शुक्लचतुर्थीव्रतम्

source: kalpa chintāmani
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

शुक्लचतुर्थीव्रतनिर्णयः

तिथिनिर्णये – विनायकव्रतानुष्ठाने मध्याह्ने व्यापिनी चतुर्थी ग्राह्या।

तदाह बृहस्पतिः –
चतुर्थी गणनाथस्य मातृविद्धा प्रशस्यते।
मध्याह्नव्यापिनी चेत्स्यात् परश्चेत् परेऽहनीति॥

मातृविद्धा तृतीयाविद्धा॥

स्मृत्यन्तरेपि –
मातृविद्धा प्रशस्ता स्याच्चतुर्थी गणनायके।
मध्याह्ने परतश्चेत् स्यान्नागविद्धा प्रशस्यते॥

(नागः पञ्चमी)

अथ चतुर्थीव्रतारम्भविधिः

पवित्रपाणिः सन् दक्षिणाताम्बूलं च गृहीत्वा ब्राह्मणान् नमस्कृत्य अशेषे हे परिषत् भवत्पादमूले मया समर्पितामिमां सौवर्णीं दक्षिणां यत्किञ्चिदपि यथोक्तदक्षिणामिव स्वीकृत्य,

मम जन्माभ्यासाज्जन्मभृत्येतत्क्षणपर्यन्तं मध्ये सम्भावितानां सर्वेषां पापानां सद्यः अपनोदनार्थं महागणपतिप्रीत्यर्थं महागणपतिप्रसादसिद्ध्यर्थं शुक्लचतुर्थीव्रतारम्भ कर्म कर्तुं योग्यतासिद्धिमनुगृहाण। (योग्यतासिद्धिरस्तु) विघ्नेश्वरपूजां कृत्वा।

शुक्लचतुर्थीव्रतारम्भकर्म करिष्ये॥ इति सङ्कल्प्य॥ विघ्नेश्वरमुद्वास्य। ग्रहप्रीतिं कृत्वा॥

पूजासङ्कल्पः

शुभे शोभने + शुभतिथौ मया आचरिष्यमाणस्य शुक्लचतुर्थीव्रतस्य + चतुर्थीपुण्यकाले महागणपतिपूजां करिष्ये॥ इति सङ्कल्प्य। कलशपूजां कृत्वा। यथाक्रमं पूजयेत्॥ इत्यारम्भविधिः॥

अथ चतुर्थीव्रतोद्यापनम्

भाद्रपदे मासि शुक्लपक्षे चतुर्थ्यां प्रातरुत्थाय व्रती पुण्यतीर्थे स्नात्वा शुभ्रवस्त्रधरः स्वपुण्ड्राङ्कितः स्वनित्यकर्माणि परिसमाप्य स्वगृहस्यैशानदिग्भागे गोमयेनोपलिप्य अरत्निमात्रं चतुरश्रं वेदिकां निर्माय कदलीस्तम्भतोरणरङ्गवल्ल्यादिभिरलङ्कृत्य वितानमध्ये भारव्रीहिस्तदर्धं तण्डुलान् तदर्धं माषांश्च तदर्धं तिलानुपर्युपरि निक्षिप्य तदुपरि पञ्चकलशान् संस्थाप्य (१) पञ्चपल्लवनालिकेर(२)कूर्चादिभिरलङ्कृत्य

(१) पञ्चपल्लवलक्षणम् –
पलाशोदुम्बरोऽश्वत्थजम्बूश्च वटपल्लवम्।
पञ्चपल्लवमाख्यातं पात्रमध्ये विनिक्षिपेत्॥

(२) कूर्चलक्षणम् –
षट्त्रिंशद्दर्भसङ्ख्यैश्च निर्मितं कूर्चमुत्तमम्।
दक्षिणावर्तरूपेण ग्रन्थिं चैवाङ्गुलद्वयम्॥
अग्रं वेदाङ्गमूलं प्रोक्तं नालमष्टादशं भवेत्।
कुम्भस्याग्रं समं कृत्वा कुम्भस्याग्रे विनिक्षिपेत्॥

सपवित्रपाणिः सन् दक्षिणाताम्बूलं च गृहीत्वा ब्राह्मणान् नमस्कृत्य, अशेषे हे परिषद्भवत्पादमूले मया समर्पितामिमां सौवर्णीं दक्षिणां यत्किञ्चिदपि यथोक्तदक्षिणामिव ताम्बूलं च स्वीकृत्य,

