रुद्रैकादशिनी

॥अथ रुद्रैकादशिनीप्रयोगः॥

अनुज्ञा

आदौ ब्राह्मणाननुज्ञाप्य। अशेषे + स्वीकृत्य … नक्षत्रे … राशौ जातस्य … गोत्रस्य … सूत्रस्य … शर्मणः मम जन्माभ्यासात् + अपनोदनद्वारा श्रीपरमेश्वरप्रीत्यर्थं ऋग्वेदादिचतुर्वेदमध्ये यजुःसंहितान्तर्गत-अग्निकाण्डान्तर्पाति-शतरुद्रीयस्य त्रेधाविभाग-षोढाविभाग-षोढशधाविभाग-अष्टाचत्वारिंशद्धाविभाग-एकोनसप्तत्यधिकशतधाविभागात्मकेषु पक्षेषु अष्टाचत्वारिंशद्धाविभागपक्षमाश्रित्य दशांशहोमविधानेन एभिर्ब्राह्मणैः सह आचार्यमुखेन महार्णवोक्तरीत्या प्राच्योदीच्याङ्गगोदान-नान्दीश्राद्ध-वैष्णवश्राद्ध-दशदानादिभिः सह वसोर्धारया च सह रुद्रैकादशिन्याख्य-महाप्रायश्चित्तकर्म कर्तुं योग्यतासिद्धिमनुगृहाण॥

विघ्नेश्वरपूजादयः

विघ्नेश्वरं संपूज्य। पूर्वोक्तरीत्या संकल्प्य, विघ्नेश्वरमुद्वास्य। ग्रहप्रीतिं कुर्यात्। अथ शुद्धर्थं पुण्याहं वाचयित्वा, प्राच्याङ्गगोदानं कुर्यात्।

गोदानम्

अद्यपूर्वोक्त + शुभतिथौ अद्य मया संकल्पितस्य रुद्रैकादशिन्याख्य-महाप्रायश्चित्तकर्मणः संपूर्णफलसिद्ध्यर्थं प्राच्याङ्गगोदानं करिष्ये। इति संकल्प्य गां सवत्सां पूजयित्वा, ब्राह्मणं संपूज्य,

यज्ञसाधनभूता या विश्वस्याघप्रणाशिनी।
विश्वरूपधरो देवः प्रियतामनया गवा॥
गवामङ्गेषु तिष्ठन्ति + शान्तिं प्रयच्छ मे॥

मया करिष्यमाणस्य रुद्रैकादशिन्याख्य-महाप्रायश्चित्तकर्मणः पूर्वाङ्गतया विहितां इमां गां सदक्षिणाकां सताम्बूलां रुद्रप्रीतिं कामयमानः रुद्रस्वरूपाय ब्राह्मणाय तुभ्यमहं संप्रददे न मम। इति गां दत्वा,

नान्दीश्राद्धादयः

नान्दीश्राद्धं आमरूपेण हिरण्यरूपेण वा कुर्यात्। अथ पुण्याहं कुर्यात्। आदित्यात्मकरुद्रादयः प्रियन्तामिति विशेषः। अथ वैष्णवश्राद्धं कुर्यात्।

ऋत्विग्वरणम्

अथ आचार्यमृत्विजश्च वृणुयात्। अस्मिन् रुद्रैकादशिन्याख्य-महाप्रायश्चित्तकर्मणि प्रधानकलशे महादेवप्रतिमापूजाजपहोमार्थमाचार्यं त्वां वृणे।

अथ “महादेवः शिवो रुद्रः शङ्करो नीललोहितः।
ईशानो विजयो भीमो देवदेवो भवोद्भवौ”
इत्युक्तरीत्या शिवादिप्रतिमापूजार्थं दश ऋत्विजश्च वृणुयात्। मध्ये महादेवः चतुर्दिक्षु शिवादयः दश। शिवः, रुद्रः, शङ्करः, नीललोहितः, ईशानः, विजयः, भीमः, देवदेवः, भवः, उद्भवः इति। (रुद्राभिषेकार्थमन्यमृत्विजं च वृत्वा शिवपूजां च कारयेत्॥)

