्तुशान्त्यर्थे सङ्कल्पं कुर्यात्। अस्य नूतनगृहस्य आधारभूतस्य क्षेत्रस्य वास्तुपुरुषस्थित्यादिदोषमनुचिन्त्य निर्मितत्वेन सञ्जनितवास्तुपुरुषप्रकोपशान्तिद्वारा गृहेऽस्मिन् सर्वविधदुरिताभावसिद्ध्यर्थं तद्द्वारा मम सर्वमनोरथसिद्ध्यर्थं वास्तुशान्त्याख्यं कर्म करिष्ये। इति।

अथ पुण्याहं कृत्वा प्रस्थत्रयव्रीह्युपरि विन्यस्तप्रस्थमात्रे तण्डुलोपरि गङ्गादिपुण्यतीर्थजलपूरितं कुम्भं प्रतिष्ठाप्य कुम्भकार्यं कृत्वा वरुणं, त्र्यम्बकमिति आवोराजानमिति च मन्त्राभ्यां त्र्यम्बकरुद्रं चावाह्य तत्पुरस्तात् तण्डुलोपरि निक्षिप्तमिश्रिततिलमाषराशौ, सुवर्णरजतादिनिर्मितां प्रतिमां स्थापयित्वा सर्वाभावे दर्भपुञ्जीले वा वास्तोष्पते इति मन्त्रेण वास्तुपुरुषमावाह्य पूजयेत्॥

१) वास्तुपुरुषाय नमः
२) स्वस्तिदाय नमः
३) परमदयालवे नमः
४) पावनाय नमः
५) कमण्डलुधारिणे नमः
६) गृहाधीशाय नमः
७) गृहारामादिविहारिणे नमः
८) गृहदोषहराय नमः
९) भूतप्रेतादिनाशनाय नमः
१०) मृत्युदोषनिवारकाय नमः
११) मातापितृसमाय नमः
१२) रक्षोघ्नाय नमः
१३) भूम्यन्तरिक्षचराय नमः
१४) भानुतेजसे नमः
१५) विहारिणे नमः
१६) शुभप्रदाय नमः

इति षोडशभिर्नामभिरभ्यर्च्य घृतप्लुतमन्नं माषापूपान् पायसं च निवेद्य नीराजनान्ते समस्कृत्य पूजां समाप्य “वास्तुपुरुषः प्रीयता”मित्यक्षतैः सह जलं भुवि विसृज्य ब्राह्मणैः सह वक्ष्यमाणान् मन्त्रान् जपेत्॥

ते चेत्थम्॥ वास्तोष्पते प्रतिजानीहि, वाजोनः सप्त, एषां वा एतल्लोकानां, समिधमातिष्ठ गायत्री, अग्नये कामाय पुरोडाशं, विश्वरूपो वै, अग्निना तपोऽन्वभवद्वाचा इत्यादिप्रश्नशेषः, रुद्राध्यायः, चमकं, पुरुषसूक्तं, श्रीभूसूक्ते, मृत्युसूक्तं (३ अनुवाकाः), दुर्गासूक्तं, पञ्चशान्तयः, घोषशान्तिः इति॥

अथ स्वगृह्योक्तविधिना अग्निं प्रतिष्ठाप्य मुखान्तं हुत्वा वास्तोष्पत इति चतुष्पदया ऋचा वास्तुपुरुषाय पालाशाश्वत्थान्यतरसमिद्भिः शर्करान्नेन आज्येन च अष्टोत्तरशतमाहुतीर्हुत्वा, आदित्यादीन् ग्रहांश्चोद्दिश्य द्वादशद्वादशाहुतीः पूर्वोक्तैरेव द्रव्यैर्हुत्वा पुनःपूजां कृत्वा महाविधानेन नैवेद्यं कृत्वा नीराजनमन्त्रपुष्पप्रदक्षिणनमस्कारस्वर्णपुष्पैः पूर्वावाहिता आराध्य देवता उद्वासयेत्।

अथ होमाग्नौ पर्णबन्धनं प्रज्वाल्य गृहे सर्वेष्वपि प्रदेशेषु तज्ज्वालां संक्रमय्य कूपे तमग्निं शमयेत्। अथ घटस्थजलेन पर्णबन्धनाग्निज्वालासंक्रान्तप्रदेशान् प्रोक्ष्य फलदानं कृत्वा ब्राह्मणान् भोजयित्वा यथाशक्ति दक्षिणाताम्बूलादिकं दत्वा तैराशिषो वाचयेत्॥

इति गार्ग्योक्ता नूतनगृहप्रवेशकालिकवास्तुशान्तिः॥