मम जन्माभ्यासात् जन्मप्रभृति एतत्क्षणपर्यन्तं मध्ये सम्भावितानां सर्वेषां पापानां सद्यः अपनोदनार्थं महागणपतिप्रीत्यर्थं महागणपतिप्रसादसिद्ध्यर्थं शुक्लचतुर्थीव्रतोद्यापनकर्म कर्तुं योग्यतासिद्धिमनुगृहाण॥ (योग्यतासिद्धिरस्तु) अप उपस्पृश्य॥

तदेव लग्नं सुदिनं तदेव + लक्ष्मीपते तेऽङ्घ्रियुगं स्मरामि॥

विघ्नेश्वरपूजां कृत्वा, शुभे शोभने + शुभतिथौ मम जन्माभ्यासादित्यादि, अस्माकं सहकुटुम्बानां क्षेमस्थैर्यवीर्यविजयायुरारोग्यैश्वर्याभिवृद्ध्यर्थं महागणपतिप्रसादेन दीर्घसौमङ्गल्यावाप्त्यर्थं मया आचरितस्य शुक्लचतुर्थीव्रतस्य उद्यापनकर्मणः कल्पोक्तसम्पूर्णसाङ्गफलसिद्ध्यर्थं एभिः ब्राह्मणैः सह कल्पोक्तप्रकारेण आचार्यमुखेन ऋत्विग्मुखेन च शुक्लचतुर्थीव्रतोद्यापनकर्म करिष्ये॥

विघ्नेश्वरमुद्वास्य॥ ग्रहप्रीतिं अभ्युदयं च कृत्वा॥

आचार्यवरणम्

अस्मिन् शुक्लचतुर्थीव्रतोद्यापनकर्मणि आचार्यं त्वां वृणे।

ऋत्विग्वरणम्

सिद्धिगणपतिप्रतिमापूजार्थं ऋत्विजं त्वां वृणे॥ विद्यागणपतिः॥ ज्ञानगणपतिः॥ मोक्षगणपतिः॥

महागणपतिपूजार्थं ऋत्विजं त्वां वृणे॥

आचार्यः मण्डपशुद्ध्यर्थं पुण्याहं वाचयित्वा पुण्याहजलेन कुम्भादिकान् संप्रोक्ष्य ऋत्विग्भिः सह आचार्यः प्रतिमापूजां करिष्य इति सङ्कल्प्य।

कलशपूजा

तदङ्गं कलशपूजां कृत्वा। कलशं गन्धपुष्पाक्षतैरभ्यर्च्य,

कलशस्य मुखे विष्णुः कण्ठे रुद्रः समाश्रितः।
मूले तत्र स्थितो ब्रह्मा मध्ये मातृगणाः स्मृताः॥

कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुन्धरा।
ऋग्वेदोऽथ यजुर्वेदः सामवेदोप्यथर्वणः॥
अङ्गैश्च सहिताः सर्वे कलशाम्बुसमाश्रिताः॥

गङ्गे च यमुने चैव गोदावरि सरस्वति।
नर्मदे सिन्धुकावेरि जलेऽस्मिन् सन्निधिं कुरु॥
आयान्तु महागणपतिपूजार्थं दुरितक्षयकारकाः।

पूजोपकरणानि प्रोक्ष्य, आत्मानं च प्रोक्ष्य॥ कुम्भे वरुणमावाहयेत्॥

अथ ध्यानम्

एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम्।
पाशाङ्कुशधरं देवं ध्यायेत् सिद्धिविनायकम्॥

उत्तमं गणनाथस्य व्रतं सम्पत्करं शुभम्।
भक्तानामिष्टदातारं सर्वमङ्गलकारकम्॥

ध्यायेद्गजाननं देवं तप्तकाञ्चनसन्निभम्।
चतुर्भुजं महाकायं सर्वाभरणभूषितम्॥

इति ध्यानम्॥

अत्रागच्छ जगद्वन्द्य सुराराजार्चितेश्वर।
अनाथनाथसर्वज्ञ गीर्वाणसुरपूजित॥ (१)
आवाहयामि॥

(१) गणानां त्वा गणपतिꣳ हवामहे कविं कवीनामुपमश्रवस्तमम्।
ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आनः शृण्वन्नूतिभिः सीद सादनम्॥
इति मन्त्रेण चावाहयेत्

(प्राणप्रतिष्ठां कुर्यात्)