ततः “मया संकल्पित-रुद्रैकादशिन्याख्य-महाप्रायश्चित्तकर्मणि महादेवादि-प्रतिमापूजां महारुद्रजपहोमादिकर्म च कुरुध्वं” इति आचार्यादीन् प्रार्थयेत्॥

कलशपूजादयः

तत आचार्यः ऋत्विग्भिः सह संकल्प्य पञ्चगव्येन प्रतिमाशुद्धिं कृत्वा शुद्धाः प्रतिमा अलङ्कृतेषु कुम्भेषु निक्षिप्य कलश-शङ्क-पीठपूजां कृत्वा, स्योना पृथिवीत्यादि प्रतिपद्य कुम्भकार्यं कृत्वा, वरुणावाहनान्ते महान्यासजपं कुर्यात्।

षोडशोपचारपूजा

अथात इत्यादि आराधितो + महेश्वर इत्यन्ते (वक्ष्यमाणप्रकारेण महादेवं ध्यात्वा ऽऽवाहयेत्)

ध्यानन्निरामयं देवं जगत्सृष्ट्यादिकारणम्।
निर्गुणं निष्कलं नित्यं मनोवाचामगोचरम्॥

गङ्गाधरं शशिधरं जटामकुटमण्डितम्।
श्वेतभूतित्रिपुण्ड्रेण ललाटेन विराजितम्॥

लोचनत्रयसंपन्नं स्वर्णकुण्डलमण्डितम्।
दिव्याम्बरं रत्नभूषं रत्नसिंहासने स्थितम्॥

सर्वाभीष्टप्रदातारं वटमूलनिवासिनम्।
सनातनं साम्बमूर्तिं परमात्मानमव्ययम्॥
आवाहयामि जगतामीश्वरं परमेश्वरम्॥ (इति ध्यात्वा)

आत्वा वहन्तु + शर्वोम्॥ त्र्यम्बकं यजामहे + मामृतात्॥ गौरीमिमाय + व्योमन्॥ नमस्ते रुद्र मन्यव + ते नमः॥ ॐ ह्रीं नमः शिवाय। सद्योजातं प्रपद्यामि। ॐ भूर्भुवः सुवरोम्। अस्यां प्रतिमायां आदित्यात्मकरुद्रं महादेवमावाहयामि। ( इत्याचार्य आवाहयेत् ) एवमृत्विजश्च

तत्तत्प्रतिमासु शिवादीनावाहयेयुः। सर्वेऽपि प्राणप्रतिष्ठां कृत्वा पूजयेयुः।

या त इषुः शिवतमा + मृडय॥ ॐ ह्रीं नमः शिवाय। सद्योजाताय वै नमो नमः। आसनं समर्पयामि॥

