महान्यासः

source: महान्यासः सस्वरः
author: T.M नारायणशास्त्री
publisher: शारदाविलासः (kumbakonam)
script: grantha

न्यासानुक्रमणिका

अथ पञ्चाङ्गरुद्रन्यासः

इमं पञ्चाङ्गरुद्रन्यासं पञ्चाङ्गमुखन्यासं च बोधायनेन अनुक्तमपि महान्यासारम्भे केचित् पठन्ति। वदन्ति च रावणोक्तमिदं न्यासद्वयमिति॥

नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑॥
या त॒ इषुः॑ शि॒वत॑मा शि॒वं ब॒भूव॑ ते॒ धनुः॑।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय॥

कं खं गं घं ङं। यरलवशषसहोम्।
ॐ नमो भगवते रुद्राय। पूर्वाङ्गरुद्राय नमः॥१॥

अपै॑तु मृ॒त्युर॒मृतं॑ न॒ आग॑न्वैवस्व॒तो नो॒ अभ॑यं कृणोतु।
प॒र्णं वन॒स्पते॑रिवा॒भि नः॑ शीयताꣳ र॒यिः सच॑तां नः॒ शची॒पतिः॑॥

चं छं जं झं ञं। यरलवशषसहोम्॥
ॐ नमो भगवते रुद्राय। दक्षिणाङ्गरुद्राय नमः॥२॥

निध॑नपतये॒ नमः। निध॑नपतान्तिकाय॒ नमः।
ऊर्ध्वाय॒ नमः। ऊर्ध्वलिङ्गाय॒ नमः।
हिरण्याय॒ नमः। हिरण्यलिङ्गाय॒ नमः।
सुवर्णाय॒ नमः। सुवर्णलिङ्गाय॒ नमः।
दिव्याय॒ नमः। दिव्यलिङ्गाय॒ नमः।
भवाय॒ नमः। भवलिङ्गाय॒ नमः।
शर्वाय॒ नमः। शर्वलिङ्गाय॒ नमः।
शिवाय॒ नमः। शिवलिङ्गाय॒ नमः।
ज्वलाय॒ नमः। ज्वललिङ्गाय॒ नमः।
आत्माय॒ नमः। आत्मलिङ्गाय॒ नमः।
परमाय॒ नमः। परमलिङ्गाय॒ नमः।
एतत्सोऽमस्य॑ सूर्य॒स्य॒ सर्वलिङ्ग॑ꣴ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम्॥

टं ठं डं ढं णं। यरलवशषसहोम्॥
ॐ नमो भगवते रुद्राय। पश्चिमाङ्गरुद्राय नमः॥३॥

यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒
यो रु॒द्रो विश्वा॒ भुव॑नाऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥

तं थं दं धं नं। यरलवशषसहोम्॥
ॐ नमो भगवते रुद्राय। उत्तराङ्गरुद्राय नमः॥४॥

प्राणानां ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः।
तेनान्नेना॑॑प्याय॒स्व। नमो रुद्राय विष्णवे मृत्यु॑र्मेपा॒हि॥

पं फं बं भं मं। यरलवशषसहोम्॥
ॐ नमो भगवते रुद्राय। ऊर्ध्वाङ्गरुद्राय नमः॥५॥

अथ पञ्चाङ्गमुखन्यासः

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि।
तन्नो॑ रुद्रः प्रचो॒दया॑॑त्॥

संवर्ताग्नि-तडित्प्रदीप्तकनक-प्रस्पर्धितेजोरुणम्
गम्भीरध्वनि-सामवेदजनकं ताम्राधरं सुन्दरम्।
अर्धेन्दुद्युति-लोलपिङ्गलजटाभार-प्रबद्धोदकं
वन्दे सिद्धसुरासुरेन्द्र-नमितं पूर्वं मुखं शूलिनः।
ॐ नमो भगवते रुद्राय। पूर्वाङ्गमुखाय नमः॥१॥

अ॒घोरे॑॑भ्योऽथ॒ घोरे॑॑भ्यो॒ घोर॒ घोर॑तरेभ्यः।
सर्वे॑॑भ्यः सर्व॒ शर्वे॑॑भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः॥

कालाभ्रभ्रमराञ्जन-द्युतिनिभं व्यावृत्तपिङ्गेक्षणं
कर्णोद्भासित-भोगिमस्तक-मणिप्रोद्भिन्न-दंष्ट्राङ्कुरम्।
सर्पप्रोतकपाल-शुक्तिशकल-व्याकीर्णताशेखरं
वन्दे दक्षिणमीश्वरस्य वदनं चाथर्वनादोदयम्॥
ॐ नमो भगवते रुद्राय। दक्षिणाङ्गमुखाय नमः॥२॥

स॒द्योजा॒तं प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑।
भ॒वेभ॑वे॒ नाति॑भवे भवस्व॒ माम्। भ॒वोद्भ॑वाय॒ नमः॑॥

प्रालेयामलमिन्दुकुुन्दधवलं गोक्षीरफेनप्रभं
भस्माभ्यङ्गमनङ्गदेहदहन-ज्वालावली-लोचनम्।
विष्णुब्रह्ममरुद्गणार्चितपदं चर्ग्वेदनादोदयं
वन्देऽहं सकलं कलङ्करहितं स्थाणोर्मुखं पश्चिमम्।
ॐ नमो भगवते रुद्राय। पश्चिमाङ्गमुखाय नमः॥३॥

वा॒म॒दे॒वाय॒ नमो॑॑ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑॥

गौरं कुङ्कुमपङ्किलं सुतिलकं व्यापाण्डुगण्डस्थलं
भ्रूविक्षेप-कटाक्षवीक्षणलसत्-संसक्त-कर्णोत्पलम्।
स्निग्धं बिम्बफलाधरं प्रहसितं नीलालकालङ्कृतं
वन्दे याजुषवेदघोषजनकं वक्त्रं हरस्योत्तरम्॥
ॐ नमो भगवते रुद्राय। उत्तराङ्गमुखाय नमः॥४॥

ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्॥

व्यक्ताव्यक्तनिरूपितं च परमं षट्त्रिंशतत्वात्मकं
तस्मादुत्तम-तत्त्वमक्षरमिति ध्येयं सदा योगिभिः॥
ओङ्कारादिसमस्तमन्त्रजनकं सूक्ष्मातिसूक्ष्मं परं
वन्दे पञ्चममीश्वरस्य वदनं खव्यापि-तेजोमयम्।
ॐ नमो भगवते रुद्राय। ऊर्ध्वाङ्गमुखाय नमः।

महान्यासमन्त्रपाठप्रारम्भः

अथ शिखाद्यस्त्रान्तमेकत्रिंशदङ्गन्यासः प्रथमः

या ते॑ रुद्र शि॒वा त॒नूरघो॒रापा॑पकाशिनी।
तया॑ नस्त॒नुवा॒ शन्त॑मया॒ऽगिरि॑शन्ता॒भि चा॑कशीहि॥
शिखायै नमः॥१॥

अ॒स्मिन् म॑ह॒त्य॑र्ण॒वे॑॑ऽन्तरि॑क्षे भ॒वा अधि॑।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि॥
शिरसे नमः॥२॥

स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या॑॑म्।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि॥
ललाटाय नमः॥३॥

ह॒ꣳसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्।
नृ॒षद्व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्॥
भ्रुवोर्मध्याय नमः॥४॥

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑॑त्॥
नेत्राभ्यां नमः॥५॥

नमः॒ स्रुत्या॑य च॒ पथ्या॑य च॥ (नमः॑ का॒ट्या॑य च नी॒प्या॑य च नमः॒ सूद्या॑य च सर॒स्या॑य च॒ नमो॑ ना॒द्याय॑ च वैश॒न्ताय॑ च)
कर्णाभ्यां नमः॥६॥

कोशान्तरेष्वनुपलब्धाः बोधायनेनानुक्ताः प्रक्षिप्ताश्च मन्त्रन्यासादयः कुण्डलचिह्नेनाङ्किताः॥

मान॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः।
वी॒रान्मा नो॑ रुद्र भामि॒तो ऽव॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते॥
नासिकायै नमः॥७॥

अ॒व॒तत्य॒ धनु॒स्तवꣳ सह॑स्राक्ष॒ शते॑षुधे।
नि॒शीर्य॑ श॒ल्यानां॒ मुखा॑ शि॒वो नः॑ सु॒मना॑ भव॥
मुखाय नमः॥८॥

नील॑ग्रीवाः शिति॒कण्ठाः॑॑ श॒र्वा अ॒धः क्ष॑माच॒राः।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि॥
(कण्ठाय नमः॥)

नील॑ग्रीवाः शिति॒कण्ठा॒ दिव॑ꣳ रु॒द्रा उप॑श्रिताः।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि॥
(उप)कण्ठाय नमः॥९॥

नम॑स्ते अ॒स्त्वायु॑धा॒याना॑तताय धृ॒ष्णवे॑॑।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्यां॒ तव॒ धन्व॑ने॥
बाहुभ्यां नमः॥१०॥

या ते॑ हे॒तिर्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑।
तया॒ऽस्मान् वि॒श्वत॒स्त्वम॑य॒क्ष्मया॒या॒ परि॑ब्भुज॥
उपबाहुभ्यां नमः॥११॥

