अग्निमुखम्

source: āpastambīya pūrvāpara prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

॥ अथ सर्वतन्त्रसाधारणाग्निमुखप्रयोगः ॥

उल्लेखनम्

ॐ - यत्र क्वचाग्निमुपसमाधास्यन् स्यात्, तत्राङ्गुष्ठानामिकाभ्यां संगृहीतेन शकलेन दर्भेण वा दक्षिणारम्भं प्राचीस्तिस्रो रेखाः पश्चिमारम्भमुदीचीस्तिस्रो रेखाश्च लिखित्वा, तत्र तं न्यस्याद्भिरवोक्ष्य, शकलं नैरृत्यां निरस्याप उपस्पृश्य

अग्निप्रतिष्ठा

(विहिताग्निं) भूर्भुवः॒सुव॒रोमिति प्रतिष्ठाप्य, याज्ञिकैरिन्धनैरग्निमिध्वा, प्रज्वाल्य, अथावोक्षणतोयशेषमुत्तरतः पूर्वतो वा उत्सिञ्चेत्। अथान्यदुदकं पात्रस्थं तत्रैवोपदध्यात्।

परिस्तरणम्

अथ प्रागादिप्रदक्षिणमग्निं दर्भैः परिस्तृणाति। पुरस्तात्पश्चाच्च उदगग्रैरभितः प्रागग्रैः। दक्षिणानुत्तरानुत्तरानधरान् कुर्यात्।

पात्रसादनम्

उत्तरेणाग्निं पात्रसादनार्थं प्रागग्रान् दर्भान् संस्तीर्य। तेषु द्वन्द्वं न्यञ्चि पात्राणि सादयति। प्रधानदर्वीमाज्यस्थालीं च, प्रोक्षणीपात्रं प्रणीतापात्रं च, इतरदर्वीमिध्मं च दक्षिणोदञ्चि सादयित्वा *

“सकृदेव मनुष्यसंयुक्तानि”। मनुष्यद्वारा संयुक्तानि, अश्मवासोमेखलादीनि सकृदेव क्रियाभ्यावृत्तिपरिहारेण प्रयुनक्ति॥

समावप्रच्छिन्नाग्रौ दर्भौ प्रादेशमात्रौ पवित्रे कृत्वा, तृणं काष्ठं वाऽन्तर्धाय छित्वा ऽप उपस्पृश्य, आमूलाग्रादद्भिरनुमृज्य, सपवित्रेण पाणिना पात्राणि संमृश्य, प्रोक्षणीपात्रमादाय पुरतो निधाय, पवित्रमन्तर्धाय, अप आसिच्य, उदगग्राभ्यां पवित्राभ्यां त्रिः पागुत्पूय, उत्तानानि पात्राणि कृत्वा, इध्मं च विस्रस्य, उत्तानेन सपवित्रहस्तेन त्रिः सर्वाभिरद्भिः प्रोक्ष्य, प्रोक्षणीपात्रं दक्षिणतो निधाय, प्रणीतापात्रमादाय पुरतो निधाय, पवित्रमन्तर्धायाप आसिच्य, पूर्ववत् त्रिरुत्पूयाभिमन्त्र्य, समं प्राणैर्हृत्वा, उत्तरेणाग्निं दर्भान् संस्तीर्य, तेषु प्रणीताः सादयित्वा, वरुणाय नमः सकलाराधनैः स्वर्चितम्। दर्भैः प्रच्छाद्य, पवित्रमादाय,    