या ते रुद्र+शीहि॥ ॐ+य॥ भवेभवे नातिभवे भवस्व माम्॥ पाद्यं समर्पयामि॥

यामिषुं गिरिशन्त + जगत्॥ ॐ + य॥ भवोद्भवाय नमः॥ अर्घ्यं समर्पयामि॥

शिवेन वचसा + असत्॥ ॐ + य॥ वामदेवाय नमः॥ आचमनीयं समर्पयामि॥

अध्यवोच + धान्यः॥ ॐ + य॥ ज्येष्ठाय नमः॥ मधुपर्कं समर्पयामि॥

असौ यस्ताम्रो + ईमहे॥ ॐ + य॥ श्रेष्ठाय नमः॥ स्नानं समर्पयामि॥

असौ योऽवसर्पति। मृडयाति नः॥ ॐ + य॥ रुद्राय नमः॥ वस्त्रं समर्पयामि॥

नमो अस्तु नीलग्रीवाय + नमः॥ ॐ+य॥ कालाय नम॥ उपवीतं समर्पयामि॥

प्रमुञ्च धन्वन + वप॥ ॐ+य॥ कलविकरणाय नमः॥ गन्धं समर्पयामि॥

अवतत्यधनु + भव॥ ॐ+य॥ बलविकरणाय नमः॥ पुष्पाणि समर्पयामि॥

भवाय देवाय नमः इत्यादिभिरष्टभिः भवस्य देवस्य पत्न्यै नम इत्यादिभिरष्टभिश्च मन्त्रैः पुष्पाणि समर्पयेत्॥

विज्यं धनुः कप + षङ्गथिः॥ ॐ+य॥ बलाय नमः॥ धूपं समर्पयामि॥

या ते हेति + ब्भुज॥ ॐ+य॥ बलप्रमथनाय नमः॥ दीपं समर्पयामि॥

नमस्ते अस्त्वायुधा + धन्वने॥ ॐ+य॥ सर्वभूतदमनाय नमः॥ नैवेद्यं समर्पयामि॥

परि ते धन्वनो + तम्॥ ॐ+य॥ मनोन्मनाय नमः॥ ताम्बूलं समर्पयामि॥ इति संपूज्य॥

सोमो वा एतस्येत्यादिभिः कर्पूरनीराजनं समर्प्य।

नमो हिरण्यबाहवे नमः इत्यादिकया नमः आशीवत्केभ्य इत्यन्तया रुद्रमन्त्रत्रिशत्या बिल्वपत्रादिभिरभ्यर्च्य,

द्रापे अन्धसस्पत इत्यानुवाकेन प्रदिक्षिणीकृत्य,

सहस्राणि सहस्रश इत्यनुवाकस्थैः सानुषङ्गैः त्रयोदशभिर्मन्त्रैः त्रयोदशनमस्कारान् कृत्वा, अग्नाविष्णू इत्यादिभिरेकादशभिरनुवाकैः उपस्थाय, अघोरेभ्यः, तत्पुरुषाय, ईशानः इत्यनुवाकत्रयं जपेत्।

श्रीरुद्राध्यायजपः

अस्य श्रीरुद्राधायप्रश्नमहामन्त्रस्य इत्यारभ्य रुद्रप्रश्नमेकादशवारान् जपेयुः। प्रतिवारं शतरुद्रीयजपान्ते चमकप्रश्नस्यैकैकमनुवाकं च जपेयुः॥

यजमानः प्रतिवारं वक्ष्यमाणैर्मन्त्रैः देवं संप्रार्थ्य अर्घ्यदानं कृत्वा साद्गुण्यार्थमाचार्याय फलादिदानं च कुर्यात्॥

जपान्ते

प्रथमावृत्तौ

यस्तु रुद्रं जपेन्नित्यं ध्यायन् देवं महेश्वरम्।
यश्च सागरपर्यन्तां सशैलवनकाननाम्॥

दद्यात् काञ्चनसंयुक्तां भूमिमोषधिसंयुताम्।
तस्मादप्यधिकं पुण्यं तस्य रुद्रजपाद्भवेत्॥

इति रुद्राध्यायमाहात्म्यमनुसन्धाय।

दशपञ्चसुनेत्राढ्यं पञ्चशीर्षसमन्वितम्।
दशहस्तं शुभाकारं महादेवमहं भजे॥

इति स्तुत्वा। वक्ष्यमाणैः श्लोकैरर्घ्यदानं कुर्यात्॥

अर्घ्यश्लोकाः

शम्भो ब्रह्मशिरश्छेदिन् ब्रह्माण्डालयनायक।
नम उग्र महाभाग प्रथमार्घ्यं गृहाण भोः॥

महादेवाय नमः इदमर्घ्यमिति प्रतिश्लोकम्।
वेदान्तागमसिद्धान्त यज्ञेश परमेश्वर।
समस्तजगदाधार द्वितीयार्घ्यं गृहाण भोः॥

