दर्शश्राद्धविधिः

source: āpastambīya śrāddha prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

(हिरण्यरूप) दर्शश्राद्धविधिः

शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम्।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये॥

ममोपात्तसमस्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं अमावास्यायां पुण्यतिथौ

प्राचीनावीती, अमुकगोत्रानाममुकशर्मणां वसुरुद्रादित्यस्वरूपाणामस्मत्पितृपितामहप्रपितामहानां (मातृपितामहीप्रपितामहीनां) अमुकगोत्राणां अमुकशर्मणां अस्मत्(सपत्नीक)मातामह-मातुःपितामह-मातुःप्रपितामहानां उभयवंशपितॄणां च अक्षय्यतृप्त्यर्थं अमावास्यापुण्यकाले दर्शश्राद्धं हिरण्यरूपेणाद्य करिष्ये, तदङ्गं तिलतर्पणं च करिष्ये।

उपवीती। अप उपस्पृश्य, प्राचीनावीती।

अमुकगोत्राणाममुक + उभयवंशपितॄणां च अक्षय्यतृप्त्यर्थं मया क्रियमाणे हिरण्यरूपदर्शश्राद्धे वर्गद्वयपितॄणामिदमासनम्। सकलाराधनैः स्वर्चितम्।

हिरण्यगर्भगर्भस्थं हेमबीजं विभावसोः।
अनन्तपुण्यफलदमतः शान्तिं प्रयच्छ मे॥

अमुकगोत्राणां + उभयवंशपितॄणां च अक्षय्यतृप्त्यर्थं मया क्रियमाणे हिरण्यरूपदर्शश्राद्धे वर्गद्वयपितॄणां तृप्तिं कामयमानः इदमाग्नेयं हिरण्यं तुभ्यमहं संप्रददे न मम। उपवीती। प्रदक्षिणम्।

देवताभ्यः + नमः॥ प्राचीनावीती, वर्गद्वयपितृभ्यो नमः। उपवीती, नमस्कारः। देवताभ्यः + नमः॥ प्राचीनावीती,

अनेन मया कृतेन हिरण्यरूपदर्शश्राद्धेन मम वर्गद्वयपितरः, नित्यतृप्ताः सन्त्विति भवन्तोऽनुगृह्णन्तु॥ आशीर्वादम्॥

अथ दर्शतर्पणम्

अथ दक्षिणाग्रं कूर्चं निधाय (सकृदाच्छिन्नं वा)

प्राचीनावीती।
आया॑त पितरः सोम्या गम्भी॒रैः प॒थिभिः॑ पू॒र्व्यैः।
प्र॒जाम॒स्मभ्यं॑ ददतो र॒यिं च॑ दीर्घायु॒त्वं च॑ श॒तशा॑रदं च॥
अस्मिन् कूर्चे वर्गद्वयपितॄनावाहयामि।

स॒कृ॒दा॒च्छि॒न्नं ब॒र्हिरूर्णा॑मृदु। स्यो॒नं पि॒तृभ्य॑स्त्वा भराम्य॒हम्।
अ॒स्मिन् सी॑दन्तु मे पि॒तरः॑ सो॒म्याः। पि॒ता॒म॒हाः प्रपि॑तामहाश्चानु॒गैः स॒ह॥
वर्गद्वयपितॄणामिदमासनम्। सकलाराधनैः स्वर्चितम्।

पितॄणाम्

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु।
गोत्रान्, शर्मणः, वसुरूपान्, अस्मत्पितॄन् स्वधा नमस्तर्पयामि।

अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑।
तेषां॑॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म॥
गोत्रान्, शर्मणः, वसुरूपान्, अस्मत्पितॄन् स्वधा नमस्तर्पयामि।

आय॑न्तु नः पि॒तरः॑ सो॒म्यासो॑ऽग्निष्वा॒त्ताः प॒थिभि॑र्देव॒यानैः॑॑।
अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मद॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान्॥
गोत्रान्, शर्मणः, वसुरूपान्, अस्मत्पितॄन् स्वधा नमस्तर्पयामि।

पितामहानाम्

(१) ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृतं॒ पयः॑ की॒लालं॑ परि॒स्रुत स्व॒धा स्थ॑ तर्पयत मे पि॒तॄन्॥
गोत्रान्, शर्मणः, रुद्ररूपान्, अस्मत्पितामहान् स्वधा नमस्तर्पयामि।

पि॒तृभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑। पि॒ता॒म॒हेभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑।
प्रपि॑तामहेभ्यः स्वधा॒विभ्यः॑ स्व॒धा नमः॑। प्रपि॑तामहेभ्यः स्वधा॒विभ्यः॑ स्व॒धा नमः॑॥
गोत्रान्, शर्मणः, रुद्ररूपान्, अस्मत्पितामहान् स्वधा नमस्तर्पयामि।