परि॑णो रु॒द्रस्य॑ हे॒तिर्वृ॑णक्तु॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः।
अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय॥
मणिबन्धाभ्यां नमः॥१२॥

ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि॥
हस्ताभ्यां नमः॥१३॥

स॒द्योजा॒तं प्र॑प्रद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम्। भ॒वोद्भ॑वाय॒ नमः॑॥
अङ्गुष्ठाभ्यां नमः॥

वा॒म॒दे॒वाय॒ नमो॑॑ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑॥
तर्जनीभ्यां नमः॥

अ॒घोरे॑॑भ्योऽथ॒ घोरे॑॑भ्यो॒ घोर॒ घोर॑तरेभ्यः।
सर्वे॑॑भ्यः सर्व॒ शर्वे॑॑भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः॥
मध्यमाभ्यां नमः॥

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि।
तन्नो॑ रुद्रः प्रचो॒दया॑॑त्॥
अनामिकाभ्यां नमः॥

ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्॥
कनष्ठिकाभ्यां नमः॥१४॥

नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ हृद॑येभ्यः॥
हृदयाय नमः॥१५॥

(ये वृ॒क्षेषु॑ स॒स्पिञ्ज॑रा॒ नील॑ग्रीवा॒ विलो॑हिताः॥
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि।
उदराय नमः॥

नमः॑ शं॒भवे॑ च मयो॒भवे॑ च॥
कक्षाभ्यां नमः॥)

नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमः॑॥
पृष्ठाय नमः॥१६॥

(नम॒स्तक्ष॑भ्यो रथका॒रेभ्य॑श्च वो॒ नमः॑॥
कक्षाभ्यां नमः॥)

नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमः॑॥
पार्श्वाभ्यां नमः॥१७॥

विज्यं॒ धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाꣳ उ॒त।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑॥
जठराय नमः॥१८॥

हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्।
स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥
नाभ्यै नमः॥१९॥

मीढु॑ष्टम॒ शिव॑तम शि॒वो नः॑ सु॒मना॑ भव।
प॒र॒मे वृ॒क्ष आयु॑धं नि॒धाय॒ कृत्तिं॒ वसा॑न॒ आच॑र॒ पिना॑कं॒ बिभ्र॒दाग॑हि॥
कट्यै नमः॥२०॥

ये भू॒ताना॒मधि॑पतयो विशि॒खासः॑ कप॒र्दिनः॑।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि।
गुह्याय नमः॥२१॥

(ये अन्ने॑षु वि॒विध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जना॑न्।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि॥
अण्डाभ्यां नमः॥)

सशि॒रा जा॒तवे॑दा अ॒क्षरं॑ पर॒मं प॒दम्।
वेदा॑ना॒ꣳ शिर॑सि मा॒ताऽऽयु॑ष्मन्तं करोतु॒ माम्॥
अपानाय नमः॥२२॥

अत्र “जातवेदसे सुनवाम” इत्यादृक्पञ्चक्स्य न्यासो युक्तः।

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम्।
मा नो॑ऽवधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः॥
ऊरुभ्यां नमः॥२३॥

ए॒ष ते॑ रुद्र भा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रोमूज॑व॒तोऽती॒ह्यव॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः॥
जानुभ्यां नमः॥२४॥

स॒ꣳ सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒ध्यू॑॑र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑॑।
बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हामित्रा॑ꣳ अप॒बाध॑मानः॥
जङ्घाभ्यां नमः॥२५॥

विश्वं॑ भू॒तं भुव॑नं चि॒त्रं ब॑हु॒धा जा॒तं जाय॑मानं च॒ यत्।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॥
गुल्फाभ्यां नमः॥२६॥

ये प॒थां प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि॥
पादाभ्यां नमः॥२७॥

अध्य॑वोचदधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक्।
अही॑ꣴश्च॒ सर्वा॑॑ञ्ज॒म्भय॒न् सर्वा॑॑श्च यातुधा॒न्यः॑॥
कवचाय हुम्॥२८॥

नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च (नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च)॥
उपकवचाय हुम्॥२९॥

नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे॑॑।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒ऽहं तेभ्यो॑ऽकरं॒ नमः॑॥
तृतीयनेत्राय वौषट्॥३०॥

प्रमु॑ञ्च॒ धन्व॑न॒स्त्वमु॒भयो॒रार्त्नि॑यो॒र्ज्याम्।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप॥
अस्त्राय फट्॥३१॥

य ए॒ताव॑न्तश्च॒ भूया॑ꣳसश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे।
तेषा॑ꣳ सहस्रयोज॒नेऽव॒धन्वा॑नि तन्मसि॥
(इति दिग्बन्धः)॥३२॥

अथ मूर्धादिपादान्तं दशाङ्गन्यासो द्वितीयः

ॐ मूर्ध्ने नमः॥१॥
नं नासिकायै नमः॥२॥
मों ललाटाय नमः॥३॥
भं मुखाय नमः॥४॥
गं कण्ठाय नमः॥५॥
वं हृदयाय नमः॥६॥
तें दक्षिणहस्ताय नमः॥७॥
रुं वामहस्ताय नमः॥८॥
द्रां नाभ्यै नमः॥९॥
यं पादाभ्यां नमः॥१०॥

अथ पादादिमूर्धान्तं पञ्चाङ्गन्यासस्तृतीयः

स॒द्योजा॒तं प्र॑प्रद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम्। भ॒वोद्भ॑वाय॒ नमः॑॥
पादाभ्यां नमः॥१॥

वा॒म॒दे॒वाय॒ नमो॑॑ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नमः॒ सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑॥
ऊरु(मध्या)भ्यां नमः॥२॥

अ॒घोरे॑॑भ्योऽथ॒ घोरे॑॑भ्यो॒ घोर॒ घोर॑तरेभ्यः।
सर्वे॑॑भ्यः सर्व॒ शर्वे॑॑भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः॥
हृदयाय नमः॥३॥

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि।
तन्नो॑ रुद्रः प्रचो॒दया॑॑त्॥
मुखाय नमः॥४॥

ईशानः सर्व॑विद्या॒ना॒मीश्वरः सर्व॑भूता॒नां॒ ब्रह्माधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम्॥
मूर्ध्ने नमः॥५॥

अथ हंसगायत्री

अयं हंसहायत्रीस्तोत्रमन्त्रः बोधायनेन नोक्तः। आधुनिककोशेषु परमुपलभ्यते॥

अस्य श्री हंसगायत्री-स्तोत्र-महामन्त्रस्य। अव्यक्तपरब्रह्म ऋषिः। अव्यक्तगायत्रीच्छन्दः। परमहंसो देवता। हंसां बीजं। हंसीं शक्तिः। हंसूं कीलकम्। परमहंस प्रसादसिध्यर्थे जपे विनियोगः।

हंसां अङ्गुष्ठाभ्यां नमः। हंसीं तर्जनीभ्यां नमः। हंसूं मध्यमाभ्यां नमः। हंसैं अनामिकाभ्यां नमः। हंसौं कनिष्ठिकाभ्यां नमः। हंसः करतलकरपृष्ठाभ्यां नमः।

हंसां हृदयाय नमः। हंसीं शिरसे स्वाहा। हंसूं शिखायै वषट्। हंसैं कवचाय हुं। हंसौं नेत्रत्रयाय वौषट्। हंसः अस्त्राय फट्। भूर्भुवस्सुवरोमिति दिग्बन्धः।

ध्यानम्

गमागमस्थं गमनादिशून्यं चिद्रूपदीपं तिमिरापहारम्।
पश्यामि तं सर्वजनान्तरस्थं नमामि हंसं परमात्मरूपम्।

(देहो देवालयः प्रोक्तो जीवो देवः सनातनः।
त्जयेदज्ञाननिर्माल्यं सोऽहं भावेन पूजयेत्॥)

संहो हंसः परमहंसः।
हंसः सोऽहं सोऽहं हंसः॥

हंसहंसाय विद्महे परमहंसाय धीमहि।
तन्नो हंसः प्रचोदयात्॥

(हंसहंसेति यो ब्रूयाद्धंसो नाम सदाशिवः।
एवं न्यासविधिं कृत्वा ततः संपुटमारभेत्)

अथ दिक्संपुटन्यासः

आदौ प्रणवमुच्चार्य व्याहृतीः प्रणवं ततः।
बीजं मन्त्रं समुच्चार्य मन्त्रान्ते बीजमुच्चरेत्॥
पुनर्व्याहृतिसंयुक्तमेतत्संपुटलक्षणम्॥
“ॐ नं मं हं गं वं यं सं शं खं ह्रीं दशाथ बीजानि।
फालो नेत्रे कर्णौ मुखं च बाहू च नासा च।
हृदयं नाभिमूर्धा पादावित्थं दशाङ्गानि”

इन्द्रः

ॐ भूर्भुवःसुवरोम्। ॐ। लं।
त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्र॒ꣳ हवे॑हवे सु॒हव॒ꣳ शूर॒मिन्द्र॑॑म्।
हु॒वे नु श॒क्रं पु॑रुहू॒तमिन्द्र॑ꣴ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑॥
ॐ। लं। भूर्भुवःसुवः।

(पूर्वदिग्भागे) इन्द्राय वज्रहस्ताय देवाधिपतये ऐरावतवाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