सर्वस्वातन्त्र्यसाम्राज्य सर्वयज्ञफलप्रद।
दयालो भक्तसंरक्ष तृतीयार्घ्यं गृहाण भोः॥

ब्रह्मादिभिः सुरैः सर्वैः स्तूयमानपदाम्बुज।
अम्बिकारमण स्वामिन् तुरीयार्घ्यं गृहाण भोः॥
इत्यर्घ्यशोकाः॥

अनेन प्रथमवाररुद्रजपेन श्रीमहादेवः प्रीयताम्॥

इति प्रथमावृत्तौ॥

द्वितीयावृत्तौ

द्वितीयाद्यावृत्तिषु शिवादीनुद्दिश्य अर्घ्यदानादीति विशेषः॥

सुरापः स्वर्णहारी च रुद्रजापी जले स्थितः।
सहस्रशीर्षाजापी च मुच्यते सर्वकिल्बिषैः॥

शूलवर्यधरं देवं शिवं विषमलोचनम्।
अक्षमालाधरं शम्भुं वन्दे डमरुधारिणम्॥
पूर्ववदर्घ्यदानादि शिवाय इति द्वितीयावृत्तौ॥२॥

तृतीयावृत्तौ

स्तेयं कृत्वा गुरुदारांश्च गत्वा मद्यं पीत्वा ब्रह्महत्यां च कृत्वा।
भस्मच्छन्नो भस्मशय्याशयानो रुद्राध्यायी मुच्यते सर्वपापैः॥

कालाग्निरूपिणं रुद्रं जटामकुटमण्डितम्।
त्र्यक्षं चतुर्भुजं देवं नमामि शिरसा विभुम्॥
पूर्ववदर्घ्यदानादि रुद्राय॥ इति तृतीयावृत्तौ॥३॥

चतुर्थावृत्तौ

वेदमेकगुणं जप्त्वा तदह्नैव विशुद्ध्यति।
सर्वपापहरो ह्येषो रुद्रैकादशिनी तथा॥

शङ्करं शान्तवदनं वराभयविशोभिनम्।
लोकानां शोकहन्तारं चन्द्रचूडमहं भजे॥
पूर्ववदर्घ्यदानादि शङ्कराय॥ इति तुरीयावृत्तौ।४॥

पञ्चमावृत्तौ

एकादशगुणाञ्चाऽपि रुद्रानावर्त्य धर्मवित्।
महापापैरपि स्पृष्टो मुच्यते नात्र संशयः॥

त्र्यक्षं चतुर्भुजं शान्तं सुन्दरं नीललोहितम्।
पद्मासनस्थं देवेशं नमामि वृषवाहनम्॥
अर्घ्यदानादि नीललोहिताय पूर्ववत्॥ इति पञ्चमावृत्तौ॥५॥

षष्ठावृत्तौ

महादेवं हृदि ध्यायन् यस्तु रुद्रं जपेत् पुमान्।
स तेनैव हि देहेन रुद्रः सञ्जायते ध्रुवम्॥

ईशानं देवदेवेशं प्रणमामि सदाशिवम्।
रुद्राक्षमालाभरणं गङ्गाचन्द्रकलाधरम्॥
ईशानाय अर्घ्यदानादि पूर्ववत्॥६॥

सप्तमावृत्तौ

नमकं चमकं चैव पौरुषं सूक्तमेव च।
नित्यं त्रयं प्रयुञ्जानः शिवलोके महीयते॥

भजेऽहं सुन्दराकारं विजयं फाललोचनम्।
जटामण्डलसंयुक्तं भक्तानां भीतिनाशनम्॥
विजयाय अर्घ्यदानादि पूर्ववत्॥७॥