ये चे॒ह पि॒तरो॒ ये च॒ नेह याꣴश्च॑ वि॒द्म याꣳ उ॑ च॒न प्र॑वि॒द्म।
अग्ने॒ तान् वे॑॑त्थ॒ यदि॒ ते जा॑तवेद॒स्तया॑॑ प्र॒त्तꣴ स्व॒धया॑ मदन्तु॒ स्वाहा॑॑॥
गोत्रान्, शर्मणः, रुद्ररूपान्, अस्मत्पितामहान् स्वधा नमस्तर्पयामि।

प्रपितामहानाम्

(२) मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः।
माध्वी॑॑र्नः स॒न्त्वोष॑धीः।
गोत्रान्, शर्मणः, आदित्यरूपान्, अस्मत्प्रपितामहान्, स्वधा नमस्तर्पयामि।

मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ रजः॑।
मधु॒ द्यौर॑स्तु नः पि॒ता॥
गोत्रान्, शर्मणः, आदित्यरूपान्, अस्मत्प्रपितामहान्, स्वधा नमस्तर्पयामि।

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑।
माध्वी॒र्गावो॑ भवन्तु नः॥
गोत्रान्, शर्मणः, आदित्यरूपान्, अस्मत्प्रपितामहान्, स्वधा नमस्तर्पयामि।

मातृपितामहीप्रपितामहीनाम्

(३) गोत्राः सीतादाः, वसुरूपाः, अस्मन्मातॄः, स्वधा नमस्तर्पयामि॥ त्रिः॥

गोत्राः, लक्ष्मीदाः, रुद्ररूपाः, अस्मत्पितामहीः, स्वधा नमस्तर्पयामि॥ त्रिः॥

गोत्राः, रुक्मणीदाः, आदित्यरूपाः, अस्मत्प्रपितामहीः, स्वधा नमस्तर्पयामि॥ त्रिः॥

ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृतं॒ पयः॑ की॒लालं॑ परि॒स्रुत स्व॒धा स्थ॑ तर्पयत मे पि॒तॄन्॥
तृप्य॑त॒ तृप्य॑त॒ तृप्य॑त। नवावरान्। (तृप्यध्वमिति वा)

उपवीती॥

नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मि॑ल्लो॒के स्थ यु॒षाꣴस्तेऽनु॒ ये॑॑ऽस्मिल्लो॒के मान्तेऽनु॒ य ए॒तस्मि॑ल्लो॒के स्थ यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त॒ ये॑॑ऽस्मिल्लो॒के॑ऽहं तेषां॒ वसि॑ष्ठो भूयासम्॥

नमस्कारः॥ प्राचीनावीती॥

अथ मातामहादींस्तर्पयामि।

मातामहानाम्

उदी॑रता॒मव॑र॒ उत्परा॑स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑।
असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो॑ऽवन्तु पि॒तरो॒ हवे॑षु।
गोत्रान्, शर्मणः, वसुरूपान्, अस्मन्मातामहान् स्वधा नमस्तर्पयामि।

अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ॑र्वाणो॒ भृग॑वः सो॒म्यासः॑।
तेषां॑॑ व॒यꣳ सु॑म॒तौ य॒ज्ञिया॑ना॒मपि॑ भ॒द्रे सौ॑मन॒से स्या॑म॥
गोत्रान्, शर्मणः, वसुरूपान्, अस्मन्मातामहान् स्वधा नमस्तर्पयामि।

आय॑न्तु नः पि॒तरः॑ सो॒म्यासो॑ऽग्निष्वा॒त्ताः प॒थिभि॑र्देव॒यानैः॑॑।
अ॒स्मिन् य॒ज्ञे स्व॒धया॒ मद॒न्त्वधि॑ ब्रुवन्तु॒ ते अ॑वन्त्व॒स्मान्॥
गोत्रान्, शर्मणः, वसुरूपान्, अस्मन्मातामहान् स्वधा नमस्तर्पयामि।

मातुः पितामहानाम्

ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृतं॒ पयः॑ की॒लालं॑ परि॒स्रुत स्व॒धा स्थ॑ तर्पयत मे पि॒तॄन्॥
गोत्रान्, शर्मणः, रुद्ररूपान्, अस्मन्मातुःपितामहान् स्वधा नमस्तर्पयामि।

पि॒तृभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑। पि॒ता॒म॒हेभ्यः॑ स्वधा॒विभ्यः॑ स्व॒धा नमः॑।
प्रपि॑तामहेभ्यः स्वधा॒विभ्यः॑ स्व॒धा नमः॑। प्रपि॑तामहेभ्यः स्वधा॒विभ्यः॑ स्व॒धा नमः॑॥
गोत्रान्, शर्मणः, रुद्ररूपान्, अस्मन्मातुःपितामहान् स्वधा नमस्तर्पयामि।