अनेकरत्नखचितं मुक्तामणिविभूषितम्।
रत्नसिंहासनं चारु प्रीत्यर्थं प्रतिगृह्यताम्॥
आसनम्॥

गौरीपुत्र नमस्तेऽस्तु शङ्करप्रियनन्दन।
भक्त्या पाद्यं मया दत्तं गृहाण द्विरदानन॥
पाद्यम्॥

व्रतमुद्दिश्य विघ्नेश गन्धपुष्पाक्षतैर्युतम्।
गृहाणार्घ्यं मया दत्तं गजानन नमोऽस्तु ते॥
अर्घ्यम्॥

अनाथनाथ सर्वज्ञ देवराजसुपूजित।
गृहाणाचमनं देव भक्त्या दत्तं मया प्रभो॥
आचमनीयम्॥

दधिक्षीरसमायुक्तं मध्वाज्येन समन्वितम्।
मधुपर्कं गृहाणेदं गजवक्त्रं नमोऽस्तु ते॥
मधुपर्कम्॥

मध्वाज्यशर्करायुक्तं फलक्षीरसमन्वितम्।
गृहाण सर्ववरद भक्तानामिष्टदायक॥
पञ्चामृतस्नानम्॥

गङ्गादिसर्वतीर्थेभ्यः आहृतैर्विमलैर्जलैः।
स्नानं कुरुष्व भगवन् उमापुत्र नमोऽस्तु ते॥
शुद्धोदकस्नानम्॥ (१) स्नानानन्तरं आचमनीयं समर्पयामि॥

(१) तत्पुरुषाय विद्महे वक्रतुण्डाय धीमहि। तन्नो दन्तिः प्रचोदयात्॥ इत्यष्टोत्तरशतं जपित्वा॥ श्रीरुद्रं चमकं चैव पौरुषं सूक्तमेव च। श्रीसूक्तं पवमानं च भूसूक्तं शान्तिपञ्चकम्॥ एतैः जपः कर्तव्यः॥

रक्तवस्त्रद्वयं देव देवराज सुपूजित।
भक्त्या दत्तं गृहाणेदं लम्बोदर हरात्मज॥
वस्त्रयुग्मम्॥

राजतं ब्रह्मसूत्रं च काञ्चनं चोत्तरीयकम्।
गृहाण सर्वधर्मज्ञ भक्तानामिष्टदायक॥
उपवीतम्॥

चन्दनागरुकर्पूरकस्तूरीकुङ्कुमान्वितम्।
विलेपनं सुरश्रेष्ठ प्रीत्यर्थं प्रतिगृह्यताम्॥
गन्धम्॥

अक्षतान् धवलान् दिव्यान् शालीयांस्तण्डुलान् शुभान्।
हरिद्राचूर्णसंयुक्तान् सङ्गृहाण गणाधिप॥
अक्षतान्॥

सुगन्धीनि सुपुष्पाणि जाजीकुन्दमुखानि च।
एकविंशतिपुष्पाणि गृहाण गणनायक॥
पुष्पानि समर्पयामि॥

अथाङ्गपूजा

गणेशाय नमः, पादौ पूजयामि।
एकदन्ताय नमः, गुल्फौ पूजयामि।
गौरीपुत्राय नमः, जङ्घे पूजयामि।
विघ्नराजाय नमः, जानुनी पूजयामि।
ब्रह्मचारिणे नमः, ऊरू पूजयामि।
हेरम्बाय नमः, कटिं पूजयामि।
पार्वतीनन्दनाय नमः, गुह्यं पूजयामि।
ईशपुत्राय नमः, मेढ्रं पूजयामि।
गणनाथाय नमः, उदरं पूजयामि।
विनायकाय नमः, पार्श्वौ पूजयामि।
विकटाय नमः, हृदयं पूजयामि।
स्थूलकण्ठाय नमः, कण्ठं पूजयामि।
स्कन्दाग्रजाय नमः, स्कन्धौ पूजयामि।
पाशहस्ताय नमः, हस्तान् पूजयामि।
चतुर्भुजाय नमः, बाहून् पूजयामि।
जगमुखाय नमः, मुखं पूजयामि।
एकदन्ताय नमः, दन्तौ पूजयामि।
अविघ्ननेत्राय नमः, नेत्रे पूजयामि।
लम्बकर्णाय नमः, कर्णौ पूजयामि।
फालचन्द्राय नमः, ललाटं पूजयामि।
उमापुत्राय नमः, नासिकां पूजयामि।
विघ्नहन्त्रे नमः, चुबुकं पूजयामि।
शुण्डादण्डाय नमः, ओष्ठौ पूजयामि।
हरसूनवे नमः, गण्डस्थलं पूजयामि।
गुहाग्रजाय नमः, कचान् पूजयामि।
सर्वेश्वराय नमः, शिरः पूजयामि।
विघ्नराजाय नमः, सर्वाण्यङ्गानि पूजयामि॥