पूर्वदिग्भागे इन्द्राय नमः। ललाटस्थाने इन्द्राय नमः।
इन्द्रः सुप्रीतो वरदो भवतु॥१॥

अग्निः

ॐ भूर्भुवःसुवरोम्। नं। रं।
त्वं नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान् दे॒वस्य॒ हेडोऽव॑ यासिसीष्ठाः।
यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषा॑ꣳसि॒ प्र मु॑मुग्ध्य॒स्मत्॥
नं। रं। भूर्भुवःसुवः।

आग्नेयदिग्भागे अग्नये शक्तिहस्ताय तेजोधिपतये अजवाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

आग्नेयदिग्भागे अग्नये नमः। नेत्रस्थाने अग्नये नमः।
अग्निः सुप्रीतो वरदो भवतु॥२॥

यमः

ॐ भूर्भुवःसुवरोम्। मों। हं।
सु॒गं नः॒ पन्था॒मभ॑यं कृणोतु। यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा॑॑।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः। तद॑स्य चि॒त्रꣳ ह॒विषा॑ यजाम॥
मों। हं। भूर्भुवःसुवः।

दक्षिणदिग्भागे यमाय दण्डहस्ताय धर्माधिपतये महिषवाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

दक्षिणदिग्भागे यमाय नमः। कर्णस्थाने यमाय नमः।
यमः सुप्रीतो वरदो भवतु॥३॥

निरृतिः

ॐ भूर्भुवःसुवरोम्। भं। षं।
असु॑न्वन्त॒मय॑जमानमिच्छस्ते॒नस्ये॒त्यां तस्क॑र॒स्यान्वे॑षि।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निरृते॒ तुभ्य॑मस्तु॥
भं षं। भूर्भुवःसुवः।

निरृतिदिग्भागे निरृतये खड्गहस्ताय रक्षोधिपतये नरवाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

निरृतिदिग्भागे निरृतये नमः। मुखस्थाने निरृतये नमः।
निरृतिः सुप्रीतो वरदो भवतु॥४॥

वरुणः

ॐ भूर्भुवःसुवरोम्। गं। वं।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा॑॑स्ते॒ यज॑मानो ह॒विर्भिः॑।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳस॒ मा न॒ आयुः॒ प्रमो॑षीः॥ गं। वं। भूर्भुवःसुवः।

पश्चिमदिग्भागे वरुणाय पाशहस्ताय जलाधिपतये मकरवाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

पश्चिमदिग्भागे वरुणाय नमः। बाहुस्थाने वरुणाय नमः।
वरुणः सुप्रीतो वरदो भवतु॥५॥

वायुः

ॐ भूर्भुवःसुवरोम्। वं। यं।
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रम्। स॒ह॒स्रिणी॑भि॒रुप॑याहि य॒ज्ञम्।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व। यू॒यं पा॑तः स्व॒स्तिभिः॒ सदा॑ नः॥
वं। यं। भूर्भुवःसुवः।

वायव्यदिग्भागे वायवे साङ्कुशध्वजहस्ताय प्राणाधिपतये मृगवाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

वायव्यदिग्भागे वायवे नमः। नासिकास्थाने वायवे नमः।
वायुः सुप्रीतो वरदो भवतु॥६॥

सोमः

ॐ भूर्भुवःसुवरोम्। तें। सं।
व॒यꣳ सो॑म व्र॒ते तव॑। मन॑स्त॒नूषु॒ बिभ्र॑तः।
प्र॒जाव॑न्तो अशीमहि। इ॒न्द्रा॒णी दे॒वी सु॒भगा॑सु॒पत्नी॑॑॥
तें। सं। भूर्भुवःसुवः।

उत्तरदिग्भागे सोमाय अमृतकलशहस्ताय नक्षत्राधिपतये अश्ववाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

उत्तरदिग्भागे सोमाय नमः। हृदयस्थाने सोमाय नमः।
सोमः सुप्रीतो वरदो भवतु॥७॥

ईशानः

ॐ भूर्भुवःसुवरोम्। रुं। शं।
तमीशा॑॑नं॒ जग॑तः त॒स्थुष॒स्पतिं॑॑ धियं जि॒न्वमव॑से हूमहे व॒यम्।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्ध स्व॒स्तये॑॑॥
रुं। शं। भूर्भुवःसुवः।

ईशानदिग्भागे ईशानाय त्रिशूलहस्ताय भूताधिपतये वृषभवाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

ईशानदिग्भागे ईशानाय नमः। नाभिस्थाने ईशानाय नमः।
ईशानः सुप्रीतो वरदो भवतु॥८॥

ब्रह्मा

ॐ भूर्भुवःसुवरोम्। द्रां। खं।
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः॑॑।
यः शंस॑ते स्तुव॒ते धायि॑प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः॥
द्रां। खं। भूर्भुवःसुवः।

ऊर्ध्वदिग्भागे ब्रह्मणे पद्महस्ताय प्रजाधिपतये हंसवाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

ऊर्ध्वदिग्भागे ब्रह्मणे नमः। मूर्धस्थाने ब्रह्मणे नमः।
ब्रह्मा सुप्रीतो वरदो भवतु॥९॥

विष्णुः

ॐ भूर्भुवःसुवरोम्। यं। ह्रीं।
स्यो॒ना पृ॑थि॒वि भवा॑ नृक्ष॒रा नि॒वेश॑नी।
यच्छा॑ नः॒ शर्म॑ स॒प्रथाः॑॑॥
यं। ह्रीं। भूर्भुवःसुवः।

अधोदिग्भागे विष्णवे चक्रहस्ताय लोकाधिपतये गरुडवाहनाय साङ्गाय सायुधाय सशक्तये सपरिवाराय सर्वालङ्कारभूषिताय उमामहेश्वरपार्षदाय नमः।

अधोदिग्भागे विष्णवे नमः। पादस्थाने विष्णवे नमः।
विष्णुः सुप्रीतो वरदो भवतु॥१०॥

अथ रौद्रीकरणम्

विभूरसीत्यादीनां सानुषङ्गाणां षोडशानां मन्त्राणां जप एव रौद्रीकरणम्। अधिकबीजमन्त्राङ्गन्यासादयः नवीनकोशेषु परमुपलभ्यन्ते॥

शिखाशिरोमूर्धाफालभ्रूमुखंकण्ठबाहु च।
उरोहृन्नाभिकट्यूरूजानुजङ्घापदं क्रमात्॥

ॐ भूर्भुवः॒सुवः॑। ॐ। अं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
वि॒भूर॑सि प्र॒वाह॑णो॒ रौद्रे॒णानी॑केन पा॒हि मा॑॑ग्ने पिपृ॒हि मा॒ मा मा॑ हिꣳसीः॥
अं। भूर्भुवःसुवरोम्। शिखास्थाने रुद्राय नमः॥१॥

ॐ भूर्भुवः॒सुवः॑। ॐ। आं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
वह्नि॑रसि हव्य॒वाह॑नो॒ रौद्रे॒णानी॑केन + हिंसीः।
आं। भूर्भुवःसुवरोम्। शिरःस्थाने रुद्राय नमः॥२॥

ॐ भूर्भुवः॒सुवः॑। ॐ। इं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
श्वा॒त्रो॑ऽसि॒ प्रचे॑ता॒ रौद्रे॒णानी॑केन + हिंसीः।
इं। भूर्भुवःसुवरोम्। मूर्धस्थाने रुद्राय नमः॥३॥

ॐ भूर्भुवः॒सुवः॑। ॐ। ईं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
तु॒थो॑ऽसि वि॒श्ववे॑दा॒ रौद्रे॒णानी॑केन + हिंसीः।
ईं। भूर्भुवःसुवरोम्। ललाटस्थाने रुद्राय नमः॥४॥

ॐ भूर्भुवः॒सुवः॑। ॐ। उं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
उ॒शिग॑सि क॒वी रौद्रे॒णानी॑केन + हिंसीः।
उं। भूर्भुवःसुवरोम्। भ्रूस्थाने रुद्राय नमः॥५॥

ॐ भूर्भुवः॒सुवः॑। ॐ। ऊं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
अङ्घा॑रिरसि॒ बंभा॑री॒ रौद्रे॒णानी॑केन + हिंसीः।
ऊं। भूर्भुवःसुवरोम्। मुखस्थाने रुद्राय नमः॥६॥

ॐ भूर्भुवः॒सुवः॑। ॐ। ऋं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
अ॒व॒स्युर॑सि॒ दुव॑स्वा॒न् रौद्रे॒णानी॑केन + हिंसीः।
ऋं। भूर्भुवःसुवरोम्। कण्ठस्थाने रुद्राय नमः॥७॥

ॐ भूर्भुवः॒सुवः॑। ॐ। ॠं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
शु॒न्ध्यूर॑सि मार्जा॒लीयो॒ रौद्रे॒णानी॑केन + हिंसीः।
ॠं। भूर्भुवःसुवरोम्। बाहुस्थाने रुद्राय नमः॥८॥

ॐ भूर्भुवः॒सुवः॑। ॐ। ऌं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
स॒म्राड॑सि कृ॒शानू॒ रौद्रे॒णानी॑केन + हिंसीः।
ऌं। भूर्भुवःसुवरोम्। उरःस्थाने रुद्राय नमः॥९॥