ये चे॒ह पि॒तरो॒ ये च॒ नेह याꣴश्च॑ वि॒द्म याꣳ उ॑ च॒न प्र॑वि॒द्म।
अग्ने॒ तान् वे॑॑त्थ॒ यदि॒ ते जा॑तवेद॒स्तया॑॑ प्र॒त्तꣴ स्व॒धया॑ मदन्तु॒ स्वाहा॑॑॥
गोत्रान्, शर्मणः, रुद्ररूपान्, अस्मन्मातुःपितामहान् स्वधा नमस्तर्पयामि।

मातुः प्रपितामहानाम्

मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः।
माध्वी॑॑र्नः स॒न्त्वोष॑धीः।
गोत्रान्, शर्मणः, आदित्यरूपान्, अस्मन्मातुःप्रपितामहान्, स्वधा नमस्तर्पयामि।

मधु॒ नक्त॑मु॒तोषसि॒ मधु॑म॒त्पार्थि॑व॒ रजः॑।
मधु॒ द्यौर॑स्तु नः पि॒ता॥
गोत्रान्, शर्मणः, आदित्यरूपान्, अस्मन्मातुःप्रपितामहान्, स्वधा नमस्तर्पयामि।

मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माꣳ अस्तु॒ सूर्यः॑।
माध्वी॒र्गावो॑ भवन्तु नः॥
गोत्रान्, शर्मणः, आदित्यरूपान्, अस्मन्मातुःप्रपितामहान्, स्वधा नमस्तर्पयामि।

मातामह्यादीनाम्

गोत्राः, गौरीदाः, वसुरूपाः, मातामहीः, स्वधा नमस्तर्पयामि। त्रिः॥

गोत्राः, पार्वतीदाः, रुद्ररूपाः, मातुः पितामहीः, स्वधा नमस्तर्पयामि। त्रिः॥

गोत्राः, मीनाक्षीदाः, आदित्यरूपाः, मातुः प्रपितामहीः, स्वधा नमस्तर्पयामि। त्रिः॥

ऊर्जं॒ वह॑न्तीर॒मृतं॑ घृतं॒ पयः॑ की॒लालं॑ परि॒स्रुत स्व॒धा स्थ॑ तर्पयत मे पि॒तॄन्॥
तृप्यतेति नवावरान्॥

उपवीती, प्रदक्षिणम्।

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च।
नमः स्वधायै स्वाहायै नित्यमेव नमो नमः॥

नमो॑ वः पितरो॒ रसा॑य॒ नमो॑ वः पितरः॒ शुष्मा॑य॒ नमो॑ वः पितरो जी॒वाय॒ नमो॑ वः पितरः स्व॒धायै॒ नमो॑ वः पितरो म॒न्यवे॒ नमो॑ वः पितरो घो॒राय॒ पित॑रो॒ नमो॑ वो॒ य ए॒तस्मि॑ल्लो॒के स्थ यु॒षाꣴस्तेऽनु॒ ये॑॑ऽस्मिल्लो॒के मान्तेऽनु॒ य ए॒तस्मि॑ल्लो॒के स्थ यू॒यं तेषां॒ वसि॑ष्ठा भूयास्त॒ ये॑॑ऽस्मिल्लो॒के॑ऽहं तेषां॒ वसि॑ष्ठो भूयासम्॥

नमस्कारः। वर्गद्वयपितृभ्यो नमः॥

उत्सर्जनम्

प्राचीनावीती॥

उत्ति॑ष्ठत पि॒तरः॒ प्रेत॑शूरा य॒मस्य॒ पन्था॒ मन॑वे॒ता पु॑रा॒णम्।
ध॒त्ताद॒स्मासु॒ द्रवि॑णं॒ यच्च॑ भ॒द्रं प्रणो॑ ब्रूताद्भाग॒धान् दे॒वता॑सु॥

अस्मात् कूर्चात् (सकृदाच्छिन्नबर्हिषः) वर्गद्वयपितॄन् यथास्थानं प्रतिष्ठापयामि।

उपवीती। पवित्रं कर्णे निधाय, द्विराचम्य, पवित्रं धृत्वा। प्राचीनावीती। कूर्चं विसृजेत्।

येषां न माता न पिता न बन्धुर्नान्यगोत्रिणः।
ते सर्वे तृप्तिमायान्तु मयोत्सृष्टैः कुशोदकैः॥

इति कुशोदकं निनयेत्। उपवीती। पवित्रं विसृज्याचम्य। ब्रह्मयज्ञं कुर्यात्॥

इति दर्शश्राद्धतर्पणविधिः॥