महान्याससूत्रभाष्यम्

source: महान्यासः सस्वरः
author: T.M नारायणशास्त्री
publisher: शारदाविलासः (kumbakonam)
script: grantha

॥ॐ॥
॥ॐ नमः श्रीमहादेवाय॥

अथ बोधायनमहर्षिप्रणीतानि महान्याससङ्ग्रहसूत्राणि॥

तारानाथकलोत्तंसं नारायणसमर्चितम्।
नारायणीसहचरं मारारातिमुपास्महे॥

श्रीमतो यजुर्वेदान्तर्गतस्य एकादशानुवाकात्मकस्य शतरुद्रीयापरनाम्नः रुद्राध्यायस्य “चरमायामिष्टिकायां जुहोति” इति ब्राह्मणवाक्येन अग्निचयने चरमेष्टिकायां होमे विनियोगो यद्यपि दृश्यते, तथापि “किं जप्येनामृतत्त्वं नो ब्रूही”ति शतरुद्रीयकेणेति, “रुद्राध्यायी मुच्यते सर्वपापै”रिति, “रुद्रजापी जले स्थित” इत्यादिश्रुतिस्मृतिपुराणवचनैः जपे च विनियोगो ज्ञायते। भगवांश्च बोधायनः जपहोमाभिषेकेषु पञ्चाङ्गयुतस्य रुद्राध्यायस्य विनियोगं वदन् पञ्चाङ्गानां च स्वरूपमाह अथात इत्यादिभिः सूत्रैः। तद्गतानां च केषाञ्चित्पदानामर्थः संक्षेपेणोच्यते महार्णवादिमतानुसारेण॥

अथातः [क] पञ्चाङ्गरुद्राणां (न्यासपूर्वकं) जपहोमार्च(नाभिषेक)विधिं व्याख्यास्यामः॥

[क] पञ्चाङ्गरुद्रशब्दस्य चायमर्थः – पञ्चप्रकारा अङ्गन्यासा येषु ते पञ्चाङ्गरुद्राः। एवं षडङ्गरुद्रशब्दस्यापि। तेषु च पञ्चप्रकारेष्वङ्गन्यासेषु शिखाद्यस्त्रपर्यन्तमेकत्रिंशदङ्गन्यासः प्रथमः। मूर्धादिपादान्तं दशाङ्गन्यासो द्वितीयः। पादादिमूर्धान्तं पञ्चाङ्गन्यासस्तृतीयः। गुह्यादिमस्तकान्तं षडङ्गन्यासश्चतुर्थः। हृदयाद्यस्त्रान्तं पञ्चाङ्गन्यासः पञ्चमः। प्रजननादिसर्वाङ्गपर्यन्तं न्यासः षष्ठः। पूर्वोक्तपञ्चप्रकारन्याससहिताः पञ्चाङ्गरुद्राः। षट्प्रकारन्याससहिताः षडङ्गरुद्राः। रुद्रविनियोगश्च त्रिधा। जपे होमे अभिषेके च। अर्चनमभिषेक इति महार्णवे। विधिशब्दस्य जपाद्यैः प्रत्येकमन्वयः। तेन जपरुद्रो होमरुद्रो ऽभिषेकरुद्र इति त्रिधा रुद्र उक्तो भवति। जपे होमे च रुद्रस्य पञ्चाङ्गता। अभिषेके तु षडङ्गता। अभिषेकस्थले प्रजननादिसर्वाङ्गपर्यन्तस्य न्यासस्य भगवता बोधायनेन पठितत्वात्। जपहोमार्चनविधिमित्येव पाठः। अभिषेकशब्दः न्यासपूर्वकमिति शब्दश्च न प्राचीनकोशेषु दृश्यते।

[क] १. या ते रुद्रेति शिखायां २. अस्मिन्महत्यर्णव इति शिरसि ३. सहस्राणीति ललाटे ४. हꣳसः शुचिषदिति भ्रुवोर्मध्ये ५. त्र्यंबकमिति नेत्रत्रयोः ६. [ख] नमः स्रुत्यायेति कर्णयोः ७. मानस्तोक इति नासिकायां ८. अवतत्येति मुखे ९. [ग] नीलग्रीवौ द्वौ कण्ठे १०. नमस्ते अस्त्वायुधायेति बाह्वोः

