शुक्रमौढ्यशान्तिः

॥ अथ शुक्रमौढ्यशान्तिः (शान्तिकुसुमाकरे) ॥

उपाकर्म न कुर्वीत शुक्रो मूढो भवेद्यदि ।
बाल्ये वाऽपि च वृद्धत्वे शुक्रस्य न समाचरेत् ॥
शान्तिं कृत्वैव कुर्वीत न चेत्तन्निष्फलं भवेत् ॥

गोमयेन शुचिं देशमुपलिप्य विधानतः ।
विधाय स्थण्डिलं तत्र व्रीहिराशिं विनिक्षिपेत् ॥

तण्डुलांस्तत्र निक्षिप्य स्थापयेच्च घटं नवम् ।
निष्कमात्रसुवर्णेन शुक्रस्य प्रतिमां कृताम् ॥

निक्षिपेत्समलङ्कृत्य पञ्चगव्येन शोधिताम् ।
दक्षिणोत्तरयोस्तस्य प्रधानकलशस्य तु ॥

कुम्भद्वयं च संस्थाप्य हेम्ना वा रजतेन वा ।
अधिप्रत्यधिदेवार्थं निक्षिप्य प्रतिमाद्वयम् ॥

आरभेत ततः शान्तिमाचार्यस्तु ततः शुचिः ।
आदावनुज्ञाप्य विप्रानभ्यर्च्य च गणाधिपम् ॥

सङ्कल्प्योद्वास्य विघ्नेशं सन्तोष्य च नवग्रहान् ।
कुम्भकार्यं विधायाथ वरुणावाहनान्तरम् ॥

आवाहयेत्तन्मन्त्रेण शुक्रं तत्प्रतिमोपरि ।
अधिदेवं दक्षिणत आवाह्यास्य च मन्त्रतः ॥

अथ प्रत्यधिदेवं चाप्युत्तरे तस्य मन्त्रतः ।
आवाह्याथ प्रतिष्ठाप्य प्राणान् सम्यक् समर्चयेत् ॥

कुम्भं स्पृशन् ??? ऋत्विग्भिः सहितं ततः ।
वेदादीनायुष्यसूक्तं मृत्युसूक्तमतः परम् ॥

ब्रह्मविष्ण्वीशसूक्तानि श्रीभू[सूक्तं] ततो जपेत् ।
प्रवःशुक्रायेति मन्त्रं शुक्रं ते अन्यदित्यपि ॥

अष्टोत्तरसहस्रं वाऽप्यष्टोत्तरशतं ??? ।
मन्त्रद्वयं चाथ जपेदधिप्रत्यधिदेवयोः ॥

आसत्येनोदुत्यमिति चित्रमित्यृक्त्रयं जपेत् ।
त्रिर्जपेत् परिधानीयामित्येवं जप ईरितः ॥

कुम्भस्यैशानदिग्भागे प्रतिष्ठाप्य हुताशनम् ।
स्वगृह्योक्तविधानेन मुखान्तं होममाचरेत् ॥

उदुम्बरसमिद्भिश्च हविषाऽज्येन चाहुतिः ।
प्रवःशुक्रेति मन्त्रेण शुक्रं त इति वा हुनेत् ॥

अष्टोत्तरसहस्रं वा अष्टोत्तरशतं तु वा ।
ततः स्विष्टकृतं हुत्वा होमशेषं समाप्य च ॥

संपूज्योद्वास्य वेदांश्च प्रोक्ष्य मन्त्रैश्च वैदिकैः ।
अभिषिञ्चेत् पुण्यमन्त्रैरुपाकर्मकृतो द्विजान् ।
दद्यात् कुम्भान् सप्रतिमानाचार्याय सदक्षिणान् ॥

ऋत्विग्भ्यो दक्षिणां दद्यादाशिषो वाचयेत्ततः ।
एवं कृतायां शान्तौ तु मौढ्यदोषो विनश्यति ॥

उपाकर्म ततः कुर्युः सर्वे संभूय सादराः ।
शान्तौ कृतायां गुरुणा शिष्याश्च फलभागिनः ॥

इत्येवं कथितो शान्तिः शुक्रदोषापनोदिनी ॥

॥ इति शुक्रमौढ्यशान्तिः ॥