अथैवविंशतिपत्रपूजा

सुमुखाय नमः, माचीपत्रं पूजयामि।
गणाधिपाय नमः, बृहतीपत्रं पूजयामि।
उमापुत्राय नमः, बिल्वपत्रं पूजयामि।
गजाननाय नमः, दूर्वायुग्मं पूजयामि।
हरसूनवे नमः, धुर्तूरपत्रं पूजयामि।
लम्बोदराय नमः, बदरीपत्रं पूजयामि।
गुहाग्रजाय नमः, अपामार्गपत्रं पूजयामि।
गजकर्णकाय नमः, तुलसीपत्रं पूजयामि।
एकदन्ताय नमः, चूतपत्रं पूजयामि।
विकटाय नमः, करवीरपत्रं पूजयामि।
भिन्नदन्ताय नमः, विष्णुक्रान्तपत्रं पूजयामि।
वटवे नमः, डाडिमीपत्रं पूजयामि।
द्विरदाननाय नमः, आमलकपत्रं पूजयामि।
फालचन्द्राय नमः, मरुवकपत्रं पूजयामि।
हेरम्बाय नमः, सिन्धूरपत्रं पूजयामि।
शूर्पकर्णाय नमः, जाजीपत्रं पूजयामि।
सुराग्रजाय नमः, गण्डलीपत्रं पूजयामि।
इभवक्त्राय नमः, शमीपत्रं पूजयामि।
विनायकाय नमः, भृङ्गराजपत्रं पूजयामि।
सुरपूजिताय नमः, अर्जुनपत्रं पूजयामि।
कपिलाय नमः, अर्कपत्रं पूजयामि।
श्रीगणेश्वराय नमः, एकविंशतिपत्रैः पूजयामि।

अथ एकविंशतिपुष्पपूजा॥

पञ्चास्यगणपतये नमः, जाजीपुष्पं समर्पयामि।
गणानां गणपतये नमः, सेवन्तिकापुष्पं समर्पयामि।
धीरगणपतये नमः, चम्पकपुष्पं समर्पयामि।
विष्वक्सेनगणपतये नमः, वकुलपुष्पं समर्पयामि।
आमोदगणपतये नमः, वाटलीपुष्पं समर्पयामि।
प्रथमगणपतये नमः, पुन्नागपुष्पं समर्पयामि।
रुद्रगणपतये नमः, द्रोणपुष्पं समर्पयामि।
विद्यागणपतये नमः, रसालपुष्पं समर्पयामि।
विघ्नगणपतये नमः, अमृणालं समर्पयामि।
दुरितगणपतये नमः, कल्हारपुष्पं समर्पयामि।
भक्तवत्सलगणपतये नमः, कमलपुष्पं समर्पयामि।
कामिकार्थप्रदगणपतये नमः, मल्लिकापुष्पं समर्पयामि।
सम्मोहगणपतये नमः, धुर्तूरपुष्पं समर्पयामि।
विष्णुगणपतये नमः, शम्याकपुष्पं समर्पयामि।
ईशास्यगणपतये नमः, अर्कपुष्पं समर्पयामि।
गजास्यगणपतये नमः, करवीरपुष्पं समर्पयामि।
सर्वसिद्धिगणपतये नमः, बिल्वपुष्पं समर्पयामि।
वीरगणपतये नमः, मन्दारपुष्पं समर्पयामि।
कन्दर्पगणपतये नमः, केतकीपुष्पं समर्पयामि।
उच्छिष्टगणपतये नमः, पारिजातपुष्पं समर्पयामि।
ब्रह्मगणपतये नमः, डाडिमीपुष्पं समर्पयामि।