ब्रह्मवरणम्

अस्मिन्नमुकहोमकर्मणि ब्रह्माणं त्वां वृणे। ब्रह्मणे नमः, सकलाराधनैः स्वर्चितम्।

आज्यसंस्कारः

(विलीनमप्याज्यं होमार्थं) अग्नावाज्यं विलाप्य, अपरेणाग्निं पवित्रान्तर्हितायामाज्यस्थाल्यामाज्यं निरुप्य, उदीचोऽङ्गारान्निरूह्य, व्यन्तान् कृत्वा, * तेष्वाज्यमधिश्रित्य, तृणेन ज्वलताऽवद्योत्य, द्वे दर्भाग्रे प्रच्छिद्य, प्रक्षाल्य, प्रत्यस्य, त्रिः पर्यग्नि कृत्वा, आज्यं कर्षन्नुदगुद्वास्य, अङ्गारान् प्रत्यूह्य, उदगग्राभ्यां पवित्राभ्यां पुनराहारमाज्यं त्रिरुत्पूय, पवित्रग्रन्थिं विस्रस्य, अप उपस्पृश्य, प्रागग्रमग्नौ प्रहरति।

“अग्न्यास्तरणमध्ये तु यदि स्यादाज्यशोधनम्।
स मूढो नरकं याति तत्क्रिया निष्फला भवेत्॥”

दर्वीपरितापः

अग्नेः पश्चाद् दर्भानास्तीर्य, तेष्वाज्यस्थालीं सादयित्वा, येन जुहोति तदग्नौ प्रतितप्य, दर्भैरितरदर्वीं प्रधानदर्वीं च क्रमेण संमृज्य, पुनः प्रतितप्य, प्रोक्ष्य, आज्यस्थाल्या उत्तरतो निधाय, दर्भानद्भिः संस्पृश्याग्नौ प्रहरति।

परिधयः

परिधिन् परिदधाति। (शम्याः परिध्यर्थे वा*) स्थविष्ठं पश्चादुदगग्रं मध्यमं निधाय। ततोऽणिष्ठं दीर्घं प्रागग्रमग्नेर्दक्षिणतो निधाय। ततोऽपि ह्रसिष्ठं कृशं प्रागग्रमगेरुत्तरतो निधाय। परिधीनन्योन्यसंसृष्टान् कृत्वा

“विवाहोपनयनसमावर्तनसीमन्तचौळगोदानप्रायश्चित्तेषु” सप्तस्वेव शम्याः। अन्यत्र परिधय एवेति। तत्र च, सीमन्तविकारे पुंसुवनेऽपि परिधय इति। शम्याः युगकीलका भवन्ति। ताश्च पलाशादीनामन्यतमेन कॢप्ताः परिधिस्थौल्यायामाः॥

आघारसमिधौ

मध्यमं परिधिं दक्षिणहस्तेनोपस्पृश्य, अग्नेर्दक्षिणपूर्वोत्तरपूर्वदेशयोराघारसमिधौ निधाय,    

परिषेचनम्

अथाग्निं परिषिञ्चति। अदि॒तेऽनु॑मन्यस्व। अनु॑म॒तेऽनु॑मन्यस्व। सर॑स्व॒तेऽनु॑मन्यस्व। देव॑ सवितः॒ प्रसु॑व। अग्निमलङ्कृत्य,

इध्माधानम्

इध्ममादाय, आजेनाभ्यज्य, अस्मिन्नमुकहोमकर्मणि ब्रह्मन्निध्ममाधास्ये। इतरदर्व्या आज्यं गृहीत्वा, प्रजापतिं मनसा ध्यायन्नाघारावाघारयति।

“उत्तरं परिधिसन्धिमन्ववहृत्य, दक्षिणाप्राञ्चमृजुं सन्ततं ज्योतिष्ठात्याऽऽघारमाघारयन् सर्वाणीध्मकाष्ठानि सꣴस्पर्शयति” (स्वाहा) प्रजापतय इदम्। प्रधानदर्व्या “दक्षिणं परिधिसन्धिमन्ववहृत्य, प्राञ्चमुदञ्चमृजुं सन्ततमाघारयति” (स्वाहा) इन्द्रायेदम्।

आज्यभागौ

अथाज्यभागौ जुहोति। अ॒ग्नये॒ स्वाहा॑॑। उत्तरार्धपूर्वार्धे। अग्नय इदम्॥ सोमा॑य॒ स्वाहा॑॑। दक्षिणार्धपूर्वार्धे। सोमायेदम्॥

