गणपतिपूजा

source: āśvalāyana pūrvāpara prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

ॐ॥ करिष्यमाणस्य कर्मणोऽविघ्नेन परिसमाप्त्यर्थमादौ सिद्धिविनायकपूजां करिष्ये॥

गणानां त्वा गृत्समदो गणपतिर्जगती। गणपत्यावाहने विनियोगः।
ग॒णानां॑॑ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥

(ग॒णानां॑॑ - त्वा॒ - ग॒णप॑तिम् - ह॒वा॒म॒हे॒ - क॒विं - क॒वी॒ना॒म् - उ॒प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राज॑॑म् - ब्रह्म॑णां - ब्र॒ह्म॒ण॒स्पते॒ - आ नः॑ - शृ॒ण्वन् - ऊ॒तिभिः॑ - सी॒द॒ साद॑नम्॥)

अस्मिन् हरिद्राबिम्बे सिद्धिविनायकं ध्यात्वा।

आवाहयामि। आसनं समर्पयामि। पाद्यमर्घ्यमाचमनीयं च दत्वा। (व्याहृत्या) स्नानम्। आचमनीयम्। वस्त्रम्। उपवीतम्। गन्धम्। अक्षतान्। पुष्पाणि समर्पयामि।

सुमुखाय नमः। एकदन्ताय नमः। कपिलाय नमः। गजकर्णकाय नमः। लम्बोदराय नमः। विकटाय नमः। विघ्नराजाय नमः। विनायकाय नमः। धूमकेतवे नमः। गणाध्यक्षाय नमः। फालचन्द्राय नमः। गजाननाय नमः। वक्रतुण्डाय नमः। शूर्पकर्णाय नमः। हेरम्बाय नमः। स्कन्दपूर्वजाय नमः। सिद्धिविनायकाय नमः। नानाविधपत्रपुष्पाणि समर्पयामि।

धूपदीपार्थे इमे अक्षताः। नालिकेरखण्डं निवेदयामि। ताम्बूलम्। मन्त्रपुष्पम्। सुवर्णपुष्पम्। समस्तोपचारान् समर्पयामि।
अनया पूजया महागणपतिः प्रीयताम्।

वक्त्रतुण्ड महाकाय सूर्यकोटिसमप्रभ।
अविघ्नं कुरु मे देव सर्वकार्येषु सर्वदा॥
अविघ्नमस्तु॥

ग॒णानां॑॑ त्वा ग॒णप॑तिꣳ हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्॥

(ग॒णानां॑॑ - त्वा॒ - ग॒णप॑तिम् - ह॒वा॒म॒हे॒ - क॒विं - क॒वी॒ना॒म् - उ॒प॒मश्र॑वस्तमम्।
ज्ये॒ष्ठ॒राज॑॑म् - ब्रह्म॑णां - ब्र॒ह्म॒ण॒स्पते॒ - आ नः॑ - शृ॒ण्वन् - ऊ॒तिभिः॑ - सी॒द॒ साद॑नम्॥)

अस्माद्बिम्बात् सिद्धिविनायकं यथास्थानं प्रतिष्ठापयामि। शोभने क्षेमाय पुनरागमनाय च॥ आशीर्वादं कुर्यात्॥