(क) या ते रुद्रेति मन्त्रं शिखायां न्यसेदिति शेषः। उत्तरत्र “पञ्चानुवाकात्पञ्चस्वङ्गुलीषु, सद्यञ्च पादयोर्न्यस्य” इत्यादिषु मन्त्राणां द्वितीयान्ततादर्शनात्। सर्वत्र तैत्तिरीयपाठः। या ते रुद्रेति मन्त्रान्ते शिखां स्पृशेत्। केचित्तु “शिखायै नमः” इत्युक्त्वा शिखां स्पृशन्ति। एवमुत्तरत्रापि॥

(ख) नमः॒ स्रुत्या॑य च॒ पथ्या॑य च इत्येतावानेव मन्त्रः॥

[ग] द्वावपि मन्त्रौ कण्ठ एव न्यसेत्। केचित् कण्ठ एकमुपकण्ठ एकं उपकण्ठ एकं च न्यसन्ति। तत्र मूलं मृग्यम्। उपबाहूपकवचशब्दयोरिव उपकण्ठशब्दस्यानुपादानात्॥

११. [ख] या ते हेतिरित्युपबाह्वोः १२. परिणो रुद्रस्य हेतिरिति मणिबन्धयोः १३. ये तीर्थानीति हस्तयोः १४. सद्योजातमिति पञ्चानुवाकान् पञ्चस्वङ्गुलीषु १५. [ग] नमो वः किरिकेभ्य इति हृदये (ये वृक्षेष्वित्युदरे नमः शंभव इति कक्षयोः) १६. [घ] नमो गणेभ्य इति पृष्ठे (नमस्तक्षभ्य इति कक्षयोः) १७. [ङ] नमो हिरण्यबाहव इति पार्श्वयोः १८. विज्यं धनुरिति जठरे १९. हिरण्यगर्भ इति नाभौ २०. मीढुष्टमेति कट्यां

[ख] उपबाहू प्रकोष्ठौ।

[ग] नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ꣳ हृद॑येभ्य इत्येतावान्मन्त्रः। केचित् नमो॑ विक्षीण॒केभ्य॑ इत्यादींश्चतुरोऽपि मन्त्रान् सानुषङ्गानधीयते॥

[घ] नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमः॑ इत्येतावान्मन्त्रः॥

[ङ] नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शां च॒ पत॑ये॒ नमः॑ इत्येतावान्मन्त्रः

२१. ये भूतानामिति गुह्ये (ये अन्येष्वित्यण्डयोः) २२. [च] सशिरा जातवेदा इत्यपाने २३. मा नो महान्तमित्यूर्वोः. २४. एष त इति जान्वोः २५. सꣳसृष्टजिदिति जङ्घयोः २६. विश्वं भूतमिति गुल्फयोः २७. ये पथामिति पादयोः २८. अध्यवोचदिति कवचं २९. नमो बिल्मिन इत्युपकवचं ३०. नमो अस्तु नीलग्रीवायेति तृतीयं नेत्रं ३१. प्रमुञ्च धन्वन इत्यस्त्रं, य एतावन्तश्चेति दिग्बन्धः॥

[च] सशिरा जातवेदा इत्यस्यार्थः – जातवेदसे सुनवामेत्यस्याः ऋचः, तामग्निवर्णां, अग्ने त्वं पारया, विश्वानि नो दुर्गहा, पृतनाजितꣳ सहमानमुग्रमित्यृक्चतुष्टयं शिर इत्युच्यते। तेन जातवेदस इत्याद्याः पञ्चाप्यृचः अपाने न्यसेदिति॥ केचित्तु सशिरा जातवेदा इति ऋचं पठन्ति। न तत् साधु। महार्णवे तादृश्या ऋचोऽग्रहणात्। प्रत्युत “जातवेदसे” इत्यादीनामृचामृषिच्छन्दो देवताकथनाच्च॥

ॐ नमो भगवते रुद्रायेति नमस्कारं न्यसेत्॥ [क] ओंकारं मूर्ध्नि विन्यस्य नकारं नासिकाग्रतः। मोकारं तु ललाटे वै भकारं मुखमध्यतः। गकारं कण्ठदेशे तु वकारं हृदि विन्यसेत्। तेकारं दक्षिणे हस्ते रुकारं वामहस्तके। द्राकारं नाभिदेशे तु यकारं पादयोर्न्यसेत्॥