ॐ भूर्भुवः॒सुवः॑। ॐ। ॡं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
प॒रि॒षद्यो॑सि॒ पव॑मानो॒ रौद्रे॒णानी॑केन + हिंसीः।
ॡं। भूर्भुवःसुवरोम्। हृदयस्थाने रुद्राय नमः॥१०॥

ॐ भूर्भुवः॒सुवः॑। ॐ। एं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
प्र॒तक्वा॑सि॒ नभ॑स्वा॒न् रौद्रे॒णानी॑केन + हिंसीः।
एं। भूर्भुवःसुवरोम्। नाभिस्थाने रुद्राय नमः॥११॥

ॐ भूर्भुवः॒सुवः॑। ॐ। ऐं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
असं॑मृष्टोऽसि हव्य॒सूदो॒ रौद्रे॒णानी॑केन + हिंसीः।
ऐं। भूर्भुवःसुवरोम्। कटिस्थाने रुद्राय नमः॥१२॥

ॐ भूर्भुवः॒सुवः॑। ॐ। ओं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
ऋ॒तधा॑मासि॒ सुव॑र्ज्योती॒ रौद्रे॒णानी॑केन + हिंसीः।
ओं। भूर्भुवःसुवरोम्। ऊरुस्थाने रुद्राय नमः॥१३॥

ॐ भूर्भुवः॒सुवः॑। ॐ। औं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
ब्रह्म॑ज्योतिरसि॒ सुव॑र्द्धामा॒ रौद्रे॒णानी॑केन + हिंसीः।
औं। भूर्भुवःसुवरोम्। जानुस्थाने रुद्राय नमः॥१४॥

ॐ भूर्भुवः॒सुवः॑। ॐ। अं।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
अ॒जो॑॑ऽस्येक॑पा॒द्रौद्रे॒णानी॑केन + हिंसीः।
अं। भूर्भुवःसुवरोम्। जङ्घास्थाने रुद्राय नमः॥१५॥

ॐ भूर्भुवः॒सुवः॑। ॐ। अः।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च नमः॑ शङ्क॒राय॑ च मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च।
अहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन + हिंसीः।
अः। भूर्भुवःसुवरोम्। पादस्थाने रुद्राय नमः॥१६॥

यक्षगन्धर्वभूतप्रेतपिशाचब्रह्मराक्षस- यमदूतशाकिनीडाकिनी-सर्पश्वापदतस्कराद्युपद्रवाद्युपघाताः सर्वे ज्वलन्तं पशन्तु। मां रक्षन्तु॥

अथ गुह्यादिमस्तकान्तं षडङ्गन्यासश्चतुर्थः

मनो॒ ज्योति॑र्जुषता॒माज्यं॒ विच्छि॑न्नं य॒ज्ञꣳ समि॒मं द॑धातु।
या इ॒ष्टा उ॒षसो॑ नि॒म्रुत॑श्च॒ ताः संद॑धामि ह॒विषा॑ घृ॒तेन॑॥
गुह्याय नमः॥

अबो॑॑ध्य॒ग्निः स॒मिधा॒ जना॑नां॒ प्रति॑ धे॒नुमि॑वाऽय॒तीमु॒षास॑॑म्।
य॒ह्वा इ॑व॒ प्रव॒यामु॒ज्जिहा॑नाः॒ प्रभा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑॥
नाभ्यै नमः॥

अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम्।
अ॒पाꣳ रेता॑ꣳसि जिन्वति॥
हृदयाय नमः॥

मू॒र्धानं॑ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै॑॑श्वान॒रमृ॒ताय॑ जा॒तम॒ग्निम्।
क॒विꣳ स॒म्राज॒मति॑थिं॒ जना॑नामा॒सन्ना पात्रं॑ जनयन्त दे॒वाः॥
कण्ठाय नमः॥

मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॑ना॒भिऽव॑स्ताम्।
उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्त॒न्त्वामनु॑ मदन्तु दे॒वाः॥
मुखाय नमः॥

जा॒तवे॑दा॒ यदि॑वा पाव॒कोऽसि॑। वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तोऽसि॑।
शं प्र॒जाभ्यो॒ यज॑मानाय लो॒कम्। ऊर्जं॒ पुष्टिं॒ दद॑द॒भ्याव॑वृत्स्व॥
शिरसे नमः।

अत्र जातवेदा इत्यृचःस्थाने यथावःस्वाहा इत्यृचं केचित् पठन्ति। सा यथा –
यथा॑ वः॒ स्वाहा॒ऽग्नये॒ दाशे॑॑म॒ परीळा॑॑भिर्घृ॒तव॑द्भिश्च ह॒व्यैः।
तेभि॑र्ना अग्ने॒ अमि॑तै॒र्महो॑भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा॑॑हि॥ इति॥

आत्मरक्षा

अनुवाकस्यास्य अत्र पाठो बोधायनेन नोक्तः। आधुनिकाः केचित् पठन्ति॥

(ब्रह्मा॑॑त्म॒न्वद॑सृजत। तद॑कामयत। समा॒त्मना॑ पद्ये॒येति॑ आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ दश॒मꣳ हू॒तः प्रत्य॑शृणोत्। स दश॑हूतोऽभवत्। दश॑हूतो ह॒ वै नामै॒षः। तं वा ए॒तं दश॑हूत॒ꣳ सन्त॑॑म्। दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः।

आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ सप्त॒मꣳ हू॒तः प्रत्य॑शृणोत्। स स॒प्तहू॑तोऽभवत्। स॒प्तहू॑तो ह॒ वै नामै॒षः। तं वा ए॒तꣳ स॒प्तहू॑त॒ꣳ सन्त॑॑म्। स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः।

आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ ष॒ष्ठꣳ हू॒तः प्रत्य॑शृणोत्। स षड्ढू॑तोऽभवत्। षड्ढू॑तो ह॒ वै नामै॒षः। तं वा ए॒तꣳ षड्ढू॑त॒ꣳ सन्त॑॑म्। षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः।

आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ पञ्च॒मꣳ हू॒तः प्रत्य॑शृणोत्। स पञ्च॑हूतोऽभवत्। पञ्च॑हूतो ह॒ वै नामै॒षः। तं वा ए॒तं पञ्च॑हूत॒ꣳ सन्त॑॑म्। पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः।

आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत। तस्मै॑ चतु॒र्थꣳ हू॒तः प्रत्य॑शृणोत्। स चतु॑र्हूतोऽभवत्। चतु॑र्हूतो ह॒ वै नामै॒षः। तं वा ए॒तं चतु॑र्हूत॒ꣳ सन्त॑॑म्। चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण। प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः।

तम॑ब्रवीत्। त्वं वै मे॒ नेदि॑ष्ठꣳ हू॒तः प्रत्य॑श्रौषीः। त्वयै॑नानाख्या॒तार॒ इति॑। तस्मा॒न्नु है॑ना॒ꣴश्चतु॑र्होतार॒ इत्याच॑क्षते। तस्मा॑॑च्छुश्रू॒षुः पु॒त्राणा॒ꣳ हृद्य॑तमः। नेदि॑ष्ठो॒ हृद्य॑तमः। नेदि॑ष्ठो॒ ब्रह्म॑णो भवति। य ए॒वं वेद॑॥)

अथ हृदयाद्यस्त्रान्तं पञ्चाङ्गन्यासः पञ्चमः

शिवसंकल्पः

शि१वस॑ङ्क॒ल्पम॑स्तु इति पाठभेदः॥

येने॒दं भू॒तं भुव॑नं भवि॒ष्यत् परि॑गृहीतम॒मृते॑न॒ सर्व॑॑म्।
येन॑ य॒ज्ञस्ता॒यते॑ स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१॥

येन॒ कर्मा॑णि प्र॒चर॑न्ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा चारु॒ यन्ति॑।
यत्स॒म्मित॒मनु॑ सं॒यन्ति॑ प्रा॒णिन॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२॥

येन॒ कर्मा॑॑ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॒ण्वन्ति॑ वि॒दथे॑षु॒ धीराः॑॑।
यद॑पू॒र्वं य॒क्षम॒न्तः प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥३॥

यत्प्र॒ज्ञान॑मु॒त चेतो॒ धृति॑श्च॒ यज्ज्यो॒तिर॒न्तर॒मृतं॑ प्र॒जासु॑।
यस्मा॒न्न ऋ॒ते किञ्च॒ न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥४॥

सु॒षा॒र॒थिरश्वा॑निव॒ यन्म॑नु॒ष्या॑॑न्नेनी॒यते॒ऽभीशु॑भि र्वा॒जिन॑ इव।
हृत्प्र॑तिष्ठं॒ यद॑जिरं॒ जवि॑ष्ठं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥५॥

वा॒जिनी॑वान् इति न साधुः पाठः

यस्मि॒न्नृचः॒ साम॒ यजूꣳ॑षि॒ यस्मि॒न् प्रति॑ष्ठिता रथना॒भावि॑वा॒राः।
यस्मिꣴ॑श्चि॒त्तꣳ सर्व॒मोतं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥६॥

र॑श॒नाभा॑ति॒भाराः॑॑ इति न साधुः पाठः॥

यदत्र॑ ष॒ष्ठं त्रि॒शतꣳ॑ सु॒वीरं॑ य॒ज्ञस्य॑ गु॒ह्यं नव॑नाव॒माय्य॑॑म्।
दश॑ पञ्च त्रि॒ꣳशतं॒ यत्परं॑ च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥७॥

