पुण्याहवाचनम्

source: āpastamba śrāddha prayoga
author: muddu śroutigal
publisher: rāja veda kāvya pāṭhaśālā (kumbakonam)
script: grantha

कुम्भस्थापनम्

अथ शुचौ समे देशे योमयेन गोचर्ममात्रं चतुरश्रं स्थण्डिलमुपलिप्य, तस्मिन् व्रीहीन्निक्षिप्य, तदुपरि तण्डुलान्निक्षिप्य, तन्मध्ये पद्मं लिखित्वा, पद्मोपरि प्रागग्रान् दर्भान् संस्तीर्त्य, तस्मिन् पूर्णकुम्भं सकूर्चाम्रपल्लवनारिकेलान् प्रतिष्ठाप्य

सङ्कल्पः

पवित्रं धृत्वा, दर्भेष्वासिनो दर्भान्धारयमाणः सङ्कल्पं करोति।

सङ्कल्पः

ममोपात्त + प्रीत्यर्थं, शुभे शोभने इत्यादि शुभतिथौ आत्मशुद्ध्यर्थं सर्वोपकरण शुद्ध्यर्थं शुद्धिपुण्याहं वाचयिष्ये। इति सङ्कल्प्य, नैरृत्यां दर्भान्निरस्य, अप उपस्पृश्य,

वरुणपूजा

पूर्वं प्रतिष्ठापितकुम्भे इमं मे वरुण, तत्त्वायामीति द्वाभ्यां वरुणमावाहयेत्॥

इ॒मं मे॑ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृडय। त्वाम॑व॒स्युराच॑के॥

तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑॑स्ते॒ यज॑मानो ह॒विर्भिः॑।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒मान॒ आयुः॒ प्रमो॑षीः॥ 

अस्मिन् कुम्भे वरुणं ध्यायामि। वरुणं आवाहयामि।
वरुणाय नमः। आसनं समर्पयामि।

पाद्यं, अर्घ्यं, आचमनीयं, स्नानं, स्नानानन्तरमाचमनीयं, वस्त्रं, उपवीतं, गन्धं, गन्धोपरि अक्षतान्, पुष्पाणि समर्पयामि।

वरुणाय नमः। प्रचेतसे नमः। सुरूपिणे नमः। अपां पतये नमः। मकरवाहनाय नमः। जलाधिपतये नमः। पाशहस्ताय नमः। वरुणाय नमः। नानाविधपत्रपुष्पाणि समर्पयामि॥

धूपं, दीपं, नैवेद्यं, गुडोपहारं निवेदयामि। ताम्बूलं, मन्त्रपुष्पं, सुवर्णपुष्पम्। एवं षोडशोपचारान् कृत्वा।

ऋत्विगरणम्

चतसृषु दिक्षु स्थितान् चतुरो ब्राह्मणान् वृणुयात्। अस्मिन् पुण्याहवाचनकर्मणि ऋत्विजं त्वां वृणे। इति वृत्वा।

अनुज्ञा

दर्भान् धारयमाणो ब्राह्मणैरनुज्ञां कुर्यात्॥

ॐ भवद्भिरनुज्ञातः पुण्याहं वाचयिष्ये॥ ॐ वाच्यतामिति प्रतिब्रूयुः॥

वाचनम्

कर्मणः पुण्याहं भवन्तो ब्रुवन्तु॥ इति त्रिः। पुण्याहं कर्मणोऽस्त्विति प्रितिब्रूयुः॥
सर्वोपकरणशुद्धिकर्मणे स्वस्ति भवन्तो ब्रुवन्तु। त्रिः। सर्वोपकरणशुद्धिकर्मणे स्वस्तीति प्रतिब्रूयुः॥
सर्वोपकरणशुद्धिकर्मणः ऋद्धिं भवन्तो ब्रुवन्तु। त्रिः। कर्म ऋद्ध्यतामिति प्रतिब्रूयुः॥

एवमेकैकं त्रिर्ब्रूयात् 

ऋद्धिः समृद्धिरस्तु। अस्त्विति प्रतिब्रूयुः।
पुण्याहसमृद्धिरस्तु । अस्त्विति प्रतिब्रूयुः
शिवं कर्मास्तु। अस्त्विति प्रतिब्रूयुः।

(तत्तत्कर्म यद्दैवत्यं भवति तस्य नाम गृह्णाति)