अग्निमुखम्

** (अग्निमुखं जुहोति। अ॒ग्नये॒ स्वाहा॑॑। अग्नय इदम्)

विवाहोपनयनादिषु सप्तसु आज्यभागान्तमेव पूर्वतन्त्रम्। अन्येषु तु उपाकर्मव्रतेषु चरुकर्मसु च आघारसंभेदेन अग्निमध्ये अग्नये स्वाहेति मुखाहुतिं जुहुयात्। न मुखं पुंसुवनागारप्रवेशयोः॥

प्रायश्चित्तहोमः

सङ्कल्पप्रभृत्येतत्क्षणपर्यन्तं मध्ये संभावितसमस्तविध्यपराधप्रायश्चित्तार्थं सर्वप्रायश्चित्तं होष्यामि। ॐ भूर्भुवः॒ सुवः॒ स्वाहा॑॑। प्रजापतये इदम्॥

प्रधानाहुतयः

अथ यथोपदेशं प्रधानाहुतीर्जुहोति। येन येन मन्त्रेण हविरादिविधिना विवाहादिषु प्रधानाहुतय उपदिष्टाः, तेन तेन विधानेन जुहुयात्।    

स्विष्टकृतम्

तत्र चरुकर्मसु प्रधानाहुतीर्हुत्वा, चरुणा अ॒ग्नये॑ स्विष्ट॒कृते॒ स्वाहे॑॑ति स्विष्टकृतं जुहुयात्।

जयाः

** एतत्कर्मसमृद्ध्यर्थं जयादिहोमं करिष्ये॥

सू॥ “जयाभ्यातानान् राष्ट्रभृतः प्राजापत्यां व्याहृतीर्विहृताः सौविष्टकृतीमित्युपजुहुयात्”

(१) चि॒त्तं च॒ स्वाहा॑॑। चित्तायेदम्।
(२) चित्ति॑श्च॒ स्वाहा॑॑। चित्त्या इदम्।
(३) आकू॑तं च॒ स्वाहा॑॑। आकूतायेदम्।
(४) आकू॑तिश्च॒ स्वाहा॑॑। आकूत्या इदम्।
(५) विज्ञा॑तं च॒ स्वाहा॑॑। विज्ञातायेदम्।
(६) वि॒ज्ञानं॑ च॒ स्वाहा॑॑। विज्ञानायेदं न मम।
(७) मन॑श्च॒ स्वाहा॑॑। मनस इदम्।
(८) शक्व॑रीश्च॒ स्वाहा॑॑। शक्वरीभ्य इदम्।
(९) दर्श॑श्च॒ स्वाहा॑॑। दर्शायेदम्।
(१०) पू॒र्णमा॑सश्च॒ स्वाहा॑॑। पूर्णमासायेदम्।
(११) बृ॒हच्च॒ स्वाहा॑॑। बृहत इदम्।
(१२) र॒थ॒न्त॒रं च॒ स्वाहा॑॑। रथन्तरायेदम्।
(१३) प्र॒जाप॑ति॒र्जया॒न्द्रिया॑य॒वृष्णे॒ प्राय॑च्छदु॒ग्रः पृ॑त॒नाज्ये॑षु॒ तस्मै॒ विशः॒ सम॑नमन्त॒ सर्वाः॒ सः उ॒ग्रः स हि॒ हव्यो॑ ब॒भूब॒ स्वाहा॑॑। प्रजापतय इदम्।

अभ्यातानाः

(१) अ॒ग्निर्भू॒ताना॒मधि॑पतिः॒ स मा॑ऽवत्व॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे॑॑ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू॑॑त्या॒ꣴ स्वाहा॑॑। अग्नय इदम्।