अथैकविंशति दूर्वायुग्मपूजा

गणाधिपतये नमः, दूर्वायुग्मं समर्पयामि
पाशाङ्कुशधराय नमः, दूर्वायुग्मं समर्पयामि
आखुवाहनाय नमः, दूर्वायुग्मं समर्पयामि
विनायकाय नमः, दूर्वायुग्मं समर्पयामि
ईशपुत्राय नमः, दूर्वायुग्मं समर्पयामि
सर्वसिद्धिप्रदाय नमः, दूर्वायुग्मं समर्पयामि
एकदन्ताय नमः, दूर्वायुग्मं समर्पयामि
इभवक्त्राय नमः, दूर्वायुग्मं समर्पयामि
मूषिकवाहनाय नमः, दूर्वायुग्मं समर्पयामि
कुमारगुरवे नमः, दूर्वायुग्मं समर्पयामि
कपिलवर्णाय नमः, दूर्वायुग्मं समर्पयामि
ब्रह्मचारिणे नमः, दूर्वायुग्मं समर्पयामि
मोदकहस्ताय नमः, दूर्वायुग्मं समर्पयामि
सुरश्रेष्ठाय नमः, दूर्वायुग्मं समर्पयामि
गजनासिकाय नमः, दूर्वायुग्मं समर्पयामि
कपित्थफलप्रियाय नमः, दूर्वायुग्मं समर्पयामि
गजमुखाय नमः, दूर्वायुग्मं समर्पयामि
सुप्रसन्नाय नमः, दूर्वायुग्मं समर्पयामि
उमापुत्राय नमः, दूर्वायुग्मं समर्पयामि
स्कन्दप्रियाय नमः, दूर्वायुग्मं समर्पयामि

धूपम् –
दशाङ्गं गुग्गुलोपेतं सुगन्धं च मनोहरम्।
धूपं दास्यामि देवेश गृहाण त्वं गजानन॥
विघ्नेश्वराय नमः, धूपमाघ्रापयामि॥

दीपम् –
साज्यं त्रिवर्तिसंयुक्तं वह्निना योजितं मया।
गृहाण मङ्गलं दीपं ईशपुत्र नमोऽस्तु ते॥
विघ्नेश्वराय नमः, दीपं दर्शयामि॥

नैवेद्यं षड्रसोपेतं फललड्डुकमोदकान्।
भक्ष्यं भोज्यं च लेह्यं च संगृहाण गणाधिप॥
नैवेद्यम्॥ आचमनीयम्॥

पानीयं पावनं श्रेष्ठं गङ्गादिसरिदाहृतम्।
हस्तप्रक्षालनार्थं त्वं संगृहाण गणाधिप॥
हस्तप्रक्षालनम्॥

पूगीफलसमायुक्तं नागवल्लीदलैर्युतम्।
कर्पूरचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम्॥
ताम्बूलम्॥

नीराजनं सुमाङ्गल्यं सर्वमङ्गलकारणम्।
गृहाण परया भक्त्या अर्पितं ते निवायक॥
नीराजनम्॥ आचमनीयम्॥

जाजीचम्पकपुन्नागमल्लिकावकुलादिभिः।
पुष्पाञ्जलिं प्रदास्यामि गृहाण द्विरदानन॥
पुष्पाञ्जलिम्॥

योऽपां पुष्पमिति मन्त्रपुष्पम्॥

यानि कानि चेति प्रदक्षिणम्॥

प्रदक्षिणं करिष्यामि सततं मोदकप्रिय।
मद्विघ्नं हर मे श्रीघ्रं भक्तानामिष्टदायक॥

आखुवाहन देवेश विश्वव्यापिन् गजानन।
प्रदक्षिणं करोमि त्वां सर्वैश्वर्यप्रदो भव॥
इति प्रदक्षिणं कृत्वा॥

नमो नमो गणेशाय नमस्ते विश्वरूपिणे।
निर्विघ्नं कुरु मे देव नमामि त्वां गजानन॥

अगजाननपद्मार्कं गजाननमहर्निशम्।
अनेकदन्तं भक्तानामेकदन्तमुपास्महे॥

नमस्ते भिन्नदन्ताय नमस्ते हरसूनवे।
ममाभीष्टप्रदो देव विनायक नमोऽस्तु ते॥
इति नमस्कृत्य॥

प्रसीद देवदेवेश प्रसीद गणनायक।
ईप्सितं मे वरं देहि परत्र च परां गतिम्॥

विनायक वरं देहि सततं मोदकप्रिय।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
इति प्रार्थयेत्॥

स्वर्णपुङ्खसमायुक्तं मुक्ताजालसमन्वितम्।
श्वेतपट्टातपत्रं च प्रददामि गणाधिप॥
आतपत्रं समर्पयामि॥

