प्राणप्रतिष्ठा

source: kalpa chintāmani
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

अथ प्राणप्रतिष्ठा

अस्य श्रीप्राणप्रतिष्ठामहामन्त्रस्य, ब्रह्मविष्णुमहेश्वरा ऋषयः, ऋग्जयुःसामाथर्वाणि छन्दांसि, सकलजगत्सृष्टिस्थितिसंहारकारिणी प्राणशक्तिः परादेवता, आं बीजं, ह्रीं शक्तिः, क्रों कीलकं, प्राणप्रतिष्ठार्थे जपे विनियोगः।

आं अङ्गुष्ठाभ्यां नमः।
ह्रीं तर्जनीभ्यां नमः।
क्रों मध्यमाभ्यां नमः।
आं अनामिकाभ्यां नमः।
ह्रीं कनिष्ठिकाभ्यां नमः।
क्रों करतलकरपृष्ठाभ्यां नमः।

आं हृदयाय नमः।
ह्रीं शिरसे स्वाहा।
क्रों शिखायै वषट्।
आं कवचाय हुम्।
ह्रीं नेत्रत्रयाय वौषट्।
क्रों अस्त्राय फट्।
भूर्भुवःसुवरोमिति दिग्बन्धः॥

ध्यानम्

रक्ताम्बोधिस्थपोतोल्लसदरुणसरोजाधिरूढा कराब्जैः
पाशं कोदण्डमिक्षूद्भवमलिगुणमप्यङ्कुशं पञ्चबाणान्।
बिभ्राणा सृक्कपालं त्रिणयनलसिता पीनवक्षोरुहाढ्या
देवी बालार्कवर्णा भवतु सुखकरी प्राणशक्तिः परा नः॥

आं ह्रीं क्रों, क्रों ह्रीं आम्॥
य, र, ल, व, श, ष, स, हों
हंसः सोऽहं सोऽहं हंसं।

अस्य प्राणाः इह प्राणाः
अस्य जीवाः इह स्थिताः
अस्य सर्वेन्द्रियाणि वाङ्मनश्चक्षुःश्रोत्रजिह्वाघ्राणप्राणापानव्यानोदानसमानाः इहैवाऽगत्य सुखं चिरं तिष्ठन्तु स्वाहा॥

असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो॑॑ धेहि॒ भोग॑॑म्।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर॑न्त॒मनु॑मते मृ॒ळया॑॑ नः स्व॒स्ति॥

अस्य प्राणान् प्रतिष्ठापयामि। आवाहयामि।

आवाहितो भव। स्थापीतो भव। सन्निहितो भव। सन्निरुद्धो भव। अवकुण्ठितो भव। सुप्रीतो भव। सुमुखो भव। सुप्रसन्नो भव। वरदो भव। प्रसीद प्रसीद॥

स्वामिन् सर्वजगन्नाथ यावत्पूजावसानकम्।
तावत्त्वं प्रीतिभावेन बिम्बेऽस्मिन् सन्निधिं कुरु॥

इति प्राणप्रतिष्ठा॥