असौ प्रीयतामिति वदेत्। प्रीयताम् भगवानसाविति प्रतिब्रूयुः।

अथ शान्तिरस्तु। पुष्टिरस्तु। तुष्टिरस्तु। ऋद्धिरस्तु। अविघ्नमस्तु। आयुष्यमस्तु। आरोग्यमस्तु। ईशान्यां बहिर्देशे अरिष्टनिरसनमस्तु। आग्नेय्यां यत्पापं तत्प्रतिहतमस्तु। सर्वाः सम्पदः सन्तु। सर्वशोभनं भवतु। इति वदेत्। तथैव प्रतिब्रूयुः॥

द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑।
सु॒र॒भि नो॒ मुखा॑कर॒त् प्रण॒ आयू॑ꣳषि तारिषत्॥

आपो॒ हि ष्ठा म॑यो॒ भुव॒स्तान॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से॥
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः॥

हिरण्यवर्णीयाः

हिर॑ण्यवर्णाः॒ शुच॑यः पाव॒का यासु॑ जा॒तः क॒श्यपो॒ यास्विन्द्रः॑।
अ॒ग्निं या गर्भं॑ दधि॒रे विरू॑पा॒स्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥

यासा॒ꣳ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृ॒ते अ॑व॒पश्य॒न् जना॑नाम्।
म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा॑व॒कास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥

यासां॑॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्तरि॑क्षे बहु॒धा भव॑न्ति।
याः पृ॑थि॒वीं पय॑सो॒न्दन्ति॑ शु॒क्रास्ता न॒ आपः॒ शꣴ स्यो॒ना भ॑वन्तु॥

शि॒वेन॑ मा॒ चक्षु॑षा पश्यताऽपः शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे।
सर्वा॑ꣳ अ॒ग्नीꣳर॑प्सु॒षदो॑ हुवो वो॒ मयि॒ वर्चो॒ बल॒मोजो॒ नि ध॑त्त॥

यद॒दः सं॑ प्रय॒तीरहा॒वन॑दता ह॒ते।
तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता वो॒ नामा॑नि सिन्धवः॥

यत्प्रेषि॑ता॒ वरु॑णेन॒ ताः शीभ॑ꣳ स॒मव॑ल्गत।
तदा॑॑प्नो॒दिन्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन॥

अ॒प॒का॒मꣴ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक॑॑म्।
इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द् वार्णाम॑ वो हि॒तम्॥

एको॑ दे॒वो अप्य॑तिष्ठ॒त् स्यन्द॑माना यथाव॒शम्।
उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒कमु॑च्यते॥

आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः।
ती॒व्रो रसो॑ मधु॒पृचा॑मरङ्ग॒म आ मा॑॑ प्रा॒णेन॑ स॒ह वर्च॑सा गन्॥

आदित् प॑श्याम्यु॒त वा॑ शृणो॒म्यामा॒ घोषो॑ गच्छति॒ वाङ् न॑ आसाम्।
मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्यवर्णा॒ अतृ॑पं य॒दा वः॑॥

आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ चक्ष॑से॥
यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑ ज॒नय॑था च नः॥

दि॒वि श्र॑यस्वा॒न्तरि॑क्षे यतस्व पृथि॒व्या सं भ॑व ब्रह्मवर्च॒सम॑सि ब्रह्मवर्च॒साय॑ त्वा॥

पवमानसूक्तम्

पव॑मानः॒ सुव॒र्जनः॑ । प॒वित्रे॑ण॒ विच॑र्षणिः। यः पोता॒ स पु॑नातु मा। पु॒नन्तु॑ मा देवज॒नाः।
पु॒नन्तु॒ मन॑वो धि॒या। पु॒नन्तु॒ विश्व॑ आ॒यवः॑। जात॑वेदः प॒वित्र॑वत्। प॒वित्रे॑ण पुनाहि मा। शु॒क्रेण॑ देव॒ दीद्य॑त्। अग्ने॒ क्रत्वा॒ क्रतू॒ꣳरनु॑॥

यत् ते॑ प॒वित्र॑म॒र्चिषि॑। अग्ने॒ वित॑तमन्त॒रा। ब्रह्म॒ तेन॑ पुनीमहे। उ॒भाभ्यां॑॑ देवसवितः। प॒वित्रे॑ण स॒वेन॑ च। इ॒दं ब्रह्म॑ पुनीमहे। वै॒श्व॒दे॒वी पु॑न॒ती दे॒व्यागा॑॑त्। यस्यै॑ ब॒ह्वीस्त॒नुवो॑ वी॒तपृ॑ष्ठाः। तया॒ मद॑न्तः सध॒माद्ये॑षु। व॒यꣴ स्या॑म॒ पत॑यो रयी॒णाम्॥