(२) इन्द्रो॑॑ ज्ये॒ष्ठाना॒मधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। इन्द्रायेदम्।
(३) य॒मः पृ॑थि॒व्या अधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। यमायेदम्।
(४) वा॒युर॒न्तरि॑क्ष॒स्याधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। वायव इदम्।
(५) सूर्यो॑ दि॒वोऽधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। सूर्यायेदम्।
(६) च॒न्द्रमा॒ नक्ष॑त्राणा॒मधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। चन्द्रमस इदम्।
(७) बृह॒पति॒र्ब्रह्म॒णोऽधि॑पतिः स मा॑ऽवतु + स्वाहा॑॑। बृहस्पतय इदम्।
(८) मि॒त्रः स॒त्याना॒मधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। मित्रायेदम्।
(९) वरु॑णो॒ऽपामधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। वरुणायेदम्।
(१०) स॒मु॒द्रः स्रो॒त्याना॒मधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। समुद्रायेदम्।
(११) अन्न॒ꣳ साम्रा॑॑ज्याना॒मधि॑पति॒ तन्मा॑वतु + स्वाहा॑॑। अन्नायेदम्।
(१२) सोम॒ ओष॑धीना॒मधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। सोमायेदम्।
(१३) स॒वि॒ता प्र॑स॒वाना॒मधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। सवित्र इदम्।
(१४) रु॒द्रः प॑शू॒नामधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। रुद्रायेदं न मम। (अप उपस्पृश्य)
(१५) त्वष्टा॑ रू॒पाणा॒मधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। त्वष्ट्र इदं न मम।
(१६) विष्णुः॒ पर्व॑ताना॒मधि॑पतिः॒ स मा॑ऽवतु + स्वाहा॑॑। विष्णव इदम्।
(१७) म॒रुतो॑ ग॒णाना॒मधि॑पतय॒स्ते मा॑ऽवन्तु + स्वाहा॑॑। मरुद्भ्य इदम्।
(१८) पित॑रः पितामहाः परेऽवरे॒ तता॑॑स्ततामहा इ॒ह मा॑ऽवत। अ॒स्मिन् ब्रह्म॑न्न॒स्मिन् क्ष॒त्रे॑॑ऽस्यामा॒शिष्य॒स्यां पु॑रो॒धाया॑म॒स्मिन् कर्म॑न्न॒स्यां दे॒वहू॑॑त्या॒ꣴ स्वाहा॑॑। पितृभ्य इदम्॥ (अप उपस्पृश्य)

राष्ट्रभृतः

(१) ऋ॒ता॒षाडृ॒तधा॑मा॒ग्निर्ग॑न्ध॒र्वः तस्यौष॑धयोऽप्स॒रस॒ ऊर्जो॒ नाम॒
स इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ ता इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑॑न्तु॒ तस्मै॒ स्वाहा॑॑।
अग्नये गन्धर्वायेदम्। ताभ्यः॒ स्वाहा॑॑। ओषधीभ्य अपसरोभ्य इदम्॥

(२) स॒ꣳहि॒तो वि॒श्वसा॑मा॒ सूर्यो॑ गन्ध॒र्वस्तस्य॒ मरी॑चयोऽप्स॒रस॑ आ॒युवो॒ नाम॒ + स्वाहा॑॑।
सूर्याय गन्धर्वायेदम्॥ ताभ्यः॒ स्वाहा॑॑। मरीचिभ्योऽप्ससोभ्य इदम्॥

(३) सु॒षु॒म्नः सूर्य॑रश्मिश्च॒न्द्रमा॑ गन्ध॒र्वस्तस्य॒ नक्ष॑त्राण्यपस॒रसो॑ बे॒कुर॑यो॒ नाम॒ + स्वाहा॑॑।
चन्द्रमसे गन्धर्वायेदम्। ताभ्यः॒ स्वाहा॑॑। नक्षत्रेभ्योऽप्सरोभ्य इदम्॥

(४) भु॒ज्युः सु॑प॒र्णो य॒ज्ञो ग॑न्ध॒र्वस्तस्य॒ दक्षि॑णा अप्स॒रसः॑ स्त॒वा नाम॒ + स्वाहा॑॑।
यज्ञाय गन्धर्वायेदम्। ताभ्यः॒ स्वाहा॑॑। दक्षिणाभ्योऽप्सरोभ्य इदम्॥