[क] ॐ मूर्ध्ने नमः, नं नासिकायै नमः, मों ललाटाय नमः इत्यादि न्यसेत्॥

सद्यं च पादयोर्न्यस्य वामं न्यस्योरुमध्यतः। अघोरं हृदि विन्यस्य मुखे तत्पुरुषं न्यसेत्। [ख] ईशानं मूर्ध्नि विन्यस्य हंसो नाम सदशिवः। एवं न्यासविधिं कृत्वा [ग] ततः संपुटमारभेत्॥

[ख] ईशानं मूर्ध्नि विन्यस्य हंस हंस इति ब्रूयात्। सदाशिवों हंस हंस इति ब्रूयात्। एवं कृते हंसो नाम हंस इति प्रसिद्धः सदाशिवो भवेत्॥

[ग] संपुटम् = अञ्जलिम्॥

१. [क] त्रातारमिन्द्रम् २. त्वं नो अग्ने ३. सुगन्नः पन्थाम् ४. असुन्वन्त ५. तत्त्वा यामि ६. आनो नियुद्भिः ७. वयꣳ सोम ८. तमीशानम् ९. अस्मे रुद्रा १०. स्योना पृथिवीत्येतत्संपुटमिन्द्रादिदिक्षु विन्यस्यैवमेवात्मनि (षोडश) रौद्रीकरणं कृत्वा [ख] त्वगस्थिगतैः सर्वपापैः प्रमुच्यते सर्वभूतेष्वपराजितो भवति॥

[क] त्रातारमित्यादिभिर्दशभिर्मन्त्रैः इन्द्राय नम इत्याद्यैश्च पूर्वादिदिक्षु इन्द्रादिभ्योऽञ्जलिं कुर्यात्॥

[ख] त्वगस्थिगतैरित्यादि फलश्रुतिः॥

ततो [ग] यक्षगन्धर्वभूतप्रेतपिशाचब्रह्मराक्षसयमदूतशाकिनीडाकिनी-सर्वश्वापदतस्काराद्युपद्रवाद्युपघाताः सर्वे ज्वलन्तं पश्यन्तु मां रक्षन्तु॥ (इति जपेत्)

[ग] यक्षगन्धर्वेत्यारभ्य मां रक्षत्वित्यन्तं जपेत्॥

१. [घ] मनोज्योतिः २. अबोध्यग्निः ३. अग्निर्मूर्धा ४. मूर्धानं ५. मर्माणि ते ६. [ङ] जातवेदा इति गुह्यनाभिहृदयकण्ठमुखशिरःस्वभिमन्त्र्यात्मरक्षा कर्तव्या॥

[घ] मनो ज्योतिरित्यादिभिः षड्भिः ऋग्भिः गुह्यादीनामभिमन्त्रणमेव आत्मरक्षेत्युच्यते। केचित्तु मनो ज्योतिरिति गुह्यं, अबोध्यग्निरित्युदरं, मूर्धानमिति हृदयं, मर्माणि त इति मुखं, जातवेदा इति शिरश्चाभिमन्त्रयेत् इति पञ्चभिः पञ्चानामभिमन्त्रणं वदन्ति। आधुनिकास्तु ब्रह्मात्मन्वदसृजत इत्यनुवाकं च समग्रं पठन्ति। तत्र मूलं मृग्यम्॥

[ङ] जातवेदा इत्यृचःस्थाने “यथा वः स्वाहे”त्यृचं प्राचीनकोशेषूपलभ्यते॥

[क] शिवसङ्कल्पं हृदयं पुरुषसूक्तं शिर उत्तरनारायणं शिखा [ख] ऽप्रतिरथं कवचं [ङ] शतरुद्रीयमस्त्रम्॥

[क] शिवसंकल्पं च “यज्जाग्रतो दूरमि”ति वाजसनेयके पठितं षडृचं सूक्तम्। “यज्जाग्रत” इति षडृचः पठित्वा हृदयाय नम इति न्यासः कार्य इत्यर्थः। मनुस्मृतिगतस्य “सकृज्जप्त्वाऽस्य वामीयं शिवसङ्कल्पमेव च। अपहृत्य सुवर्णंतु क्षणाद्भवति निर्मलः” इति श्लोकस्य व्याख्याने शिवसङ्कल्पशब्दस्यार्थः “शिवसंकल्पं च यज्जाग्रतो दूरमित्येतद्वाजसनेयके यत्पठितं तत्” इति दृश्यते। विज्ञानेश्वरीये च प्रायश्चित्ताध्याये “ब्राह्मणः स्वर्णहारी तु रुद्रजापी जलेस्थितः” इति श्लोकस्य व्याखायां “यज्जाग्रतो दूरमुदैति दैवमिति शिवसङ्कल्पदृष्टस्य षडृचस्य सकृज्जप उक्त” इति दृश्यते। महार्णवे च महान्यासमन्त्राणामृष्यादिकथनस्थले “यज्जाग्रत इति सूक्तस्य शिवसङ्कल्पस्य प्रजापतिः” इति दृश्यते। अतः शिवसङ्कल्पं नाम षडृचमेव सूक्तमिति प्राचां मतमिति विज्ञायते। शान्तिकमलाकरे चैवमेव दृश्यते। केचित्तु “येनेदमि”त्यादिसप्तत्रिंशन्मन्त्रयुतं सूक्तं पठन्ति॥