यज्जाग्र॑तो दू॒रमु॒दैति॒ दैवं॒ तदु॑ सु॒प्तस्य॒ तथै॒वैति॑।
दू॒र॒ङ्ग॒मं ज्योति॑षां॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥८॥

येन॒ द्यौः पृ॑थि॒वी चा॒न्तरि॑क्षं च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च।
येने॒दं जग॒द्व्याप्तं॑ प्र॒जानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥९॥

येने॒दं विश्वं॒ जग॑तो ब॒भूव॒ ये दे॒वापि॑ ^ मह॒तो जा॒तवे॑दाः।
तदे॒वाग्निस्तम॑सो॒ ज्योति॒रेकं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१०॥

दि॒व्यापि॑ इति पाठभेदः॥

ये म॑नो॒ हृद॑यं॒ ये च॑ दे॒वा ये दि॒व्या आपो॒ ये सूर्य॑रश्मिः।
ते श्रोत्रे॒ चक्षु॑षी सं॒चर॑न्तं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥११॥

अचि॑न्त्यं॒ चाप्र॑मेयं॒ च व्य॒क्ताव्यक्त॑प॒रं च॒ यत्।
सूक्ष्मा॑॑त्सू॒क्ष्ममत॑रं ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१२॥

एका॑ च द॒श श॒तं च॑ स॒हस्रं॑ चा॒युतं॑ च नि॒युतं॑ च प्र॒युतं॒ चार्बु॑दं च॒
न्य॑र्बुदं च समु॒द्रश्च॒ मध्यं॒ चान्त॑श्च परा॒र्धश्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१३॥

ये प॑ञ्च प॒ञ्चाद॒श श॒तꣳ स॒हस्र॑म॒युतं॒ न्य॑र्बुदं च।
ते अ॑ग्निचि॒त्येष्ट॑का॒स्तꣳ शरी॑रं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१४॥

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑मादि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात्।
यस्य॒ योनिं॒ परि॒पश्य॑न्ति॒ धीरा॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१५॥

यस्ये॒दं धीराः॑॑ पु॒नन्ति॑ क॒वयो॑॑ ब्र॒ह्माण॑मे॒तं त्वा॑ वृणत॒ इन्दु॑॑म्।
स्था॒व॒रं जङ्ग॑मं॒ द्यौरा॑का॒शं तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१६॥

वृणतु॒मिन्दु॑॑म् इति पाठभेदः

परा॑॑त्परत॑रं चै॒व॒ य॒त्परा॑॑च्चैव॒ यत्प॑रम्।
यत्परा॑॑त्पर॑तो ज्ञे॒यं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१७॥

परा॑॑त्परत॑रो ब्र॒ह्मा॒ त॒त्परा॑॑त्पर॒तो ह॑रिः।
तत्परा॑॑त्पर॑तोऽधी॒श॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१८॥

या वे॑दा॒दिषु॑ गाय॒त्री स॒र्वव्या॑पी म॒हेश्व॑री।
ऋग्य॑जुः सामाथर्वै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥१९॥

यो वै॑ दे॒वं म॑हादे॒वं प्र॒णवं॑ पुरु॒षोत्त॑तम्।
यः सर्वे॑ सर्व॑वेदै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२०॥

प्र॒यतः॑ प्रण॒वैः शु॑चिः इति पाठभेदः॥
सर्व॑तश्चै॒व इति पाठभेदः॥

प्रय॑तः॒ प्रण॑वोङ्का॒रं प्र॒णवं॑ पुरु॒षोत्त॑मम्।
ओङ्का॑रं॒ प्रण॑वात्मा॒नं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२१॥

योऽसौ॑ स॒र्वेषु॑ वेदे॒षु प॒ठ्यते॑॑ ह्यज॒ ईश्व॑रः।
अकायो॑ निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२२॥

गोभि॒र्जुष्टं॒ धने॑न॒ ह्यायु॑षा च॒ बले॑न च।
प्र॒जया॑ प॒शुभिः॑ पुष्करा॒क्षं तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२४॥

कैला॑स॒शिख॑रे र॒म्ये॒ श॒ङ्कर॑स्य शि॒वाल॑ये।
दे॒वता॒स्तत्र॑ मोदन्ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२५॥

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑हस्त उ॒त वि॒श्वत॑स्पात्।
संबा॒हुभ्यां॒ नम॑ति॒ संपत॑त्रै॒र्द्यावा॑पृथि॒वी ज॒नय॑न्दे॒व एक॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२६॥

च॒तुरो॒ वेदा॑नधीयीत स॒र्वशा॑॑स्त्रम॒यं वि॑दुः।
इ॒ति॒हा॒स॒पु॒रा॒णानां॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२७॥

मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम्।
मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॑ प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२८॥

मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः।
वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्ह॒विष्म॑न्तो॒ नम॑सा विधेम ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥२९॥

ऋ॒तꣳ स॒त्यं प॑रं ब्र॒ह्म॒ पु॒रुषं॑ कृष्ण॒ पिङ्ग॑लम्।
ऊ॒र्ध्वरे॑तं वि॑रूपा॒क्षं॒ वि॒श्वरू॑पाय॒ वै नमो॒ नम॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥३०॥

कद्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से। वो॒चेम॒ शन्त॑मꣳ हृ॒दे।
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥३१॥

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विव॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥३२॥

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥३३॥

य आ॑॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः।
यस्य॑ छा॒याऽमृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥३४॥

यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑नाऽवि॒वेश॒
तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥३५॥

ग॒न्ध॒द्वा॒रां दु॑राध॒र्षां॒ नि॒त्यपु॑ष्टां करी॒षिणी॑॑म्।
ई॒श्वरीꣳ॑ सर्व॑भूता॒नां॒ तामि॒होप॑ह्वये॒ श्रियं॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥३६॥

य इ॒दꣳ शिव॑सङ्कल्पꣳ स॒दा ध्याय॑न्ति॒ ब्राह्म॑णाः।
ते परं॒ मोक्षं॑ गमिष्यन्ति॒ तन्मे॒ मनः॑ शि॒वस॑ङ्कल्पमस्तु॥३७॥

हृदयाय नमः॥

पुरुषसूक्तम्

स॒हस्र॑शीर्षा॒ पुरु॑षः। स॒ह॒स्रा॒क्षः स॒हस्र॑पात्।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा। अत्य॑तिष्ठद् दशाङ्गु॒लम्॥

पुरु॑ष ए॒वेदꣳ सर्व॑॑म्। यद्भू॒तं यच्च॒ भव्य॑॑म्।
उ॒तामृ॑त॒त्वस्येशा॑नः। यदन्ने॑नाति॒रोह॑ति॥

ए॒तावा॑नस्य महि॒मा। अतो॒ ज्याया॑ꣴश्च॒ पूरु॑षः।
पादो॑॑ऽस्य॒ विश्वा॑ भू॒तानि॑। त्रि॒पाद॑स्या॒मृतं॑ दि॒वि॥

त्रि॒पादू॒र्ध्व उदै॒त् पुरु॑षः। पादो॑॑ऽस्ये॒हाऽभ॑वा॒त् पुनः॑।
ततो॒ विश्वं॒ व्य॑क्रामत्। सा॒श॒ना॒न॒श॒ने अ॒भि॥

तस्मा॑॑द् वि॒राड॑जायत। वि॒राजो॒ अधि॒ पूरु॑षः।
स जा॒तो अत्य॑रिच्यत। प॒श्चाद् भूमि॒मथो॑ पु॒रः॥

यत् पुरु॑षेण ह॒विषा॑॑। दे॒वा य॒ज्ञमत॑न्वत।
व॒स॒न्तो अ॑स्यासी॒दाज्य॑॑म्। ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः॥

स॒प्तास्या॑ऽसन् परि॒धयः॑। त्रिः स॒प्त स॒मिधः॑ कृ॒ताः।
दे॒वा यद् य॒ज्ञं त॑न्वा॒नाः। अब॑ध्न॒न् पुरु॑षं प॒शुम्॥

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॑न्। पुरु॑षं जा॒तम॑ग्र॒तः।
तेन॑ दे॒वा अय॑जन्त। सा॒ध्या ऋष॑यश्च॒ ये॥

तस्मा॑॑द् य॒ज्ञात् स॑र्व॒हुतः॑। संभृ॑तं पृषदा॒ज्यम्।
प॒शूꣴस्ताꣴश्च॑क्रे वाय॒व्यान्॑। आ॒र॒ण्यान् ग्रा॒म्याश्च॒ ये॥

तस्मा॑॑द् य॒ज्ञात् स॑र्व॒हुतः॑। ऋचः॒ सामा॑नि जज्ञिरे।
छन्दा॑ꣳसि जज्ञिरे॒ तस्मा॑॑त्। यजु॒स्तस्मा॑दजायत॥

तस्मा॒दश्वा॑ अजायन्त। ये के चो॑भ॒याद॑तः।
गावो॑ ह जज्ञिरे॒ तस्मा॑॑त्। तस्मा॑॑ज्जा॒ता अ॑जा॒वयः॑॥

यत् पुरु॑षं॒ व्य॑दधुः। क॒ति॒धा व्य॑कल्पयन्।
मुखं॒ किम॑स्य॒ कौ बा॒हू। कावू॒रू पादा॑वुच्येते॥