वज्रवैधूर्यखचितं शरच्चन्द्रसमप्रभम्।
चमरीमृगवालव्यं चामरं त्वं गृहाण भो॥
चामरम्॥

उशीरनिर्मितं देव व्यजनं स्वेदशान्तये।
प्रददामि गणाध्यक्ष सन्तुष्टो भव सर्वदा॥
व्यजनम्॥

आन्दोलिकां समर्पयामि॥ समस्तराजोपचारान् समर्पयामि॥

क्षीरार्घ्यप्रदानम्

शुभे शोभने मुहूर्ते + शुभतिथौ मया आचरित शुक्लचतुर्थीव्रतोद्यापनकर्मणि महागणपतिपूजान्ते क्षीरार्घ्यप्रदानं करिष्य इति सङ्कल्प्य॥

हस्ते साक्षतपुष्पं क्षीरं च गृहीत्वा *

अर्घ्यं गृहाण हेरम्ब सर्वप्रद विनायक।
गन्धपुष्पाक्षतैर्युक्तं भक्त्या दत्तं मया प्रभो॥
विघ्नेश्वराय नमः, इदमर्घ्यम्॥

नमस्तुभ्यं गणेशाय नमस्ते विघ्ननायक।
पुनरर्घ्यं प्रदास्यामि चतुर्थ्यां गणनायक॥
विघ्नेश्वराय नमः, इदमर्घ्यम्॥

नमस्ते भिन्नदन्ताय नमस्ते हरसूनवे।
इदमर्घ्यं प्रदास्यामि संगृहाण गणाधिप॥
विघ्नेश्वराय नमः, इदमर्घ्यम्॥

अनेन अर्घ्यप्रदानेन भगवान् सर्वात्मकः श्रीमहागणपतिः प्रीयताम्॥

उपायनदानम्

अद्य पूर्वोक्त + शुभतिथौ महागणपतिप्रीत्यर्थं महागणपतिपूजासाङ्गफलसिद्ध्यर्थं उपायनदानं करिष्ये॥

महागणपतिस्वरूपस्य ब्राह्मणस्य इदमासनम्॥

गणेशः प्रतिगृह्णाति गणेशो वै ददाति च।
गणेशस्तारको द्वाभ्यां गणेशाय नमो नमः॥
इत्युपायनदानम्॥

यस्य स्मृत्या च नामोक्त्या तपःपूजाक्रियादिषु।
न्यूनं संपूर्णतां याति सद्यो वन्दे गजाननम्॥

इति पूजाविधिः॥

उद्यापने विशेषः

कुम्भस्येशानदिग्भागे प्रतिष्ठाप्य हुताशनम्।
स्वगृह्योक्तविधानेन मुखान्तं होममाचरेत्॥

* “गणानां त्वेति” मन्त्रेण समिदन्नघृतैर्हुनेत्।
अष्टोत्तरशतं हुत्वा ततस्विष्टकृदादि च॥

* “वक्रतुणायेति” गणपतिगायत्र्या अष्टोत्तरशतसङ्ख्यया दूर्वाहोमं कृत्वा तयैव समिदन्नाज्यहोमः कार्य इति केचित्॥

कुम्भानुद्वास्य विधिवदभिषिच्य घटोदकैः।
कर्ताऽथ धृतवस्त्रादिराचार्यादींश्च पूजयेत्॥

प्रतिमां वस्त्रसंयुक्तां कुम्भोपकरणैर्युताम्।
कुम्भं दास्यामि विप्रेन्द्र यथोक्तफलदो भव॥

शोकेनानेन प्रतिमाः पञ्चर्त्विग्भ्यः प्रदापयेत्।
दशदानादीनि ततो ब्राह्मणेभ्यः प्रदापयेत्।

भूरिदानं प्रकुर्वीत इष्टार्थफलसिद्धये।
आशिषं वाचयित्वाऽथ ब्राह्मणान् भोजयेत्ततः॥

इत्येवं विधिवत्कुर्यात् गणेशोद्यापनं व्रती।
इष्टं कार्यं लभेन्मह्यं प्राप्नोति च परां गतिम्॥

इति गणपतिव्रतोद्यापनम्॥

गणेशाष्टोत्तरं शतनामानि

ॐ गजाननाय नमः
गणाध्यक्षाय नमः
विघ्नराजाय नमः

समस्तजगदाधाराय नमः
सर्वैश्वर्यप्रदाय नमः
श्रीविघ्नेश्वराय नमः

इति गणेशाष्टोत्तरशतनामावलिः समाप्ता॥