अष्टमावृत्तौ

नमकं चमकं चैव जपन्तं पौरुषं तथा।
प्रविशेत् स महादेवो गृहं गृहपतिर्यथा॥

भीममिन्दुकलाभूषं पापिनां भीषणाकृतिम्।
वरदं त्रिपुरारातिं वरायुधधरं भजे॥
भीमाय अर्घ्यदानादि पूर्ववत्॥८॥

नवमावृत्तौ

भस्मदिग्धशरीरस्तु भस्मशायी जितेन्द्रियः।
सततं रुद्रजापी यः स परां मुक्तिमाप्नुयात्॥

देवदेवं देवसेव्यं वराभयविशोभिनम्।
भक्तकाङ्क्षितदातारं पार्वतीशमहं भजे॥
देवदेवाय अर्घ्यदानादि पूर्ववत्॥९॥

दशमावृत्तौ

रोगवान् पापवांश्चैव रुद्रं जप्त्वा जितेन्द्रियः।
रोगात् पापाच्च मुच्येत रुद्रलोकं च गच्छति॥

भवं सर्वार्थदं देवं पुत्रपौत्रफलप्रदम्।
धर्मार्थकाममोक्षाणां भजे दातारमीश्वरम्॥
भवाय अर्घ्यदानादि पूर्ववत्॥१०॥

एकादशावृत्तौ

रुद्राध्यायी वसेद्यत्र ग्रामे वा नगरेऽपि वा।
न भवेत्तत्र दुर्भिक्षं आधयो व्याधयोऽपि वा॥

उद्भवं शान्तहृदयं नेत्रत्रयविराजितम्।
प्रसन्नवदनं वन्दे जटामण्डलमण्डितम्॥
उद्भवाय अर्घ्यदानादि पूर्ववत्॥११॥

एवं प्रत्यावृत्ति रुद्राध्यायप्रशंसा रुद्रध्यानार्घ्यदानफलदानानि कुर्यात्॥

होमविधिः

अथ आचार्यः कुम्भानामीशानदिग्भागे यथाशास्त्रं कुण्डं निर्माय, स्थण्डिलं वा परिकल्प्य उल्लेखनादि स्वगृह्योक्तविधिना मुखान्तं कृत्वा तस्मिन्नग्नौ आदित्यात्मकं रुद्रमावाह्य नमस्ते रुद्र मन्यव इत्यादिभिर्मन्त्रैः पूर्ववत् पूजां कुर्यात्। अथ चरुं श्रपयित्वाऽभिघार्येत्यादि कृत्वा, अवदानधर्मेणावदाय असौ यस्त्राम्रो + हेड ईमहोमसौ योऽवसर्पति नीलग्रीवो + मृडयाति नः स्वाहा॥ इति जुहोति। आदित्यात्मकाय रुद्रायेदं न मम॥ इति त्यागः॥

अथ ऋत्विग्भिः सह आज्येन वक्ष्यमाणप्रकारेण आहुतीर्जुहुयात्। नमस्ते रुद्रेति प्रथमानुवाकस्य पञ्चदशभिः ऋग्भिः पञ्चदशाहुतयः॥