ब्रा॒ह्म॒णो॑॑ऽस्य॒ मुख॑मासीत्। बा॒हू रा॑ज॒न्यः॑ कृ॒तः।
ऊ॒रू तद॑स्य॒ यद् वैश्यः॑। प॒द्भ्याꣳ शू॒द्रो अ॑जायत॥

च॒न्द्रमा॒ मन॑सो जा॒तः। चक्षोः॒ सूर्यो॑ अजायत।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑। प्रा॒णाद् वा॒युर॑जायत॥

नाभ्या॑ आसीद॒न्तरि॑क्षम्। शी॒र्ष्णो द्यौः सम॑वर्तत।
प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॑॑त्। तथा॑ लो॒काꣳ अ॑कल्पयन्॥

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑॑म्। आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑। नामा॑नि कृ॒त्वाऽभि॒वद॒न् यदास्ते॑॑॥

धा॒ता पु॒रस्ता॒द् यमु॑दाज॒हार॑। श॒क्रः प्र॑वि॒द्वान् प्र॒दिश॒श्चत॑स्त्रः।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॒ अय॑नाय विद्यते॥

य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः। तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्।
ते ह॒ नाकं॑ महि॒मानः॑ सचन्ते। यत्र॒ पूर्वे॑ सा॒ध्याः सन्ति॑ दे॒वाः॥

शिरसे स्वाहा॥

उत्तरनारायणम्

अ॒द्भ्यः संभू॑तः पृथि॒व्यै रसा॑॑च्च। वि॒श्वक॑र्मणः॒ सम॑वर्त॒ताधि॑।
तस्य॒ त्वष्टा॑ वि॒दध॑द् रू॒पमे॑ति। तत् पुरु॑षस्य॒ विश्व॒मा॑जान॒मग्रे॑॑।

वेदा॒हमे॒तं पुरु॑षं म॒हान्त॑॑म्। आ॒दि॒त्यव॑र्णं॒ तम॑सः॒ पर॑स्तात्।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति। नान्यः पन्था॑ विद्य॒तेऽय॑नाय॥

प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः। अ॒जाय॑मानो बहु॒धा विजा॑यते।
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि॑॑म्। मरीचीनां प॒दमि॑च्छन्ति वे॒धसः॑॥

यो दे॒वेभ्य॒ आत॑पति। यो दे॒वानां॑॑ पु॒रोहि॑तः।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः। नमो॑ रु॒चाय॒ ब्राह्म॑ये॥

रुचं॑ ब्रा॒ह्यं ज॒नय॑न्तः। दे॒वा अग्रे॒ तद॑ब्रुवन्।
यस्त्वै॒वं ब्रा॑॑ह्म॒णो वि॒द्यात्। तस्य॑ दे॒वा अस॒न् वशे॑॑॥

ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ॑॑। अ॒हो॒रा॒त्रे पा॒र्श्वे।
नक्ष॑त्राणि रू॒पम्। अ॒श्विनौ॒ऽव्यात्त॑॑म्।

इ॒ष्टं म॑निषाण। अ॒मुं म॑निषाण। सर्वं॑ मनिषाण॥

शिखायै वषट्॥

अप्रतिरथम्

आ॒शुः शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम्। सं॒क्रन्द॑नोऽनिमि॒ष ए॑कवी॒रः श॒तꣳ सेना॑ अजयत् सा॒कमिन्द्रः॑। सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑॑। तदिन्द्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑॑। स इषु॑हस्तैः॒ सनि॑ष॒ङ्गिभि॑र्व॒शी सꣴस्र॑ष्टा॒ स युध॒ इन्द्रो॑ ग॒णेन॑। स॒ꣳसृ॒ष्ट॒जित् सो॑म॒पा बा॑हुश॒र्ध्यू॑॑र्ध्वध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑॑।

बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हाऽमित्रा॑ꣳ अप॒बाध॑मानः। प्र॒भ॒ञ्जन् सेनाः॑॑ प्रमृ॒णो यु॒धा यज॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नाम्। गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा। इ॒मꣳ स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्र॑ꣳ सखा॒योऽनु॒ सꣳ र॑भध्वम्। ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः। अ॒भिवी॑रो अ॒भिस॑त्त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित्। अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽदा॒यो वी॒रः श॒तम॑न्यु॒रिन्द्रः॑।

दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑यु॒ध्यो॑॑ऽस्माक॒ꣳ सेना॑ अवतु॒ प्र यु॒त्सु। इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑। दे॒व॒से॒नाना॑मभिभञ्जती॒नां जय॑न्तीनां म॒रुतो॑ य॒न्त्वग्रे॑॑। इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑॑ म॒रुता॒ꣳ शर्ध॑ उ॒ग्रम्। म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात्। अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु।

अ॒स्माकं॑ वी॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु। उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत् सत्त्व॑नां माम॒कानां॒ महा॑ꣳसि। उद् वृ॑त्रहन् वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तामेतु॒ घोषः॑। उप॒ प्रेत॒ जय॑ता नरः स्थि॒रा वः॑ सन्तु बा॒हवः॑। इन्द्रो॑ वः॒ शर्म॑ यच्छत्त्वनाधृ॒ष्या यथाऽस॑थ। अव॑सृष्टा॒ परा॑ पत॒ शर॑व्ये॒ ब्रह्म॑सꣳशिता।

गच्छा॒मित्रा॒न् प्रवि॑श॒ मैषां॒ कं च॒नोच्छि॑षः। मर्मा॑णि ते॒ वर्म॑भिश्छादयामि॒ सोम॑स्त्वा॒ राजा॒ऽमृते॑ना॒भि व॑स्ताम्। उ॒रोर्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्तं॒ त्वामनु॑ मदन्तु दे॒वाः। यत्र॑ बा॒णाः सं॒पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व। इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु॥

कवचाय हुम्॥

प्रतिपूरुषम् (सं॰)

(प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑प॒त्येक॒मति॑रिक्तं॒ याव॑न्तो गृ॒ह्याः॑॑ स्मस्तेभ्यः॒ कम॑करं पशू॒नाꣳ शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्तं जु॑षस्वै॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑कया॒ तं जु॑षस्व भेष॒जं गवेऽश्वा॑य॒ पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्यं॑ भेष॒जꣳ सुभे॑षजं॒ यथाऽस॑ति। सु॒गं मे॒षाय॑ मे॒ष्या॑ अवा॑॑म्ब रु॒द्रम॑दिम॒ह्यव॑ दे॒वं त्र्य॑म्बकम्। यथा॑ नः॒ श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑सः॒ कर॒द्यथा॑ नः पशु॒मतः॒ कर॒द्यथा॑नो व्यवसा॒यया॑॑त्। त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्। उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑॑त्॥ ए॒ष ते॑ रुद्र भा॒गस्तं जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तोऽती॒ह्यव॑ततधन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः॥)

प्रतिपूरुषम् (ब्रा॰)

(प्र॒ति॒पू॒रु॒षमेक॑कपाला॒न्निर्व॑पति। जा॒ता ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते। एक॒मति॑रिक्तम्। ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रान्नि॒रव॑दयते। एक॑कपाला भवन्ति। ए॒क॒धैव रु॒द्रन्नि॒रव॑दयते। नाभिघा॑रयति। यद॑भिघा॒रये॑॑त्। अ॒न्त॒र॒व॒चा॒रिण॑ꣳ रु॒द्रं कु॑र्यात्। ए॒को॒ल्मु॒केन॑ यन्ति। तद्धि रु॒द्रस्य॑ भाग॒धेय॑॑म्। इ॒मां दिशं॑ यन्ति। ए॒षा वै रु॒द्रस्य॒ दिक्। स्वाया॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते। रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत। अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्यं द्वि॒ष्यात्। यमे॒व द्वेष्टि॑। तम॑स्मै प॒शं निर्दि॑शति। यदि॒ न द्वि॒ष्यात्। आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात्। न ग्रा॒म्यान् प॒शून् हि॒नस्ति॑। नार॒ण्यान्। च॒तु॒ष्प॒थे जु॑होति। ए॒ष वा अ॑ग्नी॒नां पड्बी॑शो॒ नाम॑। अ॒ग्नि॒वत्ये॒व जु॑होति। म॒ध्य॒मेन॑ प॒र्णेन॑ जुहोति। स्रुग्घ्ये॑षा। अथो॒ खलु॑। अ॒न्त॒मेनै॒व हो॑त॒व्य॑॑म्। अ॒न्त॒त ए॒व रु॒द्रं नि॒रव॑दयते। ए॒ष ते॑ रुद्र भा॒गः स॒ह स्वस्राऽम्बि॑क॒येत्या॑ह। श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा॑॑। तया॒ वा ए॒ष हि॑नस्ति। यꣳ हि॒नस्ति॑। तयै॒वैन॑ꣳ स॒ह श॑मयति। भे॒ष॒जं गव॒ इत्या॑ह। याव॑न्त ए॒व ग्रा॒म्याः प॒शवः॑। तेभ्यो॑ भेष॒जं क॑रोति। अवा॑॑म्ब रु॒द्रम॑दिम॒हीत्या॑ह। आ॒शिष॑मे॒वैतामा शा॑॑स्ते। त्र्य॑म्बकं यजामह॒ इत्या॑ह। मृ॒त्योर्मु॑क्षीय॒ माऽमृता॒दिति॒ वावैतदा॑ह। उत्कि॑रन्ति। भग॑स्य लीप्सन्ते। मूते॑ कृ॒त्वाऽस॑जन्ति। यथा॒जनं॑ य॒ते॑ऽव॒सं क॒रोति॑। ता॒दृगे॒व तत्। ए॒ष ते॑ रुद्र भा॒ग इत्या॑ह नि॒रव॑त्यै। अप्र॑तीक्ष॒मा य॑न्ति। अ॒पः परि॑षिञ्चति। रु॒द्रस्या॒न्तर्हि॑त्यै। प्र वा ए॒ते॑॑ऽस्माल्लो॒काच्च्य॑वन्ते। ये त्र्य॑म्बकै॒श्चर॑न्ति। आ॒दि॒त्यं च॒रुं पुन॒रेत्य॒ निर्व॑पति। इ॒यं वा अदि॑तिः। अ॒स्यामे॒व प्रति॑ तिष्ठन्ति॥)