[ख] अप्रतिरथं आ॒शुः शिशा॑न इत्यनुवाकः॥ अत्र केचित् कवचानन्तरं “प्रतिपूरुषं नेत्रं” इति सूत्रं पठन्तः प्रतिपूरुषमेककपालान् निर्वपति इत्यनुवाकद्वयं नेत्रमन्ततया पठन्ति। प्राचीनकोशेषु तत् सूत्रमेव नोपलभ्यते। “हृदयाद्यस्त्रान्तं पञ्चाङ्गन्यासः पञ्चम” इति पूर्वोक्तप्राचीनकोशपाठविरोधश्च स्पष्ट एव। अतोऽत्र नेत्रमन्त्राध्ययनं बोधायनमते नास्ति। शिखान्तरे तु “विभ्राड्” इति सप्तदशर्ग्भिर्नेत्रन्यास उक्तः॥

[ङ] “त्वम॑ग्ने रुद्र” इत्यादिः “भूर्भुवः॒ स्वः स्वाहा॑॑” इत्यन्तः अनुवाकः शतरुद्रीयशब्देनोच्यते। “त्वम॑ग्ने रुद्र इति शतरुद्रीयस्य रूपमि”त्युक्तेरिति महार्णवः। शान्तिकमलाकरे तु “शतरुद्रीयं जुहोति” इत्यादिस्थलेषु शतरुद्रीयशब्देन रुद्रस्यैवोक्तेः समग्रो रुद्राध्याय एवास्त्रमन्ततया ग्राह्यः गौणग्रहणे मानाभावाद्’ इत्युक्तम्। संहितागतं त्वम॑ग्ने रुद्र इत्यनुवाकं येऽस्त्रमन्ततया ऽधीयते त एव तत्र मूलं प्रष्टव्याः॥

[क] पञ्चाङ्गं सकृज्जपेत्॥

[क] पञ्चाङ्गं सकृज्जपेदित्यत्र ‘स॒द्योजा॒तम्’ इत्यादीन् पञ्चानुवाकान् केचिदधीयते। महार्णवे तु ‘हंसः शुचिषत् प्रतद्विष्णुस्त्र्यम्बकं तत्सवितुर्वृणीमहे विष्णुर्योनिम्’ इति पञ्च ऋचः पठिताः॥

[ख] १. हिरण्यगर्भो २. यः प्राणतो ३. ब्रह्म जज्ञानं ४. मही द्यौः ५. उपश्वासय ६. अग्ने नय ७. या ते अग्न ८. इमं यम प्रस्तरम् इत्यष्टाङ्गं प्रणम्य॥

[ख] हिरण्यगर्भ इत्यादीनष्टौ मन्त्रानुक्त्वा साष्टाङ्गं प्रणमेत्। साष्टाङ्गप्रणामश्च श्रीमच्छङ्करभगवत्पादैः प्रपञ्चसार उक्तः – ‘दोर्भ्यां पदाभ्यां जानुभ्यामुरसा शिरसा दृशा। मनसा वचसा चेति प्रणामोऽष्टाङ्ग ईरित’ इति। आधुनिकास्तु ‘उरसा शिरसा दृष्ट्या मनसा वचसाऽपि च। पद्भ्यां कराभ्यां कर्णाभ्यां प्रणामोऽष्टाञ्ग उच्यते’ इति श्लोकानुसारेण एकैकस्य मन्त्रस्यान्ते एकैकेनाङ्गेन तृतीयान्तेन देवं नमामीति पठन्ति। तत्र च मूलं गवेषणीयम्॥