(५) प्र॒जाप॑तिर्वि॒श्वक॑र्मा॒ मनो॑ गन्ध॒र्वस्तस्य॑र्क्सा॒मान्य॑प्स॒रसो॒ वह्न॑यो॒ नाम॒ + स्वाहा॑॑।
मनसे गन्धर्वायेदम्। ताभ्यः॒ स्वाहा॑॑। ऋक्सामेभ्योऽप्सरोभ्य इदम्॥

(६) इ॒षि॒रो वि॒श्वव्य॑चा॒ वातो॑ गन्ध॒र्वस्तस्याऽऽपो॑॑ऽप्स॒रसो मु॒दा नाम॒ + स्वाहा॑॑।
वाताय गन्धर्वायेदम्। ताभ्यः॒ स्वाहा॑॑। अद्भ्योऽप्सरोभ्यः इदम्॥

(७) भुव॑नस्य पते॒ यस्य॑ ते उ॒परि॑ गृ॒हा इ॒ह च॑।
स नो॑ रास्वाऽज्या॑निंꣳ रा॒यस्पोष॑ꣳ सु॒वीर्य॑ꣳ संवत्स॒रिणा॑ꣳ स्व॒स्ति स्वाहा॑॑॥ भुवनस्य पत्य इदं॥

(८) प॒र॒मे॒ष्ठ्यधि॑पतिर्मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॒ विश्व॑मप्स॒रसो॒ भुवो॒ नाम॒ + स्वाहा॑॑।
मृत्यवे गन्धर्वायेदम्। ताभ्य॒ स्वाहा॑॑। विश्वस्मा अप्सरोभ्य इदम्॥

(९) सु॒क्षि॒तिः सुभू॑तिर्भद्र॒कृत् सुव॑र्वान् प॒र्जन्यो॑ गन्ध॒र्वस्तस्य॑ वि॒द्युतो॑॑ऽप्स॒रसो॒ रुचो॒ नाम॒ + स्वाहा॑॑। पर्जन्याय गन्धर्वाय इदम्। ताभ्य॒ स्वाहा॑॑। विद्युद्भ्योऽप्सरोभ्य इदम्॥

(१०) दू॒रे हे॑तिरमृड॒यो मृ॒त्युर्ग॑न्ध॒र्वस्तस्य॑ प्र॒जा अ॑प्स॒रसो भी॒रुवो॒ नाम॒ + स्वाहा॑॑।
मृत्यवे गन्धर्वायेदम्। ताभ्य॒ स्वाहा॑॑। प्रजाभ्यऽप्सरोभ्य इदम्॥

(११) चारुः॑ कृपणका॒शी कामो॑ गन्ध॒र्वस्तस्या॒धयो॑॑ऽप्स॒रसः॑ शो॒चय॑न्ती॒र्नाम॒ + स्वाहा॑॑।
कामाय गन्धर्वायेदम्। ताभ्य॒ स्वाहा॑॑। आधिभ्यऽप्सरोभ्य इदम्॥

(१२) स नो॑ भुवनस्य पते॒ यस्य॑ त उ॒परि॑ गृ॒हा इ॒ह च॑।
उ॒रु ब्रह्म॑णे॒ऽस्मै क्ष॒त्राय॒ महि॒ शर्म॑ यच्छ॒ स्वाहा॑॑॥ भुवनस्य पत्यै ब्रह्मण इदम्॥

प्रजापत्या

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भू॒व।
यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाꣴ स्वाहा॑॑। प्रजापतय इदं न मम॥

व्याहृतयः

भूः स्वाहा॑॑। अग्नय इदं न मम॥
भुवः॒ स्वाहा॑॑। वायव इदं न मम॥
सुवः॒ स्वाहा॑॑। सूर्याय इदं न मम॥   

सौविष्टकृती

यद॑स्य॒ कर्म॒णोऽत्यरी॑रिचं॒ यद्वा॒ न्यू॑मि॒हाक॑रम्। अग्नि॒ष्टत् स्वि॑ष्ट॒कृद् वि॒द्वान् सर्व॒ꣴस्वि॑ष्टं॒ꣳल् सुहु॑तं करोतु॒ स्वाहा॑॑। अग्नये स्विष्टकृत इदम्॥