(वि॒भ्राड् बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रु॒तम्।
वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना॑॑ प्र॒जाः पिप॑र्ति बहु॒धा विरा॑जति)

नेत्रत्रयाय वौषट्

शतरुद्रीयम् (सं॰)

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वꣳ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे। त्वं वातै॑ररु॒णैर्या॑सि शङ्ग॒यस्त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑॑। आ वो॒ राजा॑नमध्व॒रस्य॑ रु॒द्रꣳ होता॑रꣳ सत्य॒यज॒ꣳ रोद॑स्योः। अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर॑ण्यरूप॒मव॑से कृणुध्वम्। अ॒ग्निर्होता॒ नि ष॑सादा॒ जयी॑यानु॒पस्थे॑ मा॒तुः सु॑र॒भावु॑ लो॒के। युवा॑ क॒विः पु॑रुनि॒ष्ठरृ॒तावा॑ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः।

सा॒ध्वीम॑कर्दे॒ववी॑तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या॑॑म्। स आयु॒रागा॑॑त् सुर॒भिर्वसा॑नो भ॒द्राम॑कर्दे॒वहू॑तिं नो अ॒द्य। अक्र॑न्दद॒ग्निः स्त॒नय॑न्निव॒ द्यौः क्षामा॒ रेरि॑हद् वी॒रुधः॑ सम॒ञ्जन्। स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना॑ भात्य॒न्तः। त्वे वसू॑नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया॑सः।

क्षामे॑व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न् स॑ꣳ सौभ॑गानि दधि॒रे पा॑व॒के। तुभ्यं॒ ता अ॑ङ्गिरस्तम॒ विश्वाः॑॑ सुक्षि॒तयः॒ पृथ॑क्। अग्ने॒ कामा॑य येमिरे। अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒त्य॑श्याम॑ र॒यि॑ꣳ र॑यिवः सु॒वीर॑॑म्। अ॒श्याम॒ वाज॑म॒भि वा॒जय॑न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जर॑न्ते। श्रेष्ठं॑ यविष्ठ भार॒ताग्ने॑॑ द्यु॒मन्त॒मा भ॑र।

वसो॑ पुरु॒स्पृह॑ꣳ र॒यिम्। सः श्वि॑ता॒नस्त॑न्य॒तू रो॑चन॒स्था अ॒जरे॑भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः। यः पा॑व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न्। आयु॑ष्टे वि॒श्वतो॑ दधद॒यम॒ग्निर्वरे॑॑ण्यः। पुन॑स्ते प्रा॒ण आय॑ति॒ परा॒ यक्ष॑ꣳ सुवामि ते। आ॒यु॒र्दा अ॑ग्ने ह॒विषो॑ जुषा॒णो घृ॒तप्र॑तीको घृ॒तयो॑निरेधि। घृ॒तं पी॒त्वा मधु॒ चारु॒ गव्यं॑ पि॒तेव॑ पु॒त्रम॒भि र॑क्षतादि॒मम्।

तस्मै॑ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे। अग्ने॒ जना॑मि सुष्टु॒तिम्। दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद् द्वि॒तीयं॒ परि॑ जा॒तवे॑दाः। तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा॑न एनं जरते स्वा॒धीः। शुचिः॑ पावक॒ वन्द्योऽग्ने॑ बृ॒हद्वि रो॑चसे। त्वं घृ॒तेभि॒राहु॑तः। दृ॒शा॒नो रु॒क्म उ॒र्व्या व्य॑द्यौद् दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः। अ॒ग्निर॒मृतो॑ अभव॒द् वयो॑भि॒र्यदे॑नं॒ द्यौरज॑नयत् सु॒रेताः॑॑।

आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट्छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके॑॑। अ॒ग्निः शर्ध॑मनव॒द्यं युवा॑नꣴ स्वा॒धियं॑ जनयत् सू॒दय॑च्च। स तेजी॑यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः। अग्ने॑ रा॒यो नृत॑मस्य॒ प्रभू॑तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑। अग्ने॒ सह॑न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा॑ र॒यिम्।

विश्वा॒ यश्च॑र्षणीर॒भ्या॑सा वाजे॑षु सा॒सह॑त्। तम॑ग्ने पृतना॒सह॑ꣳ र॒यिꣳ स॑हस्व॒ आ भ॑र। त्वꣳ हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः। उ॒क्षान्ना॑य व॒शान्ना॑य॒ सोम॑पृष्ठाय वे॒धसे॑॑। स्तोमै॑॑र्विधेमा॒ग्नेये॑॑। व॒द्मा हि सू॑नो॒ अस्य॑द्म॒सद्वा॑ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न॑॑म्। स त्वं न॑ ऊर्जसन॒ ऊर्जं॑ धा॒ राजे॑व जेरवृ॒के क्षे॑॑ष्य॒न्तः।

अग्न॒ आयू॑ꣳषि पवस॒ आ सु॒वोर्ज॒मिषं॑ च नः। आ॒रे बा॑धस्व दु॒च्छुना॑॑म्। अग्ने॒ पव॑स्व॒ स्वपा॑ अ॒स्मे वर्चः॑ सु॒वीर्य॑॑म्। दध॒त् पोष॑ꣳ र॒यिं मयि॑। अग्ने॑ पावक रो॒चिषा॑ म॒न्द्रया॑ देव जि॒ह्वया॑॑। आ दे॒वान् व॑क्षि॒ यक्षि॑ च। स नः॑ पावक दीदि॒वोऽग्ने॑ दे॒वाꣳ इ॒हा व॑ह। उप॑ य॒ज्ञꣳ ह॒विश्च॑ नः। अ॒ग्निः शुचि॑ व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः। शुची॑ रोचत॒ आहु॑तः। अद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज॑न्त ईरते। तव॒ ज्योती॑ꣴष्य॒र्चयः॑॥

शतरुद्रीयम् (ब्रा॰)

त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः। त्वꣳ शर्धो॒ मारु॑तं पृ॒क्ष ई॑शिषे।
त्वं वातै॑ररु॒णैर्या॑सि शंग॒यः। त्वं पू॒षा वि॑ध॒तः पा॑सि॒ नु त्मना॑॑।

देवा॑ दे॒वेषु॑ श्रयध्वम्।
प्रथ॑मा द्वि॒तीये॑षु श्रयध्वम्।
द्विती॑यास्तृ॒तीये॑षु श्रयध्वम्।
तृती॑याश्चतु॒र्थेषु॑ श्रयध्वम्।
च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयध्वम्।
प॒ञ्च॒माः ष॒ष्ठेषु॑ श्रयध्वम्।
ष॒ष्ठाः स॑प्त॒मेषु॑ श्रयध्वम्।
स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयध्वम्।
अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयध्वम्।
न॒व॒मा द॑श॒मेषु॑ श्रयध्वम्।
द॒श॒मा ए॑काद॒शेषु॑ श्रयध्वम्।
ए॒का॒द॒शा द्वा॑द॒शेषु॑ श्रयध्वम्।
द्वा॒द॒शास्त्र॑योद॒शेषु॑ श्रयध्वम्।
त्र॒यो॒द॒शाश्च॑तुर्द॒शेषु॑ श्रयध्वम्।
च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयध्वम्।
प॒ञ्च॒द॒शाः षो॑ड॒शेषु॑ श्रयध्वम्।
षो॒ड॒शाः स॑प्तद॒शेषु॑ श्रयध्वम्।
स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयध्वम्।
अ॒ष्टा॒द॒शा ए॑कान्नवि॒ꣳशेषु॑ श्रयध्वम्।
ए॒का॒न्न॒वि॒ꣳशा वि॒ꣳशेषु॑ श्रयध्वम्।
वि॒ꣳशा ए॑कवि॒ꣳशेषु॑ श्रयध्वम्।
ए॒क॒वि॒ꣳशा द्वा॑वि॒ꣳशेषु॑ श्रयध्वम्।
द्वा॒वि॒ꣳशास्त्र॑योवि॒ꣳशेषु॑ श्रयध्वम्।
त्र॒यो॒वि॒ꣳशाश्च॑तुर्वि॒ꣳशेषु॑ श्रयध्वम्।
च॒तु॒र्वि॒ꣳशाः प॑ञ्चवि॒ꣳशेषु॑ श्रयध्वम्।
प॒ञ्च॒वि॒ꣳशाः ष॑ड्वि॒ꣳशेषु॑ श्रयध्वम्।
ष॒ड्वि॒ꣳशाः स॑प्तवि॒ꣳशेषु॑ श्रयध्वम्।
स॒प्त॒वि॒ꣳशा अ॑ष्टावि॒ꣳशेषु॑ श्रयध्वम्।
अ॒ष्टा॒वि॒ꣳशा ए॑कान्नत्रि॒ꣳशेषु॑ श्रयध्वम्।
ए॒का॒न्न॒त्रि॒ꣳशास्त्रि॒ꣳशेषु॑ श्रयध्वम्।
त्रि॒ꣳशा ए॑कत्रि॒ꣳशेषु॑ श्रयध्वम्।
ए॒क॒त्रि॒ꣳशा द्वा॑॑त्रि॒ꣳशेषु॑ श्रयध्वम्।
द्वा॒त्रि॒ꣳशास्त्र॑यस्त्रि॒ꣳशेषु॑ श्रयध्वम्।