वै॒श्वा॒न॒रो र॒श्मिभि॑र्मा पुनातु। वातः॑ प्रा॒णेने॑षि॒रो म॑यो॒भूः। द्यावा॑पृथि॒वी पय॑सा॒ पयो॑भिः। ऋ॒ताव॑री य॒ज्ञिये॑ मा पुनीताम्। बृ॒हद्भिः॑ सवित॒स्तृभिः॑। वर्षि॑ष्ठैर्देव॒मन्म॑भिः। अग्ने॒ दक्षैः॑॑ पुनाहि मा। येन॑ दे॒वा अपु॑नत। येनापो॑ दि॒व्यं कशः॑। तेन॑ दि॒व्येन॒ ब्रह्म॑णा॥

इ॒दं ब्रह्म॑ पुनीमहे। यः पा॑वमा॒नीर॒ध्येति॑। ऋषि॑भिः॒ संभृ॑त॒ꣳ रस॑॑म्। सर्व॒ꣳ स पू॒तम॑श्नाति। स्व॒दि॒तं मा॑त॒रिश्व॑ना। पा॒व॒मानीर्यो अ॒ध्येति॑। ऋषि॑भिः॒ संभृ॑त॒ꣳ रस॑॑म्। तस्मै॒ सर॑स्वती दुहे। क्षी॒रꣳ स॒र्पिर्मधू॑द॒कम्। पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः॥

सु॒दुघा॒ हि पय॑स्वतीः। ऋषि॑भिः॒ संभृ॑तो॒ रसः॑। ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्। पा॒व॒मा॒नीर्दि॑शन्तु नः। इ॒मं लो॒कमथो॑ अ॒मुम्। कामा॒न् सम॑र्धयन्तु नः। दे॒वीर्दे॒वैः स॒माभृ॑ताः। पा॒व॒मा॒नीः स्व॒स्त्यय॑नीः। सु॒दुघा॒ हि घृ॑त॒श्चुतः॑। ऋषि॑भिः॒ संभृ॑तो॒ रसः॑॥

ब्रा॒ह्म॒णेष्व॒मृत॑ꣳ हि॒तम्। येन॑ दे॒वाः प॒वित्रे॑ण। आ॒त्मानं॑ पु॒नते॒ सदा॑॑। तेन॑ स॒हस्र॑धारेण। पा॒व॒मा॒न्यः पु॑नन्तु मा। प्रा॒जा॒प॒त्यं प॒वित्र॑॑म्। श॒तोद्या॑मꣳ हिर॒ण्मय॑॑म्। तेन॑ ब्रह्म॒विदो॑ व॒यम्। पू॒तं ब्रह्म॑ पुनीमहे। इन्द्रः॑ सुनी॒ती स॒ह मा॑ पुनातु। सोमः॑ स्व॒स्त्या वरु॑णः स॒मीच्या॑॑। यमो॒ राजा॑॑ प्रमृ॒णाभिः॑ पुनातु मा। जा॒तवे॑दा मो॒र्जय॑न्त्या पुनातु॥

वरुणोद्वासनम्

तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदाशा॑॑स्ते॒ यज॑मानो ह॒विर्भिः॑।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शꣳ स॒मान॒ आयु॒ प्रमो॑षीः॥
अस्मात् कुम्भाद्वरुणं यथास्थानं प्रतिष्ठापयामि।

प्रोक्षणम्

अत्र ब्राह्मणा यमजानं सपरिवारं सर्वोपकरणं च प्रोक्षयेयुः।

दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे॑॑ऽश्विनो॑॑र्बा॒हुभ्यां॑॑ पू॒ष्णो हस्ता॑॑भ्या॒ꣳ सर॑स्वत्यै वा॒चो य॒न्तुर्य॒न्त्रेणा॒ग्नेस्त्वा॒ साम्रा॑॑ज्येना॒भिषि॑ञ्चा॒मीन्द्र॑स्य॒ बृह॒स्पते॑॑स्त्वा॒ साम्रा॑॑ज्येना॒भिषि॑ञ्चामि॥  

प्राशनम्

द्रु॒प॒दादि॒वेन्मु॑मुचा॒नः। स्वि॒न्नः स्ना॒त्वी मला॑दिव।
पू॒तं प॒वित्रे॑णे॒वाज्य॑॑म्। आपः॑ शुन्धन्तु॒ मैन॑सः॥ ॐ भूर्भुवः॒सुवः॑। त्रिः।

यजमानस्तत्तीर्थं प्राश्नाति

आप॒ इद्वा उ॑भेष॒जीरापो॑ अमीव॒ चात॑नीः। आप॒ सर्व॑स्य भेष॒जीस्ता मे॑ कृण्वन्तु भेष॒जम्॥

अप आचम्य पवित्रं विसृज्याचामेत्॥
पुण्याहवाचनं समाप्तम्॥