नमो हिरण्यबाहव इत्यादिभिरष्टभिरनुवाकैरष्टावाहुतयः। द्रापे अन्धसस्पत इत्यनुवाकस्य द्वादशभिः ऋग्भिः द्वादशाहुतयः। सहस्राणीत्यनुवाकस्य त्रयोदशभिर्मन्त्रैः त्रयोदशाहुतयः। इत्यष्टाचत्वारिंशदाहुतयः॥ पुनश्च नमस्ते रुद्रेति रुद्रस्य प्रथमयर्चा एकाहुतिः। नमो रुद्रेभ्यो ये दिवि + दधाति इति अन्त्येन यजुषा एकाहुतिः। ततो वसोर्धारा॥ अत्रेदमवधेयम्॥ रुद्रैकादशिन्यां शतरुद्रीयजपस्य आवृत्तयः एकविंशत्युत्तरशतसङ्ख्याका भवन्ति। तद्दशांशहोमस्य कर्तव्यतया प्रत्यावृत्ति अष्टाचत्वारिंशदाहुतय इतिरीत्या षट्सप्तत्युत्तरपञ्चशती (५७६) भवन्त्याहुतय। ततः शतरुद्रीयस्य प्रथमयर्चा अन्त्ययजुषा च आहुतिद्वयम्। ततश्चमकस्यैकादशभिरनुवाकैरेकादशाहुतयः। इति मिलित्वा एकोननवत्युत्तरपञ्चशती (५८९) आहुतय इति माहार्णवोक्त आहुतिसङ्ख्यानिर्णय इति॥ अथ आचार्य एव वसोर्धारायां जुहुयात्। आचार्यः पात्रप्रयोगकाले सादितां * औदुम्बरीं दीर्घां स्रुचमग्नौ प्रतितप्य दर्भैः संमृज्य पुनः प्रतितप्य प्रोक्ष्य निधाय दर्भानद्भिः संस्पर्श्याग्नौ प्रहृत्य तामेव स्रुचमादाय तस्यामाज्यं निनीय तिष्ठन् उरःसमं धारयन् अविच्छिन्नया आज्यधारया अग्नाविष्णू इत्यारभ्य भुवनश्चाधिपतिश्च स्वाहा इत्यन्तं पठन् वसोर्धारां जुहुयात्। ** (अग्नाविष्णुवाजादिभ्यः देवताभ्य इदं न मम॥) वसोर्धारायाः काले सामगाः वैष्णवरौद्रैन्द्रवैश्वानरज्येष्ठसामादीनि सामानि गायेयुः। यथाशक्ति मङ्गलवाद्यानि च घोषयेत्॥

  • औदुम्बरीमथार्द्रां च ऋज्वीं कोटरवर्जिताम्। बाहुमात्रां स्रुचं कृत्वा ततः स्तम्भद्वयोपरि। घृतधारां तया सम्यगग्नेरुपरि पातयेत्॥ इति महार्णवे॥

** अग्नाविष्णू देवतेति स्पष्टं ब्राह्मण ईरितम्। वाजाद्याशास्यमेव स्याद्देवतात्वं न तस्य हि॥ इति महार्णवे॥

एवं आचार्यः वसोर्धारां हुत्वा स्विष्टकृज्जयादिहोमशेषं समाप्य। मानोमहान्तं, मानस्तोक इति द्वाभ्यां बलिं दत्वा अग्निमुपस्थाय

उत्तराङ्गम्

ऋत्विग्भिः सह पुनः पूजां कृत्वा देवता उद्वास्य यजमानं सपरिवारं वैदिकैर्मन्त्रैः प्रोक्ष्य मन्त्रोदकं प्राशयेत्। अथ यजमानः आज्यावलोकनं निरीक्षिताज्यदानं च कुर्यात्। अथ आचार्येण ऋत्विग्भिश्च अभिषिक्तः शुद्धवस्त्रपुण्ड्रादिधरः आर्द्रवस्त्रदानं कृत्वा कलशवस्त्रप्रतिमादानं पञ्चदानदशदानभूरिदान-फलदानादीनि यथाशक्ति कृत्वा आचार्याय गोमिथुनं दत्वा आशिषो वाचयित्वा ब्राह्मणान् भोजयित्वा तेभ्य आशिषः प्रतिगृह्य स्वयं बन्धुभिः सह भुञ्जीत॥ एवंकृते सर्वारिष्टशान्तिर्भवति। सर्वान् कामानाप्नोति। सर्वेभ्यः पापेभ्यो विमुच्येत॥

अत्र च बहवः प्रकाराः सन्ति। एक एवात्र विभागः प्रदर्शितः। अन्ये महार्णवे द्रष्टव्याः॥ इति सर्वम् शुभम्॥

इति रुद्रैकादशिनीप्रयोगः॥