शताभिषेकविधिः
॥ अथ शताभिषेकविधिः ॥
संपूर्णशतवत्सरस्य अष्टमासाधिकाशीतिवत्सरस्य वा पुरुषस्य सर्वपापापनोदनार्थं सर्वारिष्टशान्त्यर्थं शताभिषेकः कर्तव्यः। उदगयने पूर्वपक्षे रोहिणी, उत्तरत्रयं, रेवती, शतभिषक्, श्रवणं, हस्तः, इत्येतेषामन्यतमनक्षत्रे जन्मनक्षत्रे वा ब्राह्मणानुज्ञा-विघ्नेश्वरपूजा-पुरस्सरं कर्म कुर्यात्।
तत्र संकल्पः – … नक्षत्रे … राशौ जातस्य … शर्मणः मम जन्मप्रभृति एतत्क्षणपर्यन्तं ऐहिकामुष्मिकफलविरोधिनां मनसा वचसा कर्मणा च बुद्धिपूर्वमबुद्धिपूर्वं च कृतानां सर्वेषां पापानामन्ततो निवृत्तिद्वारा मम ऐहिकामुष्मिकसकलसुखसिद्ध्यर्थं मोक्षसाम्राज्यसिद्ध्यर्थं शताभिषेकाख्यं कर्म करिष्ये इति संकल्प्य। आचार्यमृत्विजश्च वृणुयात्। अभ्युदयं पुण्याहवाचनं च कुर्यात्॥
अथाचार्यः स्वगृह्योक्तविधानेन लौकिकाग्निं समिद्ध्य प्रणीतासादनान्तं कृत्वा अग्नेः पूर्वभागे व्रीहिभिर्यवैर्वा चतुरश्रं स्थण्डिलं कृत्वा तदुपरि तण्डुलान् विस्तार्य सौवर्णराजतताम्रान्यतमान् पञ्चकलशान् तन्तुवेष्टितान् गुग्गुलुधूपितान् स्थापयेत्। मध्ये प्रधानकलशं निधाय प्रादक्षिण्येन प्रागाद्युदगपवर्गमितरकलशान् निधाय गन्धपुष्पाक्षतफलैरवकीर्य प्रधानकलशे नवरत्नानि निक्षिप्य स्वर्णसूत्रनिर्मितपट्टवस्त्रैराच्छाद्य अग्न्यानपि कलशानहतेन वाससाऽऽच्छाद्य कलशेषु देवतानावाहयेत्।
तदित्थम् – मध्ये ब्रह्माणं, पुरस्तात् प्रजापतिं, दᳵइणतः परमेष्ठिनं, पश्चिमतश्चतुर्मुखं, उत्तरतो हिरण्यगर्भं च क्रमेणावाहयेत्। आवाहनमन्त्रास्तु – ब्रह्म जज्ञानमिति ब्रह्मणः। पिता विराजामिति प्रजापतेः। ब्रह्म देवानजनयदिति परमेष्ठिनः। अन्तरस्मिन्निति चतुर्मुखस्य। हिरण्यगर्भः समवर्ततेति हिरण्यगर्भस्य। एवमावाह्य प्राणप्रतिष्ठां कृत्वा पुरुषसूक्तेन षोडशोपचारपूजां कुर्यात्।
अथ अग्निमुखान्ते अब्लिङ्गाभिः हिरण्यवर्णियाभिः पवमान इत्यनुवाकेन नमो ब्रह्मण इत्यनेन मन्त्रेण च कलशावाहितदेवता मार्जयित्वा हविर्निवेदयेत्। अथ पक्वहोमः – आयुष्ःटे विश्वतो दधदिति पुरोनुवाक्यामनूच्य आयुर्दा अग्न इति याज्यया जुहोति। अथ स्विष्टकृतमवदायान्तःपरिधि सादयित्वा उपहोमान् जुहोति – ब्रह्म जज्ञानमिति षड्भिः ऋग्भिः, अग्निरायुष्मानित्यादिभिः पञ्चभिः पर्यायैः, घृतसूक्तेन च। स्विष्टकृदादिहोमशेषं समाप्य, अग्रेणाग्निं दूर्वास्तम्बेषु हुतशेषं बलिं निदध्यात्। आयुष्ट आयुर्दा इति द्वाभ्याम्।
अथाचार्यः पुनःपूजां कृत्वा देवता उद्वास्य यजमानं रङ्गवल्ल्याद्यलङ्कृते पीठे प्राङ्मुखमुपवेश्य उदङ्मुखः प्रधान कलशजलस्यार्धेन यासुगन्धा रसा वर्णा इत्यृचा अभिषिञ्चेत्। अथ ऋत्विजः पूर्वादिक्रेमेण अभिषिञ्चेयुः। याः प्राचीरिति पूर्वकलशजलेन, या दक्षिणा इति दक्षिणकलशजलेन, याः प्रतीचीरिति पश्चिमकलशजलेन, या उदीचीरिति उत्तरकलशजलेन च। अथाचार्यः पूर्वाभिषिक्तावशिषार्धजलेन या ऊर्ध्वा इत्यभिषिञ्चेत्। सर्वेषामपि मन्त्राणां रेवतीर्मधुमतीरित्यनुषङ्गः।
अथ यजमानः अहतं वासः परिधाय पादौ प्रक्षाल्याचम्य स्नानकालधृतवस्त्रं ब्राह्मणाय दत्वा आदित्यमुपतिष्ठेत। उद्वयन्तमस्परि, उदुत्यं, चित्रं, तच्चक्षुः, य उदगादिति। एरकायामुदग्दशायामहतवाससाऽऽवृतायां प्राङ्मुख उपविश्य सौवर्णराजतताम्रकांस्यान्यतमे पात्रे सघृतेन हिरण्यं निधाय रूपं रूपमिति आत्मानमवेक्ष्य याऽलक्ष्मीरिति मन्त्रेण ब्राह्मणाय दद्यात्।
अथ कलशवस्त्रादिदानानि दशदानानीति च कृत्वा गजं वा, अश्वनिबद्धं रथं वा आरूढः दुन्दुभ्यादिवाद्यशब्देन ब्राह्मणोच्चारितस्वस्तिसूक्तेन च ग्रामं प्रदक्षिणीकृत्य गृहमागत्य फलदानं कृत्वा गुरवे वरं दत्वा पुण्याहं वाचयित्वा ब्राह्मणान् भोजयेत्॥ इत्याह भगवान् शौनकः॥
इति शौनकोक्तः शताभिषेकविधिः॥ बोधायनेनापि भगवता अयमेव प्रकारः कथित इति तत्प्रकारः नात्र पुनर्विस्तृतः॥