परिध्यञ्जनं, लेपकार्यम्

** चरुकर्मसु प्रधानदर्व्याज्येन निधानक्रमात् परिध्यञ्जनं कृत्वा, लेपकार्यं कुर्यात्।

विवाहादिषु सप्तसु शम्या अपोह्य, व्याहृतीर्हुत्वा अनाज्ञातादि जुहुयात्॥

आज्यस्थाल्या दक्षिणतः प्रधानदर्वीं निधाय, इतरदर्वीं मध्ये निधाय, पात्रसादनार्थदर्भानादाय, प्रधानदर्व्यामग्रं इतरस्यां मध्यं आज्यस्थाल्यां मूलमित्युदगपवर्गं क्रमेण त्रिरक्त्वा, अक्तस्य बर्हिषस्तृणमपादाय, प्रज्ञातं निधाय, दक्षिणोत्तराभ्यां पाणिभ्यां प्रधानदर्व्यां बर्हिः प्रतिष्ठाप्य, दक्षिणेन करेणाग्नौ प्रहरति। त्रिरुद्यम्य, अपात्ततृणमग्नौ प्रहरति। तत्त्रिरङ्गुल्या निर्दिश्य, अग्निमभिमन्त्रयेत्।

परिधिप्रह्रारः

अथ मूमिमुपस्पृश्य, परिधीन् प्रहरति। मध्यं परिधिमग्नौ प्रगृह्य, अन्यौ परिधी हस्ताभ्यामादाय युगपदग्नौ प्रहरन्नुत्तरार्ध्यस्याग्रमङ्गारेषूपोहति॥ *

चरुतन्त्रव्यतिरिक्तव्रतादिषु च परिध्यञ्जनं कृत्वा, परिधीन् प्रगृह्य, सꣴस्रावं जुहोति। यत्र परिधिप्रहरणं विहितं तत्रैव सꣴस्रावहोमः॥

संस्रावहोमः

दर्वीद्वयेन सꣴस्रावं परिधीनभिजुहोति।
(स्वाहा॑॑) वसुभ्यो रुद्रेभ्य आदित्येभ्यः सꣴस्रावभागेभ्य इदम्।
ॐ भूर्भुवः॒सुवः॒ स्वाहा॑॑। प्रजापतय इदम्॥ 

अविज्ञातप्रायश्चित्तहोमः

(सङ्कल्पः) अस्मिन्नमुकहोमकर्मणि अविज्ञातप्रायश्चित्तादीनि होष्यामि।

(१) अना॑॑ज्ञातं॒ यदाज्ञा॑तं य॒ज्ञस्य॑ क्रि॒यते॒ मिथु॑।
अग्ने॒ तद॑स्य कल्पय॒ त्वꣳ हि वेत्थ॑ यथात॒थꣴ स्वाहा॑॑। अग्नय इदम्॥

(२) पुरु॑षसंमितो य॒ज्ञो य॒ज्ञः पुरु॑षसंमितः।
अग्ने॒ तद॑स्य कल्पय॒ त्वꣳ हि वेत्थ॑ यथात॒थꣴ स्वाहा॑॑। अग्नय इदम्॥

(३) यत्पा॑क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ म॒न्वते॒ मर्ता॑सः।
अ॒ग्निष्टद्धोता॑॑ क्रतु॒विद् वि॑जा॒नन् यजि॑ष्ठो दे॒वाꣳ ऋ॑तु॒शो य॑जाति॒ स्वाहा॑॑। अग्नय इदम्॥

** भूः स्वाहा॑॑। अग्नय इदं न मम॥ भुवः॒ स्वाहा॑॑। वायव इदं न मम॥ सुवः॒ स्वाहा॑॑। सूर्याय इदं न मम॥ ॐ भूर्भुवः॒सुवः॒ स्वाहा॑॑। प्रजापतय इदम्॥

त्वन्नो अग्ने स त्वन्नो अग्न इति सर्वत्रान्तरा ये विपर्यासे चैते आहुती जुहोतीत्येके॥