अथात्मानं (शिवात्मानं) श्रीरुद्ररूपं ध्यायेत्॥

शुद्धस्फटिकसङ्काशं त्रिनेत्रं पञ्चवक्त्रकम्।
गङ्गाधरं दशभुजं [ग] सर्वाभरणभूषितम्॥

[ग] सर्पा इति पाठभेदः

नीलग्रीवं शशाङ्काङ्कं नागयज्ञोपवीतिनम्।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम्॥

कमण्डल्वक्ष-सूत्राभ्यामन्वितं शूलपाणिनम्।
ज्वलन्तं पिङ्गलजटा[क] शिखामध्योद-धारिणम्॥

[क] ‘शिखामुद्योतकारिणम्’ इति पाठभेदः॥

अमृतेनाप्लुतं हृष्टमुमादेहार्धधारिणम्।
दिव्यसिंहासनासीनं दिव्यभोगसमन्वितम्॥

दिग्देवतासमायुक्तं सुरासुरनमस्कृतम्।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम्॥

सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम्।
एवं ध्यात्वा द्विजः सम्यक् ततो यजनमारभेत्॥

अथातो रुद्रस्नानार्चनविधिं व्याख्यास्यामः। आदित एव तीर्थे स्नात्वोदेत्य शुचिः प्रयतो ब्रह्मचारी शुक्लवासा ईशानस्य प्रतिकृतिं कृत्वा तस्य दक्षिणाप्रत्यग्देशे तन्मुखः स्थित्वा आत्मनि देवताः स्थापयेत्।

प्रजनने ब्रह्मा तिष्ठतु। पादयोर्विष्णुस्तिष्ठतु। हस्तयोर्भरस्तिष्ठतु। बाह्वोरिन्द्रस्तिष्ठतु। जठरेऽग्निस्तिष्ठतु। हृदये शिवस्तिष्ठतु। कण्ठे वसवस्तिष्ठन्तु। वक्त्रे सरस्वती तिष्ठतु। नासिकयोर्वायुस्तिष्ठतु। नयनयोश्चन्द्रादित्यौ तिष्ठताम्। कर्णयोरश्विनौ तिष्ठताम्। ललाटे रुद्रास्तिष्ठन्तु। मूर्ध्न्यादित्यास्तिष्ठन्तु। शिरसि महादेवस्तिष्ठतु। शिखायां वामदेवस्तिष्ठतु। पृष्ठे पिनाकी तिष्ठतु। पुरतः शूली तिष्ठतु। पार्श्वयोः शिवाशङ्करौ तिष्ठताम्। सर्वतो वायुस्तिष्ठतु। ततो बहिः सर्वतोऽग्निर्ज्वालामालापरिवृतस्तिष्ठतु। सर्वेष्वङ्गेषु सर्वा देवता यथास्थानं तिष्ठन्तु। मां रक्षन्तु।

[क] अग्निर्मे वाचि श्रित इति यथालिङ्गमङ्गानि संमृश्य॥

[क] अग्निर्म इत्याद्यैर्मन्त्रैर्यथालिङ्गमङ्गानि संस्पृशेत्। अग्निर्मे वाचि श्रितः + अमृतं ब्रह्मणि इति जिह्वाम्। वायुरिति नासे। सूर्य इति चक्षुषी। चन्द्रमा इति वक्षः। दिश इति श्रोत्रे। आप इति गुह्यम्। पृथिवीति शरीरम्। ओषधिवनस्पतय इति लोमानि। इन्द्र इति बाहू। पर्जन्य इति मूर्धानम्। ईशान इति आत्मेति द्वाभ्यां हृदयम्। पुनर्म आत्मनि सर्वाण्यङ्गानि संस्पृशेत्॥

अथैनं गन्धाक्षतपत्रपुष्पधूपदीपनैवेद्यताम्बूलैरभ्यर्च्य, [ख] आत्मानं प्रत्याराधयेत्।

[ख] रुद्ररूपिणं जीवात्मानं स्वशरीरस्थं पूजयेत्। आराधितो मनुष्यैस्त्वमित्यादिमहेश्वरेत्यन्तमुक्त्वा मनसैवावाह्य त्र्यंबकमिति मन्त्रेण गन्धाद्यैः पञ्चोपचारैः संपूजयेदित्यर्थः॥

आराधितो मनुष्यैस्त्वं सिद्धैर्देवासुरादिभिः।
आराधयामि भक्त्या त्वां मां गृहाण महेश्वर॥
(त्र्यंबकमिति च)

