सर्वरोगहरशान्तिः

अथ सर्वरोगहरशान्तिः (शान्तिकुसुमाकरे)

शौनकः –
सर्वरोगहरीं शान्तिं वक्ष्येऽहं शास्त्रसंमताम्।
पौर्णमास्याममायां वा कुर्यादेतां त्रिजन्मसु॥

अनुज्ञाप्य द्विजानादौ विघ्नेशं संप्रपूज्य च।
सङ्कल्प्य रोगनामोक्त्या चोद्वास्याथ गणाधिपम्॥

कृत्वा नवग्रहप्रीतिं नान्दीं पुण्याहमेव च।
आचार्यं वृणुयात् प्राज्ञं प्रार्थयेत्तं च सादरम्॥

अग्निं प्रतिष्ठाप्याचार्यो गृह्योक्तविधिना ततः।
हुत्वाऽज्यभाजौ च हविः श्रपयित्वा यथाविधिः॥

मुञ्चामि त्वेति सूक्तेन प्रत्यृचं जुहुयाद्धविः।
अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा॥

हुत्वा स्विष्टकृतं चाथ जयादि प्रतिपद्यते।
होमशेषं समाप्याग्निमुपस्थाय च भक्तितः॥

मानोमहान्तमित्यृग्भ्यां बलिं दत्वा च शेषतः।
ब्रह्मार्पितं कर्म कृत्वा चाचामेद्भक्तिसंयुतः॥

यावद्रोगस्य शान्तिः स्यात् प्रत्यहं जुहुयादिति।
महतोऽपि नरो रोगान्मुच्यते नात्र संशयः॥

इति सर्वरोगहरशान्तिः॥