देवा॑॑स्त्रिरेकादशा॒स्त्रिस्त्र॑यस्त्रिꣳशाः। उत्त॑रे भवत। उत्त॑रवर्त्मान॒ उत्त॑रसत्वानः।
यत्का॑म इ॒दं जु॒होमि॑। तन्मे॒ समृ॑द्ध्यताम्। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्। भूर्भुवः॒ स्वः॑ स्वाहा॑॑॥

अस्त्राय फट्।

(भूर्भुवःसुवरोमिति दिग्बन्धः॥)

अथ पञ्चाङ्गजपः

स॒द्योजा॒तं + भ॒वोद्भ॑वाय॒ नमः॑॥१॥
वा॒म॒दे॒वाय॒ नमो॑॑ + म॒नोन्म॑नाय॒ नमः॑॥२॥
अ॒घोरे॑॑भ्योऽथ॒ + रु॒द्ररू॑पेभ्यः॥३॥
तत्पुरु॑षाय वि॒द्मह॑ + रुद्रः प्रचो॒दया॑॑त्॥४॥
ईशानः सर्व॑विद्या॒ना॒ + सदाशि॒वोम्॥५॥

अत्र सद्योजातादीनां पञ्चानां मन्त्राणां स्थाने ‘हंसःशुचिषत्, प्रतद्विष्णुस्त्र्यम्बकं, तत्सवितुर्वृणीमहे विष्णुर्योनिम्’ इति पञ्च ऋचः केचित् पठन्ति॥

(ह॒ꣳसः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थिर्दुरोण॒सत्।
नृ॒षद्व॑र॒सदृ॑त॒सद् व्यो॑म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तं बृ॒हत्॥

प्रतद्विष्णु॑स्तवते वी॒र्या॑य। मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः।
यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेषु। अधि॑क्षि॒यन्ति॒ भुव॑नानि॒ विश्वा॑॑॥

त्र्य॑म्बकं यजामहे सुग॒न्धिं पु॑ष्टि॒वर्ध॑नम्।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ माऽमृता॑॑त्॥

तत्स॑वि॒तुर्वृ॑णीमहे। व॒यं दे॒वस्य॒ भोज॑नम्।
श्रेष्ठ॑ꣳ सर्व॒धात॑मम्। तुरं॒ भग॑स्य धीमहि॥

विष्णु॒र्योनिं॑ कल्पयतु। त्वष्टा॑ रू॒पाणि॑ पिꣳशतु।
आसि॑ञ्चतु प्र॒जाप॑तिः। धा॒ता गर्भं॑ दधातु ते॥)

अथ साष्टाङ्गप्रणामः

हिरण्यगर्भ इत्यादीनामष्टानां मन्त्राणामन्त एव साष्टाङ्गप्रणामो युक्तः॥

हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत्।
स दा॑धारपृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥१॥
(उरसा नमः)

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑।
य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॥२॥
(दृष्ट्या नमः)

ब्रह्म॑जज्ञा॒नं प्र॑थ॒मं पु॒रस्ता॒द् विसी॑म॒तः सु॒रुचो॑ वे॒न आ॑वः।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठाः स॒तश्च॒ योनि॒मस॑तश्च॒ विवः॑॥३॥
(दृष्ट्या नमः)

म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम्।
पि॒पृ॒तान्नो॒ भरी॑मभिः॥४॥
(मनसा नमः)

उप॑श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते॑ मनुतां॒ विष्ठि॑तं॒ जग॑त्।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वैर्दू॒राद्दवी॑यो॒ अप॑सेध॒ शत्रू॑न्॥५॥
(वचसा नमः)

अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान्।
यु॒यो॒ध्य॑स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑ उक्तिं विधेम॥६॥
(पद्भ्यां नमः)

या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या॑॑स्ते॒ स्वाहा॑॑॥७॥
(कराभ्यां नमः)

अस्य यजुषः स्थाने ‘या ते॑ अग्ने य॒ज्ञिया॑ तनूस्तयेह्यारो॑हा॒त्मात्मान॑॑म्। अच्छा॒वसू॑नि कृ॒ण्वन्त॒स्मे नर्या॑पु॒रूणि। य॒ज्ञो भू॒त्वा य॒ज्ञमासी॑द॒स्वां योनि॑॑म्। जात॑वेदा॒ भुव॒ आजाय॑मानः॒ सक्षय॒ एहि॑।’ इत्यृचं केचित् पठन्ति॥

इ॒मं य॑मप्रस्त॒रमाहि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः।
आत्त्वा॒ मन्त्राः॑॑ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व॥८॥
(कर्णाभ्यां नमः)

अथ प्रजननादिसर्वाङ्गपर्यन्तं न्यासः षष्ठः

(अथातो रुद्रस्नानार्चनविधिं व्याख्यास्यामः। आदित एव तीर्थे स्नात्वोदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा ईशानस्य प्रतिकृतिं कृत्वा तस्य दक्षिणप्रत्यग्देशे तन्मुखः स्थित्वा आत्मनि देवताः स्थापयेत्)

प्रजनने ब्रह्मा तिष्ठतु।
पादयोर्विष्णुस्तिष्ठतु।
हस्तयोर्हरस्तिष्ठतु।
बाह्वोरिन्द्रस्तिष्ठतु।
जठरेऽग्निस्तिष्ठतु।
हृदये शिवस्तिष्ठतु।
कण्ठे वसवस्तिष्ठन्तु।
वक्त्रे सरस्वतीतिष्ठतु।
नासिकयोर्वायुस्तिष्ठतु।
नयनयोश्चन्द्रादित्यौतिष्ठताम्। $
कर्णयोरश्विनौ तिष्ठताम्। $
ललाटे रुद्राः तिष्ठन्तु।
मूर्धनि आदित्यास्तिष्ठन्तु।
शिरसि महादेवस्तिष्ठतु।
शिखायां वामदेवस्तिष्ठतु।
पृष्ठे पिनाकी तिष्ठतु।
पुरतः शूली तिष्ठतु।
पार्श्वयोः शिवाशङ्करौ तिष्ठताम्। $
सर्वतो वायुस्तिष्ठतु।
ततो बहिः सर्वतोऽग्निज्वालामालापरिवृतस्तिष्ठतु।
सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु।
मां रक्षन्तु।

$ ति(ष्ठे)ताम्

(अग्निर्मे वाचिश्रित इति यथालिङ्गमङ्गानि संमृश्य)

अ॒ग्निर्मे॑ वा॒चि श्रि॒तः। वाग्घृद॑ये। हृद॑यं॒ मयि॑। अ॒हम॒मृते᳚। अ॒मृतं॒ ब्रह्म॑णि॥
(जिह्वां संमृशेत्)

वा॒युर्मे प्रा॒णे श्रि॒तः। प्रा॒णो हृद॑ये। ॰ (नासिके)
सूर्यो॑ मे॒ चक्षु॑षि श्रि॒तः। चक्षु॒र्हृद॑ये। ॰ (नेत्रे)
च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः। मनो॒ हृद॑ये। ॰ (वक्षः)
दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः। श्रोत्र॒ꣳ हृद॑ये। ॰ (श्रोत्रे)
आपो॑ मे॒ रेत॑सि श्रि॒ताः। रेतो॒ हृद॑ये। ॰ (गुह्यम्)
पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता। शरी॑र॒ꣳ हृद॑ये। ॰ (शरीरम्)
ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः। लोमा॑नि॒ हृद॑ये। ॰ (लोमानि)
इन्द्रो॑ मे॒ बले᳚ श्रि॒तः। बल॒ꣳ हृद॑ये। ॰ (बाहू)
प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः। मू॒र्धा हृद॑ये। ॰ (शिरः)
ईशा॑नो मे म॒न्यौ श्रि॒तः। म॒न्युर्हृद॑ये। ॰ (हृदयम्)
आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः। आ॒त्मा हृद॑ये। ॰ (हृदयम्)

पुन॑र्म आ॒त्मा पुन॒रायु॒रागा᳚त्। पुन॑ प्रा॒णः पुन॒राकू॑त॒मागा᳚त्।
वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः। अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः।
(सर्वाण्यङ्गानि संस्पृशेत्)