सर्वप्रायश्चित्तहोमः

अस्मिन्नमुकहोमकर्मणि मध्ये सम्भावितसमस्तमन्त्रलोपतन्त्रलोपद्रव्यलोप-क्रियालोपाज्यलोपन्यूनातिरेकविस्मृतिविपर्यासप्रायश्चित्तार्थं सर्वप्रायश्चित्तं होष्यामि। ॐ भूर्भुवः॒सुवः॒ स्वाहा॑॑। प्रजापतय इदम्॥

श्रीविष्णवे स्वाहा॑॑। विष्णवे परमात्मन इदम्॥

नमो॑ रु॒द्राय॑ पशु॒पत॑ये॒ स्वाहा॑॑। रुद्राय पशुपतय इदम्॥ अप उपस्पृश्य॥

स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वाः स॒प्तर्ष॑यः स॒प्त धाम॑ प्रि॒याणि॑। स॒प्त होत्राः॑॑ सप्त॒धा त्वा॑ यजन्ति स॒प्त योनी॒रा पृ॑णस्वा घृ॒तेन॒ स्वाहा॑॑॥ अग्नये सप्तवत इदम्॥

परिषेचनम्

आज्यपात्रादीनुत्तरतो निधाय। प्राणायामं कृत्वा, अग्निं परिषिञ्चति। अदि॒तेऽन्व॑मꣴस्थाः। अनु॑म॒तेऽन्व॑मꣴस्थाः। सर॑स्व॒तेऽन्व॑मꣴस्थाः। देव॑ सवितः॒ प्रासा॑वीः। 

दिशां मार्जनम्

अथ वरुणपात्रमादाय पुरतो निधाय, तस्मिन् पात्रान्तरेण जलं संस्राव्य, तज्जलं प्रागादिप्रदक्षिणं प्रतिदिशं दक्षिणहस्तेन मार्जयित्वा, ऊर्ध्वं चोत्क्षिप्य, भूमौ किञ्चिज्जलं प्राङ् निनीय, तेनात्मानं पत्नीं च प्रोक्ष्य,

वरदानम्

ब्रह्मन् वरं ते ददामि। ब्रह्मणे नमः। सकलाराधनैः स्वर्चितम्॥

उपस्थानम्

** स्वाहा॑॑॥ इत्यग्नौ समिधमाधाय, अग्ने नयेत्यग्निसूक्तेनाग्निमुपस्थाय प्रणम्याभिवादयेत्॥

यत्र क्वचेत्याद्याज्यभागान्तं पुरस्तात्तन्त्रम्। जयादिपरिषेचनान्तमुपरिष्टात्तन्त्रमित्युत्सर्गः। तयोर्मध्ये हूयमानाः प्रधानहोमाः इति॥

॥ इत्यग्निमुखविधिः समाप्तः॥

अग्निसूक्तम्

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम॥१॥

आ दे॒वाना॒मपि॒ पन्था॑मगन्म॒ यच्छ॒क्नवा॑म॒ तदनु॒ प्रवो॑ढुम्।
अ॒ग्निर्वि॒द्वान् स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान् स ऋ॒तून् क॑ल्पयाति॥२॥

यद्वाहि॑ष्ठं॒ तद॒ग्नये॑ बृ॒हद॑र्च विभावसो।
महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी॑रते॥३॥

अग्ने॒ त्वं पा॑रया॒ नव्यो॑ अ॒स्मान् स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा॑॑।
पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा॑ तो॒काय॒ तन॑याय॒ शं योः॥४॥

त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा।
त्वं य॒ज्ञेष्वीड्यः॑॥५॥

यद्वो॑ व॒यं प्र॑मि॒नाम॑ व्र॒तानि॑ वि॒दुषां॑॑ देवा॒ अवि॑दुष्टरासः।
अ॒ग्निष्टद् विश्व॒मा पृ॑णाति वि॒द्वान् येभि॑र्दे॒वाꣳ ऋ॒तुभिः॑ क॒ल्पया॑ति॥६॥