आत्वा वहतु हरयः सचेतसः श्वेतैरश्वैः सह केतुमद्भिः।
वाताजितैर्बलवद्भिर्मनोजवैरायाहि श्रीघ्रं मम हव्याय शर्वोमित्यावाह्य

[ग] सद्योजातं प्रपद्यामीत्यावाहनं ददाति। (स्थापितेनावाहनम्)

[ग] आत्वा वहन्त्वियावाह्य सद्योजातमिति पुनरावाहयेत्॥

सद्योजाताय वै नमो नम इत्याचमनं वामदेवाय नम इति [घ] अब्लिङ्गाभिश्च स्नानम्।

[घ] अब्लिङ्गाः आपोहिष्ठेत्याद्याः॥

अथाद्भिस्तर्पयति। भवं देवं तर्पयामि शर्वं देवं तर्पयामीशानं देवं तर्पयामि पशुपतिं देवं तर्पयामि रुद्रं देवं तर्पयाम्युग्रं देवं तर्पयामि भीमं देवं तर्पयामि महान्तं देवं तर्पयामीति तर्पयित्वा

वामदेवाय नम इति वस्त्रं ददाति ज्येष्ठाय नम इत्युत्तरीयं श्रेष्ठाय नम इति यज्ञोपवीतं रुद्राय नम इति पुष्पं कालाय नम इति गन्धं कलविकरणाय नम इत्यक्षतान् बलविकरणाय नम इति धूपं बलाय नम इति दीपं बलप्रमथनाय नम इति वैवेद्यं सर्वभूतदमनाय नम इति ताम्बूलं मनोन्मनाय नम इति पुष्पाञ्जलिं ददाति॥

अथाष्टभिर्मन्त्रैरष्टौ पुष्पानि ददाति। भवाय देवाय नमः। शर्वाय देवाय नमः। ईशानाय देवाय नमः। पशुपतये देवाय नमः। रुद्राय देवाय नमः। उग्राय देवाय नमः। भीमाय देवाय नमः। महते देवाय नमः।

[क] अथास्याघोरतनूरुपतिष्ठतेऽघोरेभ्य इति। [ख] (तत्पुरुषायेति रुद्रगायत्रीं जपेद्दशकृत्वः शतकृत्वः सहस्रकृत्वो वा दशावरमथाशिष्यमाशास्ते) (ग) अथास्य मूर्ध्नि हिरण्यकलशेन सन्ततधारां निषिञ्चेत्। मधुना सर्पिषा पयसा चेक्षुरसेनाम्ररसेन वा नालिकेरोदकेन वा तदलाभ उदकेन वा।

[क] अथ पूर्वोक्तयजनानन्तरमस्य रुद्रस्य अघोरतनूः अघोरादिशरीराणि उपतिष्ठते। केन? अघोरेभ्य इत्यनुवाकत्रयेण॥

[ख] कुण्डलान्तर्गतो ग्रन्थः प्राचीनकोशेषु नोपलभ्यते। आशिषमाशास्ते = ईप्सितं प्रार्थयेदित्यर्थः॥

[ग] अस्य = देवस्य

  नमस्ते रुद्र मन्तव इत्येकादशानुवाकान् जपेत्। जपान्ते ऽग्नाविष्णू सजोषसे[क]त्येकादशानामनुवाकानामेकमेकं जपेत्। सर्वेषां पारे पुनराधयेदुत्तमाराधनेन।

[क] सर्वेषामुक्तनमकावृत्तिविशेषाणां पारे समाप्तौ उत्तमाराधनेन विशेषपूजया पुनराराधयेत्। पुनः पूर्ववद्देवं पूजयेदित्यर्थः॥

तदेतद्विधानमुक्तम्। तेनाभिषिक्तोदकेन अक्षीभ्यामित्यनुवाकेन अब्लिङ्गादिभिश्च आपादात् संमृज्यात्। पापक्षयार्थी व्याधिविमोक्षार्थी श्रीकामः शान्तिकामः पुष्टिकामस्तुष्टिकाम आयुष्काम आरोग्यकाम एवं कुर्यात्। एवं कुर्वन् सिद्धिमवाप्नोति। आचार्याय दक्षिणां ददाति। दशगाः सवत्साः सुवर्णभूषिता वृषभैकादशाः। तदलाभ एकां गां दद्यादित्याह भगवान् बोधायनः॥

॥इति महान्याससङ्ग्रहसूत्राणि॥

॥ इत्ययं ग्रन्थं समाप्तः॥